पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 875, कुल 1267 में से
संदर्भ में पढ़ें८२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् । ( २ ) गुणैस्सर्वैरूपास्योऽसौ ब्रह्मणा परमेश्वरः । अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु ॥ इति भविष्यत्पर्वणि ॥ १० ॥ :—*—: ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥ ११ ॥
सम्बन्धः । पुरुषभेदेनेति शेषः । नन्वनेनोपसंहारः कर्तव्यः अनेनानुप- संहार इति निर्णयाभावात् तौ पुरुषभेदेनापि न युक्तावित्यतस्तदुत्तर- त्वेन प्राप्तेरित्येतद्व्याचष्टे—योग्यतेति । प्राप्यते फलमनयेति प्राप्तिर्यो- ग्यता । तथा च स्वभुजवत् ध्यानकाले युगपद्बहुणप्रतीत्यादियोग्यता- विशेषादित्यर्थः । विशेषात् प्राप्तेरित्यनेन प्राप्तेरित्यस्य पुरुषविशेषात् निर्णयसंभवादित्यप्यर्थ उक्तो भवति । तत्र युगपद्वेदोक्तसर्वगुणप्रती- तियोग्यता ब्रह्मणः । देवपित्रादीनां क्रमेण न्यूनगुणप्रतीतिः । मानुषा- णामल्पगुणप्रतीतिरित्येवं युगपत्प्रतीत्यादियोग्यता ज्ञातव्या ॥ ( २ ) युगपत्सर्वगुणप्रतीतिः ब्रह्मणः, अन्येषां क्रमेणेति तदेव शृङ्गग्राहिकया स्मृत्या दर्शयति—गुणैरिति ॥ 'अन्यैः' चतुर्मुखेतर- देवपित्रादिभिः । चोऽप्यर्थः । मानुषैस्त्वित्यन्वयः । 'कैश्चित्' अल्पै- रानन्दादिगुणैः । यद्यपि स्मृतावूपासनाविशेष एवोच्यते न तु प्रती- तिनियमः । तथापि ध्यानरूपोपासनस्य गुणप्रतीतिसाध्यत्वादर्थात्त- ल्लाभ इति भावः । तथा च सर्वैर्गुणैरित्यस्य युगपत् प्रतीतेरित्यभ्युप- गमान्नासंगतिरिति भावः ॥ ३ ॥ ॥ इति प्राप्त्यधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता
समर्थ्यते । प्रमाणाभावेन फलविशेषानिर्णयादयुक्तो बहुगुणोपसंहार
इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे—सर्वेति ॥ अत्र पूर्वसूत्राद-
वधारणार्थकचशब्दशिरस्कस्य विपरिणतसमञ्जसपदस्योपसंहारस्तू-
त्रादुपसंहारपदस्य चानुवृत्त्या युक्त एव ब्रह्मादीनां यथायोगं बहुगुणो-
पसंहार इति साध्यलाभमभिप्रेत्य तत्र हेतुसमर्पकतया सूत्रं व्याचष्टे—