भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 876, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 876

[ अधि - ५. सू - १२. ] दीपिकासहितम्. ८२९ सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति। ( २ ) सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् । इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥ इति पाद्मे ॥ ११ ॥ —-::-— ५. अधिकरणम् ॥ ( १ ) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह— सर्वैति । सर्वगुणयुक्तत्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गु- णा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदादवि- भागेनेत्यर्थ उक्तो भवति । 'उपासनात् ' उपसंहृत्योपासनान्निमित्ता- दिति शेषः । अन्यत्रेत्यस्य विशेष्यमाह—फल इति । एवकारेणाल्पफ- लव्यावृत्तिः । अनेनान्यत्रेत्यस्यानुपसंहाराल्पाधिकारिभ्योऽन्यत्र तत्फ- लविलक्षणे फले इत्यर्थ उक्तो भवति। इमे इत्यस्यार्थो—ब्रह्मादय इति। इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा उच्यन्त इति तत्त्वप्रदी- पोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुपपत्तिः । तथाऽपि तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे । भवन्ती- ति सूत्रे शेषोक्तिः । यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥ ( २ ) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महद- ल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाच्चेत्याह— सम्पूर्णेति ॥ 'आ- नन्दभाक् ' आनन्दयुक्तः । तुशब्दोऽप्यर्थः । सम्यगिति क्रियाविशेषण- म् । तथा च 'इतरे तु' ब्रह्म ब्रह्माणीतरदेवादयोऽपि 'यथायोगं' यथायो- ग्यं उपासनात् मुक्तौ यथायोगं 'सम्यग्भवन्ति' अतिशयवन्तो भव- न्तीत्यर्थः । तत्त्वप्रदीपे तु सम्यङ्मुक्तावित्येकपदाभिप्रायेण इतरे तु यथायोगं यथाशक्त्युपास्तिं कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति' यथा- योगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपास- कानामपि सम्यङ्मुक्तिरेव नासम्यङ्मुक्तिरिति सिध्यति । दुःखलेशा- भावादिति विशेषार्थ उक्तः । पाद्मे वचनादिति शेषः ॥ ४ ॥ ॥ इति सर्वाभेदाधिकरणम् ॥ :: ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णाय्यन्ते ।