पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 879, कुल 1267 में से
संदर्भ में पढ़ें८३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] फलभेदार्थमुपचयापचययोः भावान्न सर्वेषां प्रियशि- रस्त्वादिगुणोपासाप्राप्तिः । यः। भेद इति तादर्थ्ये सप्तमी । हिशब्दो हेतौ प्रसिद्धौ चेत्यभिप्रेत्य भेदे उपचयापचयौ हीति हेत्वंशं व्याचष्टे—फलभेदार्थमिति । 'अथात आन- न्दस्य ' इति श्रुतिसिद्धफलतारतम्यार्थमित्यर्थः । ' उपचयापचययोः ' क्रमेणाधिकल्पविशेषविषयकत्वरूपयोः । तारतम्यस्येति यावत् । गु- णोपासनेऽपीति शेषः । केचित्तु—उत्तमानां साधारणातिक्तस्य गुण- स्य यथायोग्यमुपचयः संग्रहः अन्येषां अपचयः त्याग इत्याहुः । 'भावात् ' अभ्युपेतत्वादित्यर्थः । नञ्व्यत्यासेनान्वयमभिप्रेत्य प्रियशि- रस्त्वाद्यप्राप्तिरिति साध्यांशं व्याचष्टे—नेति । 'सर्वेषां ' उत्तमानाम- वरेषां चेत्यर्थः । प्रियं शिरो यस्यान्नन्दमयस्य तस्य भावः प्रियशिर- स्त्वं, आदिपदेन मोदादिपक्षक्त्वादीनां ग्रहणम् । गुणशब्दात्परो वि- शेषशब्दो योज्यः । प्रियशिरस्त्वादिरूपश्चासौ आनन्दादिगुणविशेष- श्च तस्योपासा आनन्दादिगुणानां प्रियशिरस्त्वादिसकलविशेषयुक्त- त्वेन उपासनेति यावत् । तस्याः प्राप्तिः योग्यता तस्याः प्राप्तिः प्रसक्ति- रित्यर्थः न सर्वैः चतुर्णां गुणानां सकलविशेषयुक्तत्वेनोपासनीयत्वं, तथासति सर्वेषां सर्वगुणोपास्तिप्रसङ्गात्सर्वगुणानामपि गुणचतुष्ट- यविशेषत्वस्य वक्तुं शक्यत्वात् । किन्तूत्तमैरेवेति फलितोऽर्थः । यथोक्तं तत्त्वप्रदीपे—एकैकस्मिन् गुणे विशेषाणामुपचयापचयौ फलतारतम्यार्थं भवतः । अपचयः फलमात्राय भवति, न फला- भावाय । उक्तगुणोपास्तावुपचयोऽधिकफलाय भवति, अतो नावरे- षां प्रियशिरस्त्वादिप्रियगुणविशेषोपास्तिः प्राप्यते इति । अस्यार्थः —आनन्दादिषु एकैकस्मिन्नपि गुणे विद्यमानानां विशेषाणामवान्तर- भेदानां प्रियत्वादीनां विषयीकरणे उपचयापचयावाधिक्याल्पत्वे फल- तारतम्यार्थमङ्गीकार्यो भवतः । ' अपचयः ' कतिपयविशेषविषयत्व- रूपमल्पत्वम् । उपास्तावित्युभयत्राप्याकृष्यते । ' फलमात्राय ' मो- क्षायैव भवति, नातिशयितफलाय । ' उक्तगुणोपास्ताबुपचयः' उक्ता- नां आनन्दादिगुणानां मध्ये एकैकस्मिन्नपि गुणे विद्यमाना ये प्रियत्वा- द्यस्तेषां साकल्येन विषयीकरणमुपचयः साधिकफलाय सातिशय- मोक्षाय भवति । यत इत्यर्थः । ' अवरेषां ' उत्तमाधिकारिव्यतिरिक्ता- नां 'गुणविशेषोपास्तिः' उक्तगुणगतविशेषविषयोपास्तिरित्यर्थः । कि