पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 874, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - १०. ] दीपिकासहितम्. ८२७ इति च ब्रह्मतर्के । इति चेत् सत्यं, उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव । ' नाम वा एतां ब्रह्मणः सर्ववि द्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः' इति कौण्डिन्य श्रुतौ ॥ ९ ॥ ३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ प्राप्तेश्च समञ्जसम् ॥ ॐ ॥ १० ॥ त्यं' युक्तमेवेत्यर्थः । अनेन सूत्रे सत्यमिति शेषः । तस्य तदित्यनेनान्व य इत्युक्तं भवति । कथं युक्तमित्यतस्तद्धेतुत्वेनापि तदुक्तमित्येतद्योज यति—उक्तो हीति । ' हि' यतः कर्तव्यतयेति शेषः । अनेन तदुपसंहा रकर्तव्यत्वं यतोऽस्माभिः ' उक्तं ' साधितमिति सूत्रखण्डार्थ उक्तो भ वति । श्रुत्याऽप्युक्तार्थसाधनाय—अस्ति तु तदपीति सूत्रांशः प्रवृत्तः । तं व्याचष्टे—तदिति । तदित्यनूद्य प्रमाणमित्यर्थकथनम् । यद्वा—त स्मिन् सर्वविद्यानां ब्रह्मनामत्वेन तद्गुणाभिधायकत्वादुपसंहारः कार्य इत्युक्तार्थे इत्यर्थः । ' प्रमाणं ' श्रुतिवचनम् । न केवलं गुणाभिधान स्योपसंहारार्थत्वादिति युक्तिमात्रमित्यपिशब्दार्थः । सौत्रतुशब्दार्थमा ह—एवेति । अस्य सत्यमित्यनेनान्वयः । एतास्सर्वविद्याः परब्रह्मनामै व, तस्माद्विष्णुरेक एव सर्वगुणैरुपसंहृत्योपास्य इत्यर्थः । यावच्छ क्तिप्रयत्नेनोपसंहारे फलाधिक्यबोधनार्थं बहुप्रमाणग्रहणार्थं च पुनः पुनः उपसंहारोपन्यास इति न पौनरुक्त्यमिति तत्त्वप्रदीपोक्तिः । कौ ण्डिन्यश्रुतावित्यस्य उक्तो ह्युपसंहार इत्यनुषङ्गः । अतः तत्प्रमाणम स्त्येवेत्यन्वयः ॥ २ ॥ ॥ इति उपसंहाराधिकरणम् ॥ ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन क र्तव्यत्वं समर्थ्यते । सूत्रे समञ्जसमित्यनेन असमञ्जसमिति पूर्वपक्षस्य सूचनात्तमुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—प्राप्तेश्चे ति ॥ समञ्जसमित्यस्यार्थो—युज्यत इति । चशब्दोऽवधारणे । अनेन सौत्रश्चशब्दः भिन्नक्रम इति सूचितम् । उपसंहारोऽनुपसंहार इति सूत्रेऽनुषक्तपदस्यार्थकथनम् । चः समुच्चये । युज्यत इत्यस्य प्रत्येकं