पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 880, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - १४. ] दीपिकासहितम्. ८३३ ( २ ) नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः । विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता ॥ इति वाराहे ॥ १३ ॥ -- ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥ १४ ॥ स्तमानामेवेति वाक्यशेषः ॥ ( २ ) अत्रैव स्मृतिमाह—नैवेति ॥ सर्वगुणास्तद्विशेषाश्च सर्वैरु- पास्या नैव । कुतो ? 'मुक्तिभेदतः' मुक्तौ फलतारतम्यात् । अन्यथा स न स्यादिति भावः । 'यत्' यस्माद्विरिञ्चस्यैव मुक्तावानन्दफल- स्य सुपूर्णता, अन्येषां विरिञ्चेतरेषामपूर्णता चास्तीत्यर्थः । वाराहे पु- राणे उक्तमिति शेषः । अस्य नेत्यनेनान्वयः । न चास्य सूत्रस्य 'अ- ज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' ( ) इति गीताभाष्योदाहृतश्रुतिविरोधः शङ्क्यः । यतः प्रमेयदीपे ध्यानापे- क्षया सूत्रं, ज्ञानापेक्षया तु श्रुतिरिति विशिष्टाधिकारिविषयेयं श्रुतिरि- ति च द्वेधा समाधानमुक्तम् ॥ ६ ॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ -:**:- ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवगन्धर्वपर्यन्तानां ब्रह्माणीतरदेवादीनां प्रियशिरस्त्वादिषड्गुणोपासनं समर्थ्यते । योग्यतानियमानिर्णयाद्वि- रिञ्चेतरदेवादिभिश्चतुर्भ्योऽन्ये मध्यमगुणा नोपास्या इति प्राप्ते सिद्धा- न्तयत्सूत्रं पठित्वा व्याचष्टे—इतरे त्विति ॥ 'आनन्दादयः' इत्यत्र प्र- कृतेभ्यश्चतुर्भ्यः 'सर्वभेदात्' इत्यत्र प्रकृतेभ्यस्सर्वगुणेभ्यश्च 'इतरे' मध्यमगुणाः 'इतरैः' चतुर्मुखेतरदेवादिभिः 'उपसंहर्तव्याः' उपसं- हृत्योपास्या इत्यर्थः । अनेन तुरप्यर्थ इति सूचितम् । न चोपासन- योग्यतानिर्णय इत्यतः तद्धेतुत्वेन अर्थादित्येतत् ल्यब्लोपनिमित्तप- ञ्चमीत्वाभिप्रायेण व्याचष्टे—फलेति । तत्तत्प्राप्यफलानुसारेणेत्यर्थः । फलमपेक्ष्य कथं निर्णय इत्यतः फलोपासनयोः साम्यादिति युक्तिक- थनपरतया सामान्यपदं व्याचष्टे—साम्येति । उपासनस्य तत्तत्प्राप्य १०५