पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 881, कुल 1267 में से
संदर्भ में पढ़ें८३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ॥ १४ ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) उपसंहारानुपसंहारप्रमाणमाह— सू—ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ ॐ ॥ १५ ॥ आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् । फलसाम्यमपेक्ष्येत्यर्थः । यद्वा—फलस्योपासनसाम्यमपेक्ष्येत्यर्थः । न च भविष्यत्फलानिर्णयः, गुरूपदेशेन तन्निर्णयोपपत्तेरिति भावः । अ नेन सूत्रे निर्णयोपपत्तेरिति शेषः । तस्य फलनिर्णयोपपत्तेः योग्यता निर्णयोपपत्तेरिति द्वेधार्थ उक्तो भवति ॥ ७ ॥ ॥ इति इतराधिकरणम् ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमा णमुच्यते । मानाभावान्नोषसंहारानुपसंहारौ कर्तव्यौ इति प्राप्तं सि द्धान्तयन्नधिकरणतात्पर्यमाह—उपसंहारेति ॥ सर्वगुणोपसंहारानुप संहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः । अ नुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः । तत्र प्रथममुप संहारप्रमाणप्रदर्शनार्थं सूत्रं पठति—आध्यानायेति । अत्र प्रियशिर स्त्वादीत्यतो हिशब्दमनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे—आध्यानार्थं हीति । अत्र तत्त्वप्रदीपे आदद्या धिया ध्यानार्थं हि सर्वे गुणा उच्यन्त इत्याद्योऽर्थ उ- क्तः । अस्यार्थः—धिया अशेषान् गुणानादद्योपसंहृत्येति । स एव टी कायामशेषेत्यादिना विवृतः । तथा च 'हि' यस्मात् 'आध्यानार्थं' अशेषगुणोपसंहारपूर्वकध्यानार्थं सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्य र्थः । अस्य तस्मात् सर्वविद्यातो गुणोपसंहारः कार्य इति उपसंहार सूत्रोक्तसाध्येनान्वयः । सर्वविद्यानां भगवद्गुणभिधायकत्वं च सर्वा सां भगवत्संबन्धित्वात् सिद्धमिति न तदसिद्धिरिति भावः । गुणाभिधा नस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजनाभावादित्यंशं व्या चष्टे—प्रयोजनान्तरेति । ध्यानं विनाऽन्यस्य प्रयोजनस्याभावादित्य र्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय—अन्तरेति । विप्रकी