भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

८३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] फलभेदार्थमुपचयापचययोः भावान्न सर्वेषां प्रियशि- रस्त्वादिगुणोपासाप्राप्तिः । यः। भेद इति तादर्थ्ये सप्तमी । हिशब्दो हेतौ प्रसिद्धौ चेत्यभिप्रेत्य भेदे उपचयापचयौ हीति हेत्वंशं व्याचष्टे—फलभेदार्थमिति । 'अथात आन- न्दस्य ' इति श्रुतिसिद्धफलतारतम्यार्थमित्यर्थः । ' उपचयापचययोः ' क्रमेणाधिकल्पविशेषविषयकत्वरूपयोः । तारतम्यस्येति यावत् । गु- णोपासनेऽपीति शेषः । केचित्तु—उत्तमानां साधारणातिक्तस्य गुण- स्य यथायोग्यमुपचयः संग्रहः अन्येषां अपचयः त्याग इत्याहुः । 'भावात् ' अभ्युपेतत्वादित्यर्थः । नञ्व्यत्यासेनान्वयमभिप्रेत्य प्रियशि- रस्त्वाद्यप्राप्तिरिति साध्यांशं व्याचष्टे—नेति । 'सर्वेषां ' उत्तमानाम- वरेषां चेत्यर्थः । प्रियं शिरो यस्यान्नन्दमयस्य तस्य भावः प्रियशिर- स्त्वं, आदिपदेन मोदादिपक्षक्त्वादीनां ग्रहणम् । गुणशब्दात्परो वि- शेषशब्दो योज्यः । प्रियशिरस्त्वादिरूपश्चासौ आनन्दादिगुणविशेष- श्च तस्योपासा आनन्दादिगुणानां प्रियशिरस्त्वादिसकलविशेषयुक्त- त्वेन उपासनेति यावत् । तस्याः प्राप्तिः योग्यता तस्याः प्राप्तिः प्रसक्ति- रित्यर्थः न सर्वैः चतुर्णां गुणानां सकलविशेषयुक्तत्वेनोपासनीयत्वं, तथासति सर्वेषां सर्वगुणोपास्तिप्रसङ्गात्सर्वगुणानामपि गुणचतुष्ट- यविशेषत्वस्य वक्तुं शक्यत्वात् । किन्तूत्तमैरेवेति फलितोऽर्थः । यथोक्तं तत्त्वप्रदीपे—एकैकस्मिन् गुणे विशेषाणामुपचयापचयौ फलतारतम्यार्थं भवतः । अपचयः फलमात्राय भवति, न फला- भावाय । उक्तगुणोपास्तावुपचयोऽधिकफलाय भवति, अतो नावरे- षां प्रियशिरस्त्वादिप्रियगुणविशेषोपास्तिः प्राप्यते इति । अस्यार्थः —आनन्दादिषु एकैकस्मिन्नपि गुणे विद्यमानानां विशेषाणामवान्तर- भेदानां प्रियत्वादीनां विषयीकरणे उपचयापचयावाधिक्याल्पत्वे फल- तारतम्यार्थमङ्गीकार्यो भवतः । ' अपचयः ' कतिपयविशेषविषयत्व- रूपमल्पत्वम् । उपास्तावित्युभयत्राप्याकृष्यते । ' फलमात्राय ' मो- क्षायैव भवति, नातिशयितफलाय । ' उक्तगुणोपास्ताबुपचयः' उक्ता- नां आनन्दादिगुणानां मध्ये एकैकस्मिन्नपि गुणे विद्यमाना ये प्रियत्वा- द्यस्तेषां साकल्येन विषयीकरणमुपचयः साधिकफलाय सातिशय- मोक्षाय भवति । यत इत्यर्थः । ' अवरेषां ' उत्तमाधिकारिव्यतिरिक्ता- नां 'गुणविशेषोपास्तिः' उक्तगुणगतविशेषविषयोपास्तिरित्यर्थः । कि

[ अधि - ७. सू - १४. ] दीपिकासहितम्. ८३३ ( २ ) नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः । विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता ॥ इति वाराहे ॥ १३ ॥ -- ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ इतरे त्वर्थसामान्यात् ॥ ॐ ॥ १४ ॥ स्तमानामेवेति वाक्यशेषः ॥ ( २ ) अत्रैव स्मृतिमाह—नैवेति ॥ सर्वगुणास्तद्विशेषाश्च सर्वैरु- पास्या नैव । कुतो ? 'मुक्तिभेदतः' मुक्तौ फलतारतम्यात् । अन्यथा स न स्यादिति भावः । 'यत्' यस्माद्विरिञ्चस्यैव मुक्तावानन्दफल- स्य सुपूर्णता, अन्येषां विरिञ्चेतरेषामपूर्णता चास्तीत्यर्थः । वाराहे पु- राणे उक्तमिति शेषः । अस्य नेत्यनेनान्वयः । न चास्य सूत्रस्य 'अ- ज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' ( ) इति गीताभाष्योदाहृतश्रुतिविरोधः शङ्क्यः । यतः प्रमेयदीपे ध्यानापे- क्षया सूत्रं, ज्ञानापेक्षया तु श्रुतिरिति विशिष्टाधिकारिविषयेयं श्रुतिरि- ति च द्वेधा समाधानमुक्तम् ॥ ६ ॥ ॥ इति प्रियशिरस्त्वाधिकरणम् ॥ -:**:- ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवगन्धर्वपर्यन्तानां ब्रह्माणीतरदेवादीनां प्रियशिरस्त्वादिषड्गुणोपासनं समर्थ्यते । योग्यतानियमानिर्णयाद्वि- रिञ्चेतरदेवादिभिश्चतुर्भ्योऽन्ये मध्यमगुणा नोपास्या इति प्राप्ते सिद्धा- न्तयत्सूत्रं पठित्वा व्याचष्टे—इतरे त्विति ॥ 'आनन्दादयः' इत्यत्र प्र- कृतेभ्यश्चतुर्भ्यः 'सर्वभेदात्' इत्यत्र प्रकृतेभ्यस्सर्वगुणेभ्यश्च 'इतरे' मध्यमगुणाः 'इतरैः' चतुर्मुखेतरदेवादिभिः 'उपसंहर्तव्याः' उपसं- हृत्योपास्या इत्यर्थः । अनेन तुरप्यर्थ इति सूचितम् । न चोपासन- योग्यतानिर्णय इत्यतः तद्धेतुत्वेन अर्थादित्येतत् ल्यब्लोपनिमित्तप- ञ्चमीत्वाभिप्रायेण व्याचष्टे—फलेति । तत्तत्प्राप्यफलानुसारेणेत्यर्थः । फलमपेक्ष्य कथं निर्णय इत्यतः फलोपासनयोः साम्यादिति युक्तिक- थनपरतया सामान्यपदं व्याचष्टे—साम्येति । उपासनस्य तत्तत्प्राप्य १०५

८३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ॥ १४ ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) उपसंहारानुपसंहारप्रमाणमाह— सू—ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ ॐ ॥ १५ ॥ आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् । फलसाम्यमपेक्ष्येत्यर्थः । यद्वा—फलस्योपासनसाम्यमपेक्ष्येत्यर्थः । न च भविष्यत्फलानिर्णयः, गुरूपदेशेन तन्निर्णयोपपत्तेरिति भावः । अ नेन सूत्रे निर्णयोपपत्तेरिति शेषः । तस्य फलनिर्णयोपपत्तेः योग्यता निर्णयोपपत्तेरिति द्वेधार्थ उक्तो भवति ॥ ७ ॥ ॥ इति इतराधिकरणम् ॥ -: ☼ :- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमा णमुच्यते । मानाभावान्नोषसंहारानुपसंहारौ कर्तव्यौ इति प्राप्तं सि द्धान्तयन्नधिकरणतात्पर्यमाह—उपसंहारेति ॥ सर्वगुणोपसंहारानुप संहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः । अ नुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः । तत्र प्रथममुप संहारप्रमाणप्रदर्शनार्थं सूत्रं पठति—आध्यानायेति । अत्र प्रियशिर स्त्वादीत्यतो हिशब्दमनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे—आध्यानार्थं हीति । अत्र तत्त्वप्रदीपे आदद्या धिया ध्यानार्थं हि सर्वे गुणा उच्यन्त इत्याद्योऽर्थ उ- क्तः । अस्यार्थः—धिया अशेषान् गुणानादद्योपसंहृत्येति । स एव टी कायामशेषेत्यादिना विवृतः । तथा च 'हि' यस्मात् 'आध्यानार्थं' अशेषगुणोपसंहारपूर्वकध्यानार्थं सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्य र्थः । अस्य तस्मात् सर्वविद्यातो गुणोपसंहारः कार्य इति उपसंहार सूत्रोक्तसाध्येनान्वयः । सर्वविद्यानां भगवद्गुणभिधायकत्वं च सर्वा सां भगवत्संबन्धित्वात् सिद्धमिति न तदसिद्धिरिति भावः । गुणाभिधा नस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजनाभावादित्यंशं व्या चष्टे—प्रयोजनान्तरेति । ध्यानं विनाऽन्यस्य प्रयोजनस्याभावादित्य र्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय—अन्तरेति । विप्रकी

[ अधि - ८. सू - १५. ] दीपिकासहितम्. ८३५ ( २ ) ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः ॥ नान्यत्प्रयोजनं ज्ञानाद्ध्यानात्कर्मकृतेरपि । श्रवणाच्चाथ पाठाद्वा विद्याभिः किञ्चिदिष्यते ॥ इति परमसंहितायाम् ॥ ( ३ ) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ॥ नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥ ( ४ ) ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलम् । र्णगुणोपसंहारफलं तु मोक्षानन्दातिशय इति टीकायामुक्तम् ॥ ( २ ) गुणाभिधानस्य ध्यानार्थत्वे स्मृतिं चाह—ज्ञानार्थमिति ॥ अथशब्दः कर्मणां चेत्यर्थान्तरे । तस्या इति शेषः । तथा च यतः ‘त स्याः' उदीरणायाः विद्याभिर्गुणाद्युक्तेः विद्याभिधेयानां हरेर्गुणानां प रोक्षज्ञानात् ध्यानात् हरेः कर्मकरणात् शब्दग्रहणरूपाच्छ्रवणात् शब्दा भ्यासरूपात्पाठात् अन्यत् किञ्चित्प्रयोजनं 'नेष्यते' नोपेयते, अतो ‘विद्याभिः' ब्रह्मकर्मोभयविद्याभिर्गुणानां कर्मणां च ‘समुदीरणा' अभिधानं ज्ञानार्थं तद्द्वारा ध्यानार्थमेव भवेत् । उपलक्षणमेतत् । कर्म करणार्थं चेत्यपि द्रष्टव्यम् । यतः सोदीरणा ध्यानाद्यर्थमेव, न प्रयोज नान्तराय, अतस्तस्याः प्रयोजनवत्त्वाय सर्वेऽपि हरेर्गुणाः ज्ञातव्या ध्यातव्याश्चैवेत्यर्थः । कर्माणि च कर्तव्यान्येवेत्यपि द्रष्टव्यम् । तथा च अनया स्मृत्या गुणाभिधानमाध्यानायैव भवति, सप्रयोजनस्य सतः प्रयोजनान्तराभावादिति सूत्रकृदुक्तानुमानं ज्ञापितं भवतीति ध्येयम् । ‘इति परमसंहितायां' तदाख्यग्रन्थे सूत्रकृदुक्तं कथितमिति शेषः ॥ ( ३ ) ननु तथाऽपि प्रयोजनान्तराभावादिति हेतुरसिद्धः । स्मृतौ श्र वणपाठयोरपि गुणाभिधानप्रयोजनत्वेनोक्तत्वादित्यत आह— गुणा इति ॥ यतो गुणानां ‘कथने' कथनात् ज्ञानध्यानाभ्यामन्यत् मुख्यं प्रयोजनं न भवेदेव, अतस्तस्य तत्प्रयोजनवत्त्वाय सर्वे हरेर्गुणा ज्ञात व्या ध्यातव्याश्चेत्यर्थः । तथा च श्रवणादेः परोक्षज्ञानध्यानार्थत्वेन त त्साधनत्वान्न तद्गुणाभिधानस्य मुख्यं प्रयोजनमिति हेतुत्वेनाभिमत स्य मुख्यप्रयोजनान्तराभावस्य नासिद्धिरिति भावः ॥ ( ४ ) ननु तथाऽपि ध्यानान्यस्य परोक्षज्ञानस्य गुणाभिधानप्रयो जनत्वात्प्रयोजनान्तराभावादित्यसिद्धमित्यत आह—ज्ञानेति ॥ ‘सर्व

८३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् ॥ इति बृहत्तन्त्रे ॥ १५ ॥ (५) सू—ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥ 'आत्मेत्येवोपासीत' (बृ. ३-४-७.) इत्यनुपसंहारे प्र माणम् ॥ १६ ॥ शः 'सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' ज्ञानध्यानयोरुपयोग्यु पयोग्यभावेन संमेलनान्मुख्यं फलमपरोक्षज्ञानादिकं भवेत्, नान्येन परोक्षज्ञानमात्रेणेत्यर्थः । तथा च ध्यानपूर्वभाविज्ञानमपि ध्यानोपयो गितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भा वः । यद्यपि श्रवणादेस्तत्त्वनिश्चयद्वारा जनलोकादिफलकस्य गुणा भिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तरा भावहेतोरसिद्धिरेव । तथाऽपि मोक्षाख्यमहाफलसाधनापरोक्षज्ञानसा धनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्यं प्रयोजनमिति ज्ञानमेव प्रयोजनं वाच्यम् । तथा च श्रवणादेरपरोक्षज्ञानसाधनतत्त्व ज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासि द्धिरिति भावः । इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः। अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव लिङ्गतया प्रमाणमित्युक्तं भवति ॥ (५) एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थ यत्सूत्रं पठित्वा व्याचष्टे—आत्मशब्दाच्चेति॥ चोऽप्यर्थः । तथा च 'आ त्मशब्दात्' तद्घटितश्रुतेः अनुपसंहारोऽपि सिद्धयतीति सूत्रार्थमभि प्रेत्य श्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—आत्मेति । इति वाक्यमिति शेषः । अनुपसंहार इति । उपासनाक्षिताल्पगुणोपसंहारे प्रमाणमित्य र्थः । अन्यथा गुणान्तरव्यावृत्तिपूर्वकं आत्मत्वोपासनस्यैवात्र विधा नादसङ्गतेः । न च अवधारणस्य 'अन्यथात्वम्' इति सूत्रे अयोगव्य वच्छेदकत्वस्योक्तत्वात् कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वा च्यम् । उपसंहारानुपसंहारवद्ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोग व्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधि कारिभेदेनाविरोधात् ॥ ८ ॥ ॥ इति आख्यानाधिकरणम् ॥

[अधि - ९. सू - १७.] दीपिकासहितम्. ८३७ ९. अधिकरणम् ॥ (१) सू- ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ ॐ ॥ १७ ॥ न च 'आनन्दादयः प्रधानस्य' इत्युक्तिविरोधः । य- तः 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-१.) 'विज्ञानमान- न्दं ब्रह्म' (बृ. ५-९-२८.) इतिवदेवात्मशब्दगृहीतिः । 'अत्र ह्येते सर्व एकीभवन्ति' (बृ. ३-४-७.) इत्युत्तरात् । (२) आनन्दानुभवत्वाच्च निर्दोषत्वाच्च भण्यते । ९. अधिकरणम् ॥ (१) अत्राधिकरणे उपासनायामानन्दादिचतुर्गुणनियमः समर्थ्य- ते । 'आत्मेत्येवोपासीत' इति सावधारणश्रुतेरात्मत्वमेव सर्वोपास्यं न त्वानन्दादयोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति - आ- त्मेति ॥ अत्रात्मपदं शब्दपरमित्याशयेन आत्मगृहीतिरित्युक्तहेतोरपे- क्षितं साध्यमध्याहृत्य दर्शयति - न चेति । इत्युक्तीत्यावर्तते । तथा च 'आनन्दादयः प्रधानस्य' इत्युक्तेः 'आत्मेत्येवोपासीत' इति सा- वधारणोक्तिविरोधो नैवेत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन इतरवदि- ति दृष्टान्तविवरणपूर्वकमात्मगृहीतिरित्‍येतद्योजयति - यत इति । 'सत्यं ज्ञानम्' इति तैत्तिरीये 'विज्ञानमानन्दं ब्रह्म' इति बृहदारण्य- के । इतिवदिति । इत्यादिवाक्येषु यथा अनेकेषां सत्यत्वज्ञानानन्दादी- नां ग्रहणम्, तथा आत्मशब्देनापि सत्यज्ञानानन्दादीनां 'गृहीतिः' ग्र- हणं भवेत् । 'आनन्दानुभवत्वाच्च' इति वचनादात्मशब्दस्यापि सत्य- ज्ञानानन्दादिग्राहकत्वात् । यथोक्तं तत्त्वप्रदीपे - यथेतरेषु विज्ञानमा- नन्दं ब्रह्मेत्यादिषु वचनेषु नैकगुणगृहीतिः तद्वदितरयुक्तत्वेनैवात्मश- ब्दगृहीतिरानन्दादयो गुणा आत्मशब्देन विवक्षिता इत्यर्थ इति । कुतो ऽयमात्मशब्दः सत्त्वानन्दाद्यभिधायको, न स्वामित्वमात्रस्येत्याशङ्क्यो- त्तरत्वेनोत्तरादित्यंशं व्याचष्टे - अत्रेति । उत्तरादिति । बृहदारण्यके 'आत्मा' इति विधेरुत्तरत्र श्रुताद्वाक्यादित्यर्थः । व्याख्यातमेतत्सर्वंवे- दान्तनये ॥ (२) आत्मशब्दो न स्वामित्वमात्रं वक्ति, किन्तु सत्त्वानन्दादीन- पीत्युक्तार्थे स्मृतिं चाह - आनन्देति ॥ ईश्वरो वेदवादिभिर्न केवलं स्वामित्वादात्मेति भण्यते, किन्तु 'आनन्दरूपत्वात्' अनुभवरूपत्वा- च्च निर्दोषत्वात् नित्यत्वाच्च 'भण्यते' उच्यत इत्यर्थः । निर्दोषत्वाद्वि

८३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः ॥ इति बृहत्तन्त्रे ॥ १७ ॥ —— १०. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ ॐ ॥ १८ ॥ सर्वगुणानामन्वय आत्मशब्दे भवति । ' आप्तव्याप्तेरा त्मत्वाद्'त्यनेन सत्त्वमात्मशब्दार्थ इति सूचितम् । चशब्दः समुच्चये । बृहत्तन्त्रे उक्तमिति शेषः ॥ ९ ॥ ॥ इति आत्मगृहीत्यधिकरणम् ॥ —— १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षि प्य समाधीयते । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे - अन्वयादिति ॥ अत्रेत्थं योजना - नात्मशब्दस्यानुपसं हारमानत्वं युक्तम्, तदुक्तगुणानां सर्वोपास्यत्वाभावात् । कुतः ? श्रु तचतुर्गुणोपासनस्य पुंसः विभ्रमकरत्वेन निश्चायकत्वाभावात् । सोऽ पि कुतो ? यत आत्मशब्दे सर्वगुणानां वाच्यतयाऽन्वयो भवति अत आत्मशब्दस्य सर्वगुणाभिधायकत्वमिति यावत् । तदपि कुतः ? आ प्तव्याप्तेरिति वचनादिति । वचनार्थस्तु - आप्ता प्राप्ता व्याप्तिर्देशकाल गुणापरिच्छेदो यं स तथोक्तस्तस्येति हेतुगर्भं विशेषणम् । ' पर मस्य' परमात्मनः । सप्तम्यर्थे षष्ठी । 'आत्मशब्दः' आत्मेति शब्दः 'इति वचनात्' इत्यन्वयवचनात् । सत्यमेवमिति पदद्वयाध्याहारेण स्यादवधारणादिति सिद्धान्तांशं व्याचष्टे - सत्यमिति । अर्थाङ्गीकारे सत्यमितिशब्दः । तथा च यत् परेण सर्वगुणाभिधायकत्वमात्मश ब्दस्योक्तं तदङ्गीक्रियते । यदात्मशब्दोक्तस्य सर्वोपास्यत्वाभावोऽनुप संहारामानत्वं च तन्नाङ्गीक्रियत इति भावः । कथं परेणोक्तमभ्युप गम्यत इत्यत आह - स्यादिति । चोऽवधारणे । यत्परेणात्मशब्दस्य सर्वगुणाभिधायकत्वमुक्तम् । 'तदेवं' तथा स्यादेव । कुतः ? यतः 'आप्तव्याप्तेः' इति प्रमाणमत्र स्यात् । तथा च प्रमितत्वात्परोक्ताङ्गी कारो न दोषायेति भावः । ननु श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमक

[ अधि - १०. - सू - १८. ] दीपिकासहितम्. ८३९ त्मशब्दः परमस्य प्रयुज्यते' इति वचनादिति चेत्स त्यम्, स्याच्चैवम् । ( २ ) 'आत्मेत्येव' (बृ. ३-४-७.) इत्यवधारणात् । अन्यथा रत्वात्कथमात्मशब्दोक्तगुणानां सर्वोपास्यत्वमित्यतो प्याह - स्याच्चैव- मिति । ब्रह्मादीन् प्रत्येव, नान्यान् प्रतीति शेषः । तथा च यद्यात्मश- ब्दस्य सर्वगुणाभिधायकत्वमङ्गीकृतम् 'तदेवं' तथा स्यादेव, किन्तु ब्रह्मादीन् प्रत्येव, नाल्पाननुपसंहर्तृन् प्रति, तान् प्रति तु अल्पगुणाभि- धायकः स्यात् । कुतः ? 'अन्वयात्' तथाऽनुभवात् । अतो विघ्नमक- रत्वाभावात् तदुपासने सर्वेषां' स्यात् ' युक्तमित्यर्थः ॥ ( २ ) ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान् ज्ञापयतीति कुतः, अ- न्यान प्रतीव तान्प्रत्यल्पगुणाभिधायकः किं न स्यादित्याशङ्कोत्तरत्वे- नावधारणादित्यंशं व्याचष्टे - आत्मेति ॥ अन्ययोगव्यवच्छेदकावधा- रणयुक्तत्वादित्यर्थः । अवधारणेऽपि किमायातमित्यत आह - अन्यथे- ति । आत्मशब्दस्यान्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्व इ- त्यर्थः । सर्वोपसंहारेति । 'गुणैस्सर्वैरूपास्योऽसौ' इत्यादिसर्वोपसंहा- रपूर्वकोप,सनवचनविरोधादित्यर्थः । अयं भावः - यद्ययमात्मशब्दोऽ- न्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकः, तर्हि अवधारणमप्य- न्यान् प्रतीव तान् प्रत्यन्ययोगव्यवच्छेदकमेव स्यात् । न चेष्टापत्तिः । तथा सति आत्मशब्दोक्तस्यैवोपास्यत्वप्राप्त्या सर्वोपसंहारवचन- विरोधः स्यात् । अतोऽसौ ब्रह्मादीन् प्रति सर्वगुणाभिधायक इति । यद्यपि तत्त्वप्रदीपे सत्यमिति वाक्यं नानुपसंहार एव प्र- माणं, किन्तु सर्वोपसंहारेऽपि प्रमाणं स्यादेव, कुतः ? 'आत्मे- त्येव' इति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । 'अन्यथा' एवमर्थानङ्गी- कारे सर्वोपसंहारवचनविरोधादित्यामेति वाक्यस्यानुपसंहारमात्रमा- नत्वाङ्गीकारपरतया सत्यमिति भाष्यं व्याख्यातम् । तथाऽपि टी- काकृत् तदङ्गीकृत्यावधारणादित्यंशं तद्भाष्यं च प्रकारान्तरेणापि व्या- ख्यातवानिति ध्येयम् । अनेन - 'अन्वयात्' 'आप्तव्याप्तेः' इत्यन्वय- वचनात् आत्मशब्दे सर्वेषां गुणानां अन्वयात् वाच्यतया सम्बन्धात् तस्य तदभिधायकत्वात् अत एव श्रुतचतुर्गुणोपासनस्य पुंसः विघ्न- मकरत्वात् अत एव तदुक्तगुणानां सर्वोपास्यत्वाभावात् न तस्यानुप- संहारमात्रत्वं युक्तमिति चेत् सत्यं, यतः तथा स्यादेव यत्परेणात्मश-

२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३.] सर्वोपसंहारवचनविरोधात् ॥ १८ ॥ ―――※――― ११. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ कार्याख्यानादपूर्वम् ॥ १९ ॥ 'अलौकिकास्तस्य गुणा ह्युपास्या अलौकिकं मुक्ति ब्दस्य सर्वगुणाभिधायकत्वमुक्तं तत् तथा स्यादेव ब्रह्मादीन् प्रति । कुतः ? अस्य वाक्यस्य 'अवधारणात्' अयोगव्यवच्छेदकावधारण युक्तत्वात्, नान्यान् अल्पान् प्रति । कुतः ? अन्ययोगव्यवच्छेदकावधा रणात् । अतो विभ्रमकत्वाभावात् नौकानुपपत्तिरिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपरीत्या तु—यत्त आत्मेत्यस्य अनुपसंहारमात्रेणान- र्थक्यमुक्तं तत्सत्यं युक्तमेव । कुतः ? तस्य सर्वोपसंहारेऽपि मानत्वात् । तत्कुतः ? अवधारणात् 'आत्मेत्येव' इति सर्वगुणपूर्ण इत्येवेत्ययोग व्यवच्छेदकावधारणादिति सूत्रखण्डार्थः ॥ १० ॥ ॥ इति अन्वयाधिकरणम् ॥ ―――※――― ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽलौकिकगुणानामेवोपसंहार्यत्वं समर्थ्यते । लौकिका एव गुणा उपसंहृत्य ध्यातव्या नालौकिकास्तेषां पूर्वमननु भूतत्वेन ध्यानकालेऽप्रतीतेरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति— कार्येति ॥ मुक्तिकार्यत्वाख्यानात् ध्यानकार्यभूताया मुक्तेरलौकिक त्वाख्यानादिति हेतुवाक्यार्थमभिप्रेत्य तत्सूचितां श्रुतिं दर्शयति— अलौकिका इति । अलौकिका एवेत्यर्थः । 'तस्य' हरेः । कुत इत्यतो हेतुमाह—अलौकिकमिति । 'अस्य' उपासनस्य 'मुक्तिकार्ये' का र्यभूता मुक्तिः 'अलौकिकं' अलौकिकी । कार्यानुसार्युपासनस्यैव क र्तव्यत्वनियमादिति हेतुसूचको हिशब्दः । इति कार्याख्यानादिति । इति श्रुतौ कार्यस्य मोक्षस्यालौकिकत्वोक्तेः ध्यानकार्यत्वोक्तेश्चेत्यर्थः । अनेन सूत्रे कार्याख्यानादिति मध्यमपदलोपी समासः, आ ख्यानादि त्याङ्प्रश्लेषो वा । आङोऽर्थस्तु सम्यक्त्वमलौकिकत्वपर्यवसितं, का र्यपदं भावप्रधानमावर्तनीयं चेति सूचितम् । अपूर्वमिति प्रतिज्ञाभाग मन्वयेतिपदाकर्षणेन श्रुत्यनुसाराद्वचनविपरिणामेन चोपास्या इति पदाध्याहारेण व्याचष्टे—अन्यत्रेति । ब्रह्मणोऽन्यत्र लोके इत्यर्थः । 'म

कार्ये 'शेतेऽस्य' इति कार्याख्यानादन्यत्र अदृष्टा एव गुणा उपास्याः ॥ १९ ॥ १२. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ समान एवं चाभेदात् ॥ ॐ ॥ २० ॥ दृष्टाः ' अप्रतीता अलौकिका इति यावत् । गुणा ब्रह्मणः 'उपास्याः' ध्यातव्या इत्यर्थः । एवेत्यनेनापूर्वपदं सावधारणमिति सूचितम् । य- द्यप्यपूर्वशब्दः तद्व्याख्यानरूपोऽदृष्टशब्दश्च यागादिक्रियाजन्ये पुण्ये रूढः । तथाऽपि श्रुतौ यौगिकालौकिकपदप्रयोगात्तत्समानार्थकस्यापू- र्वपदस्यादृष्टपदस्य च योगवृत्तिरेवाश्रयणीयेति भावेन असावाश्रिता । न चालौकिकगुणाप्रतीतेः शक्तिग्रहानुपपत्तिः । अभिमान्यधिकरण- सुत्रोक्तरीत्या इन्द्रादौ यस्सहस्राक्षः स इन्द्रः यः पाशहस्तः स वरु- णः इत्याद्युपदेशवदत्रापि साक्षात्कृतभगवद्रूपाणां योगिनां योऽनुकूल- वेदनीयो गुणः स आनन्दः यत् सर्वविषयं तत् ज्ञानमित्याद्युपदेशोप- पत्तेः । उपदेशेन च गुणप्रतीतिसम्भवाच्छक्तिग्रहोपपत्तेश्च ॥ ११ ॥ ॥ इति कार्याधिकरणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्य स्वसदृशफलप्रदत्वसिद्धयर्थं ब्र- ह्माणीब्रह्मणोरुपासनस्य समविषमत्वं समर्थ्यते । तत्र ब्रह्माणीब्रह्मणोः सत्यलोकादिस्थानैक्यस्य आनन्दादिगुणतारतम्यस्य च सद्भावेन फ- लस्य समविषमत्वेऽप्युपासनस्य न तथात्वं युक्तं, विरोधादतो नोपास- नसदृशं फलमिति प्राप्ते सिद्धान्तहेत्वभिधानाय प्रवृत्तं सूत्रं पठति— समान इति ॥ त्रिविक्रमत्वादिक्रियाणां लोकदृष्टक्रियाविलक्षणत्वेना- त्याश्चर्यत्वात् कथं तदुपासनं ब्रह्माणी हास्यतीत्याशङ्काप्रदर्शनाय—ए- वं चेत्युक्तम् । तत्रैवंशब्देन पूर्वसूत्रोक्तं परामृश्यते । चोऽप्यर्थ इत्या- शयेनैवं चेत्येतद्व्याचष्टे—अपूर्वत्वेऽपीति । अन्यत्रादृष्टत्वेऽपीत्यर्थः । त्रिविक्रमत्वादिक्रियाणामित्येतत् आदावन्वीयते । यद्यपितथापीत्यर्थेऽ- पिः । सूत्रे समाने चेत्यपि चशब्दान्वयः । स चावधारणार्थः । विष- यसप्तमी चेयमित्यभिप्रेत्य प्रदर्शितशङ्कापरिहारकं समाने चेत्येतद्व्या- चष्टे—समानानामेवेति । साधारणानां नित्यविक्रान्तिनित्यरमणादि १०६

८४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अपूर्वत्त्वेऽपि समानानामेवोपसंहारः । न तु त्रिविक्र- मत्त्वादीनां कादाचित्कानां पृथक्त्वेन नित्यविक्रान्त्य- दिष्वन्तर्भावात् ॥ २० ॥ ( २ ) सू—ॐ ॥ सम्बन्धादेवमन्यत्रापि ॥ ॐ ॥ २१ ॥ रूपाणां योग्यानामेव क्रियाणामित्यर्थः । उपसंहार इति सूत्रेऽनुवृत्तं पदम् । उपसंहृत्योपासनमित्यर्थः । एवशब्दव्यावृत्तिं दर्शयति--न त्विति । तुशब्दो योग्यत्वविशेषद्योतकः । त्रिविक्रमत्वेति । अत्र त्रित्व- स्यान्वयः पादद्वारा विन्यासेषु, त्रिविक्रमरूपस्य पादत्रययुक्तत्वात् । त्रयो विक्रमा यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्रित्वसङ्ख्योपेतपा- दविक्षेपरूपक्रियादीनामित्यर्थः। आदिशब्देन रिङ्गणरमणभक्षणसंहर- णादिक्रिया गृह्यन्ते । कादाचित्कानामिति । कदाचिदभिव्यक्तानामि- त्यर्थः । ननु त्रिविक्रमत्वादीनामप्यन्तर्भावेन कदाचिद्विशेषरूपेण च उपास्यत्वान्निषेधायोग इत्यत आह—पृथक्त्वेनेति । सदेत्यपि प्राग- ध्याहार्यम् । तथा च सर्वदा त्रिविक्रमत्वादिविशेषाकारेणोपसंहार इत्यर्थः । ननु त्रिविक्रमत्वादिक्रियाणां सदा पृथक्त्वेनानुपासने सर्व- था तन्निषेधादनुपासनमेव प्राप्नोति प्रकारान्तरेणोपासनानुक्तेरि- त्याशङ्कानिरासाय—अभेदादित्युक्तं सूत्रे, तद्व्याचष्टे—नित्येति । किं- त्वर्थकस्तुशब्द आदौ संयोज्यः । तेन सौत्रचशब्दस्तुशब्दार्थकत्याऽ- पि व्याख्यातः । त्रिविक्रमत्वादीनामित्यत्राप्यन्वीयते । विक्रान्तिः क्रि- या । आदिपदेन पूर्वोक्तमुच्यते । अन्तर्भावादिति । अन्तर्भाव्य उपसं- हारः । नित्यमनन्तरूपेषु अनन्तक्रियास्सन्तीत्युपास्तौ त्रिविक्रमत्वा- दीनामपि सामान्यत उपास्यासु नित्यविक्रान्त्यादिरूपक्रियासु अन्त- र्भूतत्वादिति भावः। सूत्रस्य ब्रह्माणीब्रह्मणोः फलवत् उपासनमपि स- मविषममेवेति उपस्कृतसाध्येनान्वयः ॥ ( २ ) ननु न विरिञ्चस्यापि सदा त्रिविक्रमत्वादिविशेषक्रियोपसं- हारो युज्यते, तासामनित्यत्वेन ध्यानकालेऽभावादित्याशङ्कां परिहर- त्सूत्रं पठति—सम्बन्धादिति ॥ अत्र सम्बन्धादिति हेतूक्त्या तत्सा- ध्यं नित्यत्वमपि सूचितमिति भावेन सम्बन्धन्तरप्रदर्शनपूर्वकं सम्ब- न्धादित्येतद्व्याचष्टे—परमात्मेति । सम्बन्धस्तादात्म्यं परमात्माभिन्न- त्वेनेत्यर्थः । त्रिविक्रमत्वादीनामिति वर्तते । सूत्रे ऐक्यादित्यनुक्त्वा सम्बन्धादित्युक्तिः ऐक्येऽपि विशेषबलात्तत्सम्बन्धित्वव्यवहारो न

[ अधि - १३. सू - २२. ] दीपिकासहितम्. ८४३ परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व प्युपसंहार्यत्वं युज्यते । ( २ ) गुणास्त्रैविक्रमाद्यास्तु संहर्तव्या न संशयः । विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः ॥ इति बृहत्तन्त्रे ॥ २१ ॥ -:-※-:- १३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ न वा विशेषात् ॥ ॐ ॥ २२ ॥ विरुद्ध इति सूचनायेति ज्ञापयितुं सम्बन्धित्वेनेत्युक्तम् । ‘नित्यत्वात्’ शक्त्यात्मना नित्यत्वात् । एवमन्यत्रेत्यस्य नित्यव्यक्तवदेव ततोऽन्यत्र कादाचित्कव्यक्तिषु त्रिविक्रमत्वादिवित्यर्थ इत्याशयेनाह—त्रिविक्र- मत्वादिष्विति । त्रिविक्रमादिष्वितिपाठे भावप्रधानो निर्देशः । विषय- सप्तमीयम् । न केवलं नित्यव्यक्तिषु किन्त्वन्यत्रापीति समुच्चयेऽपिश- ब्दः । एवमित्यस्यार्थमाह—उपसंहार्यत्वमिति । युज्यते इति । हिरण्य- गर्भेण सदेति शेषः ॥ ( २ ) अत्रार्थे स्मृतिं चाह—गुणा इति ॥ ‘त्रैविक्रमाद्याः’ त्रिविक्रम- मस्यायं त्रैविक्रमः त्रिविक्रमत्वादिक्रियात्मकधर्मा इत्यर्थः । आद्यश- ब्देन हननभक्षणादिकमुच्यते । तुरवधारणे, भिन्नक्रमः । पृथक्त्वेनेति विशेषद्योतको वा । ‘संहर्तव्याः’ उपसंहर्तव्याः ‘अन्येषाम्’ वाग्वादी- नाम् । अत्र युक्तिमाह—स हीति । ‘सः’ विरिञ्चः । हिशब्दो हेतौ । सर्वैति । सर्वेभ्योऽधिकारिभ्यो गुणैरधिक इत्यर्थः । बृहत्तन्त्रे कथित मिति शेषः ॥ १२ ॥ ॥ इति समानाधिकरणम् ॥ —*— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वं समर्थ्यते । आत्मशब्दस्य सर्वगुणाभिधायकत्वेन विभ्रमकरत्वात् आ- त्मशब्देन अस्यैतावन्त एवोच्यन्त इति प्रातिस्विकनियमाभावेनोपास- नाऽसम्भवाच्च न तदुक्तगुणाः सर्वोपास्या इति प्राप्ते सिद्धान्तयितुं सू- त्रं पठति--न वेति । अत्र युक्तमेव सर्वेषामात्मशब्दोक्तगुणोपासनमि- ति साध्यमध्याहार्यमित्याशयेन तत्र हेतुत्वेन न वेत्यंशं व्याचष्टे--न

८४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न वाऽऽत्मशब्देन सर्वगुणगृहीतिः अधिकारिविशेषात् ॥२२॥ ( २ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ २३ ॥ 'सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव' इति भाल्लवेयश्रुतिः ॥ २३ ॥ —::— १४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सम्भृतिद्युव्याप्त्यपि चातः ॥ ॐ ॥ २४ ॥ वेति । वाशब्दो व्यवस्थितविकल्पे । आत्मशब्देनेत्यनेन सूत्रे आत्मगृ- हीतिरिति पदानुवृत्तिस्सूचिता । तथा च आत्मपदेन सर्वेषां गुणानां शुभधर्माणां गृहीतिरभिधानं न वा सर्वान् प्रति, किन्तु ब्रह्मादीन् प्र- त्येवेत्यर्थः । अस्य यत इति शेषेणाध्याहृतसाध्येनान्वयः । कुतो नेत्य- तस्तत्र हेतुत्वेन विशेषादित्यंशं व्याचष्टे—अधिकारिति । आत्मशब्द- स्य अधिकारिसामर्थ्यविशेषमपेक्ष्य तत्तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥ ( २ ) विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति —दर्शयति चेति ॥ न वेत्युक्तमर्थं श्रुतिरपि दर्शय- तीत्यर्थः । न केवलं युक्तिरिति चार्थः । बह्वर्थकोऽप्यात्मशब्दः 'ब्रह्मा- दीनां' ब्रह्मब्रह्माण्यादीन् प्रति 'सर्वान्' स्वयोग्यान् बहून् 'गुणान्' भगवद्धर्मान् 'ब्रवीति' ध्यानकाले युगपत्प्रकाशयतीत्यर्थः । 'इतरेषां' देवगन्धर्वाणां मनुष्योत्तमानां च न बहुगुणान्, किन्त्वल्पानित्यर्थः । यथोक्तं तत्त्वप्रदीपे— सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मणः, ब्रह्म- ण्यादीनां शतं शतमूनान् क्रमादिति, न्यूनत्वायौग्यतायाः । अवरेषा- मल्पगुणानेवेति। अनेन यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीय- न्ते तेन तावन्तो ध्यातव्या इति हेतोः व्युत्पत्तिवशेनार्त्मशब्देन जाता प्रतीतिः न ध्यानोपयोगिनीत्युक्तं भवति ॥ १३ ॥ ॥ इति नवाधिकरणम् ॥ —— १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सम्भृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते । मोक्षे स्वाधमभरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वात् फलानुसारेण सम्भृतिद्युव्यापी सर्वोपास्ये इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्या-

सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्ये षाम् । अत एव योग्यताविशेषात् । (२) देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । चष्टे-सम्भृतीति ॥ अत्रापिशब्दो नञ्समाकर्षकः । उपसंहर्तव्ये इति शेष इत्याशयेन सम्भृतिद्युव्याप्त्यपीति साध्यांशमनूद्य तत्तात्पर्यमाह- सम्भृतीति । द्यावापृथिव्योर्भरणं सम्भृतिः, द्युत्या महाप्रकाशेन व्याप्तिः द्युव्याप्तिः कर्तरि षष्ठ्यौ। तथा च 'उक्षा स द्यावापृथिवी बिभर्ति' (ऋ. १०-३१-७.) 'एष हि सर्वेषु लोकेषु भाति' (छा.४-१५-४.) इत्यादौ प्रतीतेः स म्भरणप्रकाशव्याप्ती देवादिभ्योऽन्यैर्मनुष्योत्तमैः 'नोपसंहर्तव्ये' उपसं हृत्योपास्ये न, किन्तु देवादीनामेवोपसंहृत्योपास्ये इत्यर्थः । सूत्रे सम्भृ तिद्युव्याप्ती इति द्विवचनान्तं पदम्, अप्रगृह्यत्वं तुछान्दसमिति ज्ञापना यसम्भृतिद्युव्याप्ती अपीति प्रकृतिभावेन निर्देशः । अपिशब्दलब्धार्थो- नान्येषामिति । तत्त्वप्रदीपे तु 'भृतिव्याप्त्यादयो गुणाः' इति प्रमाणानु सारेण सूत्रे द्विवचनमविवक्षित्वा सम्भृतिद्युव्याप्त्यादयोऽपि गुणा दे वानामुपसंहर्तव्याः, नानन्दादय एव । एवमपिशब्दात् वीर्यैश्वर्यादयो ऽपि ग्राह्याः । द्वित्वमात्रव्यावृत्त्यर्थं किलाप्रगृह्य असूत्रयत इत्यपेस्समु च्चयार्थत्वमुक्तम् । अनेन सूत्रे समाहारद्वन्द्व इति केषां चित्पक्षो निर स्तः । सूत्रे अतश्चेत्यन्वयः चशब्द एवार्थ इत्याशयेन हेत्वंशं व्याचष्टे- अत एवेति । देवादीनामेव तदुपास्तियोग्यता, नान्येषामित्यधिकारि योग्यतायां विशेषसद्भावादेवेत्यर्थः । योग्यतैवोपास्तिनियमप्रयोजि का न फलापेक्षेति द्योतयितुमेवशब्दः । न च प्रकाशाद्युपास्त्यभावे मु क्तौ सर्वेषां स्वस्वयोग्यप्रकाशः स्वावरभरणं च कथं लभ्यत इति वा च्यम् । स्वस्वयोग्यगुणयुक्तभगवद्रूपविषयस्मृतिरूपप्रतीतिविषयत्वे न तदविनाभूततत्प्रकाशादिनैव प्रकाशभरणयोः प्राप्त्युपपत्तेः । यथो क्तं न्यायविवरणे-गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते इति । अ त एव 'उद्यद्भास्वत्समाभासः' 'युक्ताः प्रदीपवर्णाश्च' 'हरितोपला भम्' 'हरिन्मणिनिभम्' 'ब्रह्मवायुशिवाहीशविधैः शक्रादिकैरपि । सेव्यमानः' 'विधिशर्वपूर्वगीर्वाणविज्ञानदम्' 'अजेशसमितिं प्रति बोधयन्तम्' इति स्वस्वयोग्यतानुसारेण किञ्चित्प्रकाशविषयकतया ब्रह्माद्यवरदेवताभरणविषयतया च सर्वेऽपि ध्यानं कुर्वन्ति ॥ (२) ननु सम्भृत्यादिगुणोपास्तिर्देवानामेव योग्येति कुतः, अन्ये

८४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत् ॥ इति ब्र ह्मतर्के ॥ २४ ॥ १५. अधिकरणम् ॥ ( १) यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानां इतरा ऽन्येषामिति चेत्, ( २) न— सू—ॐ ॥ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ॐ ॥ २५ ॥ षामयोग्यतायामप्युपासने को विरोधः, फलसिद्धेरविशेषादित्यत आ- ह—देवादीनामिति ॥ तुरवधारणं । देवादीनामेवेत्यन्वेति । भृतिः स- म्भृतिः । व्याप्तिर्द्युव्याप्तिः । आदिपदाद्धीर्यादयोऽपि गृह्यन्ते । वेधादय इति केचित् । 'सर्वेषां' सम्पूर्णमोक्षयोग्यानां देवादिमनुष्योत्तमा- न्तानां 'अन्यथा' अयोग्योपासने तदुपासनं उपासकस्थानर्थकृद्भवे-

[ अधि - १५. सू - २५ ] दीपिकासहितम्. ८४७ पुरुषसूक्तोक्तविद्यायामपि केषां चिद्गुणानामनाम्नानात् । (३) सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः । तत्रापि नैव सर्वेऽपि तस्मात्कार्योपसंहृतिः ॥ इति ब्रह्मतर्के ॥ २५ ॥ हेतोश्च सिद्धत्वात्, तथाऽपि कुतस्सर्वत उपसंहारः कर्तव्य इत्यतोऽ नाम्नानादित्यनेनैव एकस्यां विद्यायां सर्वगुणानामनुक्तत्वादिति हेतु साधकहेतोरपि सिद्धत्वात्, सोऽपि कुतः सिद्ध इत्यतः कैमुत्येन त त्साधनपरतया समग्रसूत्रं व्याचष्टे—पुरुषेति । अपिर्भिन्नक्रमः । तथा च अपि सर्वविद्योत्तमायामपि 'पुरुषविद्यायां पुरुषसूक्तोक्तविद्यायां' पुरुषसूक्तमित्युक्तविद्यायां स्वापेक्षितगुणानां मध्ये केषां चिदेव आ म्नानात् पाठात् 'इतरेषां' तदन्येषां 'अनाम्नानात्' सुतरां विद्यान्त रे सर्वेषामनाम्नानस्य सिद्धत्वादत एवैकस्यां विद्यायां सर्वेषां 'अना म्नानात्' अनुक्तेस्सिद्धत्वादित्यर्थः । अनेन केषां चिदाम्नानात् इतरे षाम् अनाम्नानाच्चेत्यपि समुच्चयः चशब्दार्थ इत्युक्तं भवति ॥ (३) भवेदुपसंहारस्य कर्तव्यता, यदि स्यात् पुरुषसूक्तस्य सर्व विद्योत्तमत्वं, तत्रापि केषां चिद्गुणानामनुक्तत्वं च । तदेव कुत इत्यत आह—सर्वत इति ॥ 'पौरुषे सूक्ते' परमपुरुषप्रतिपादके पुरुषसूक्ते 'सर्वतः' सर्वत्र आदावन्ते च मध्ये चेत्यर्थः । 'सर्वतः' सर्वे गुणा इ ति वा । 'सर्वतः' सर्वविद्यातः आधिक्येनेति शेष इति वा । 'तत्रापि' पुरुषसूक्तेऽपि स्वापेक्षिताः सर्वेऽपि गुणा नोदीरिता इत्यन्वयः । मानु षापेक्षितज्ञानानन्दादिगुणानामकथनादिति भावः । तस्मादिति । एक स्यामपि स्वापेक्षितसर्वगुणावचनात् सर्वतः उपसंहृतिः कार्येत्यर्थः । ब्रह्मतर्के सूत्रकृदुक्तमुक्तं इत्यध्याहारेणान्वयः । सूत्रे सर्वेषामनाम्नाना दित्यनुक्त्वा इतरेषामनाम्नानादित्युक्त्या च एकस्यामेव विद्यायां सर्व गुणानुक्तेः अस्तु चतुर्मुखस्य सर्वविद्यातो गुणोपसंहारः, अन्येषां म हदल्पगुणाभिधायकविद्याभिरेवोपास्तिसम्भवात् उपसंहारो व्यर्थ इति चोद्यं निरस्तं भवति । सङ्ख्यासाम्यसम्भवेऽपि एकस्यामेव स्वा पेक्षितगुणोक्तिनियमाभावात् ॥ १५ ॥ ॥ इति पुरुषाधिकरणम् ॥ -*-

८४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] १६. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ वेधाद्यर्थभेदात् ॥ ॐ ॥ २६ ॥ भिन्धि विद्ध्य शृणीहीति फलभेदेन सर्वशः । यत्यादीनां तेष्वयोगान्नाधिकारैकता भवेत् ॥ अयोग्योपासनादीयुरनर्थं चार्थनाशनम् । १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते । स- र्वसज्जनापेक्षितदुष्टजननिग्रहफलकत्वेन वेधादीनां सर्वोपास्यत्वान्न च- तुर्गुणोपासनानियम इति प्राप्तं सिद्धान्तयत्सूत्रं पठति—वेधादीति ॥ अत्र वेधाद्यर्थभेदादित्येकं पदम् । वेधादीति भिन्नं चावर्तते । नेत्य- स्ति । तथा च ‘वेधादि’ रक्षोघ्नसूक्तं ‘ताभिर्विध्य हृदये यातुधानान् .... अग्ने त्वचं यातुधानस्य भिन्धि .... प्रपर्वाणि जातवेदःशृणीहि’ ( ऋ. १० - ८७ - ४, ५. ) इत्या- दिनोक्तं दुर्जनवेधनभेदनहिंसनादिकं न सर्वोपास्यं, कुतः ? यतो न यत्याद्युपास्ये, तदपि कुतः ? ‘वेधाद्यर्थभेदात्’ वेधाद्यर्थस्य तद्विषय- कोपासनफलस्य हिंसनस्य यत्यादियोग्यफलात् भेदात् विलक्षण- त्वात् । अयोग्यफलस्य चानर्थकफलसाधनत्वादिति सूत्रार्थमभिप्रे- त्यात्र स्मृतिं चाह—भिन्धीति ॥ ‘शृणीहि’ जहि । इतिशब्दानन्तरमु- पासनेष्विति शेषः । तथा चेत्थं योजना—हे भगवन् दुष्टान् भिन्धि विद्ध्य शृणीहीत्येवंरूपेषूपासनेषु ‘सर्वशः’ सर्वेषां ‘नाधिकारैकता’ नाधिकारसाम्यं भवेत् । एतदुपासनं सर्वाधिकारिसमं न भवेदिति यावत् । कुतः ? यत्यादीनां ‘तेषु’ उपासनेषु ‘अयोगात्’ अयोग्यत्वा- त् । तदपि कस्मात् ? ‘फलभेदेन’ फलभेदात् एतदुपासनफलानां य- त्यादियोग्यफलाद्विलक्षणत्वात् । नन्वयोग्यत्वेऽपि कुतो यत्यादीनां वे- धाद्युपासनाभाव इत्यत आह—अयोग्येति । यतोऽयोग्योपासनादनर्थ- मर्थनाशनं च ‘ईयुः’ प्राप्नुयुरत इति । बृहत्तन्त्रे इति । सूत्रकारोक्तः कथित इति शेषः । इदं त्ववधेयम् । यत्यादीनां ध्यानात्प्राक्प्राणायाम- करणकाले पापपुरुषशोषणदहनादिकमस्ति, न तु ध्यानकाले । तदा

[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८४९

इति बृहत्तन्त्रे ॥ २६ ॥ :----: १७. अधिकरणम् ॥ ( १ ) मुक्तस्योपासना कर्तव्या न वेति । तु ते स्वयोग्यगुणानेव ध्यायन्ति न तु भेदनादिकमिति ॥ २६ ॥ ॥ इति वेधाधिकरणम् ॥ --- १७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्य मुक्तावप्यनुवृत्तिः समर्थ्यते । तत्र वि- षयसंशयौ दर्शयति-मुक्तस्येति ॥ प्रकृतोपासनं विषयः । मुक्तेन क्रिय- ते न वेति सन्देह इत्यर्थः । प्राप्तफलत्वं 'जक्षन् क्रीडन्' (छां.८-१२-३.) इ- तिक्रियान्तरश्रुतिश्च सन्देहबीजमिति भावः । एवं मुक्तस्योपासना न क- र्तव्येत्यनेन मुक्तेनोपासना क्रियत इति पूर्वपक्षस्य तथा मुक्तस्योपास- ना कर्तव्या न वेति समग्रवाक्ये कर्तव्या विहिता नेति विकल्पपरतया व्याख्यायमाने नोभावपि कल्पौ युक्तौ विहितस्य वा अविहितस्य वा कर्मणः फलावश्यंभावात्फलप्राप्तिप्रसङ्गात्, तथा चापूर्णताप्रसक्तिः । न चेष्टापत्तिः, मुक्तस्य अपूर्णतारूपामुक्त्तस्य तदयोगात् । किञ्चाद्ये मु- क्तस्य विधिवद्धत्वेन मुक्तेस्संसारसमानधर्मत्वापत्तिः । द्वितीये मुक्त- स्याविधिबद्धत्वादेव करणानुपपत्तिरिति मुक्तस्येत्यस्मिन् व्याख्यां- यमाने च अनेन पूर्वपक्षयुक्तेश्च सूचनं कृतं भवति । सिद्धान्तदूषणयु- क्तेरेव पूर्वपक्षसाधनत्वादिति ज्ञातव्यम् । तत्त्वप्रदीपे तु मुक्तस्योपास- ना न कर्तव्येत्यंशमेकपूर्वपक्षपरतया व्याख्याय तत्पूर्वपक्षे विध्यभावान्प्र- योजनाभावाच्चेति हेतुमभिधाय मोक्षार्थं ह्युपासनं तत्पर्यन्तं च विधेय- म्, अतः कुतो मुक्तस्योपासनाप्राप्तिरिति तमुपपाद्य कर्तव्येत्यपरः प- क्षः । मुक्तस्यापि परतन्त्रत्वात् । तदा विशेषभोगापेक्षयोपास्तिसम्भ- वादित्यत आहेति कर्तव्यंत्यंशः पूर्वपक्षान्तरपरतया व्याख्यातः । तत्रा- द्यः पूर्वपक्षः तद्धेतुश्च टीकोक्तः । द्वितीयस्तु तन्मात्रोक्तः । तत्पक्षे न क- र्तव्येति पूर्वपक्षनिरासो 'हानौ तूपायनशब्दशेषत्वात्' इत्यनेन सूचि- तोऽभ्युपगमेन कृतः । कर्तव्येति द्वितीयपूर्वपक्षनिरासस्तु 'कुशाच्छन्द' इत्यनेन सूचितो विधिवद्धत्वान्न क्रियते, किन्तु स्वेच्छयेत्यंशेऽङ्गी- १०५

८५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( २ ) अतो ब्रवीति । सू-ॐ ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगा नवत्तदुक्तम् ॥ ॐ ॥ २७ ॥ नियतस्वाध्यायानन्तरं स्वेच्छयाकुशाग्रहणस्तुत्यु पगानवदेव मोक्षे उपासनादि । ( ३ ) 'ब्रह्मविदाप्नोति परम्' ( तै.३-१०.) इति मोक्षवाक्य रेण कृतः । तस्मात्संसारोपाधिकमेवोपासनं न स्वाभाविकमिति त त्साधनाय भक्तिर्व्यर्थेति भावः ॥ ( २ ) अथ सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे मुक्त स्योपासना विहिता न वेति विकल्पितपक्षद्वये आ संसारहानेः विहित त्वात्प्रयोजनाय क्रियते । तद्धानौ मोक्षे तु स्वेच्छयेति तत्त्वप्रदीपदिशा 'हानौ तु' इत्यनेन आद्यपक्षोक्तदोषनिरासात् । द्वितीयपक्षोक्तदोषप रिहाराय 'कुशाच्छन्द' इत्याद्युक्तम् । तत्र कुशपदं तद्ग्रहणपरम् । आ च्छन्दपदं च बुद्ध्या विवेकेन कुशग्रहणे तच्छब्दार्थोपासनादौ चान्वी यत इति भावेनार्थक्रमेण व्याख्याति—स्वेच्छयेति । स्वेच्छया कुशा ग्रहणपूर्वकत्वं स्तुत्युपगानयोः कदेत्याकांक्षायां तयोर्ग्यं कालमाह— नियतेति । स्वाध्यायो वेदाध्ययनं स्वकाले विधिनियतब्रह्मयज्ञानन्तर मित्यर्थः । कुशस्य आग्रहणं सम्यग्ग्रहणं, स्तुतिः यजुरादिमन्त्रः, उप गानं साम । आच्छन्देन कुशग्रहणेन सहिते तत्पूर्वके च ते स्तुत्युप गाने च ते तथोक्ते, ताभ्यां तदध्ययनं लक्ष्यते । तत्त्वप्रदीपे उपगानं साम्ना, स्तुतिस्तदन्यैर्यजुरादिभिरित्युक्तत्वेऽपि टीकायां स्तुत्युपगान पदाभ्यां तत्करणे एव गृहीते तयोरेवाध्ययनकर्मत्वात् । अत्र ब्रह्मयज्ञ रूपमन्त्राध्ययनकाल एव कुशाग्रहणं विहितम् । ब्रह्मयज्ञानन्तरभावि मन्त्राध्ययने तु कुशाग्रहणं स्वेच्छयैवेति विवेकः । एवेत्यनेन एवार्थ कतुशब्दो भिन्नक्रमेणात्र सम्बध्यत इत्याह । तत्त्वप्रदीपे तु तुशब्दो विशेषार्थक इत्याशयेन बन्धहानौ त्वित्यन्वयो दर्शितः । हानावित्यस्य विविधबन्धहानावित्यर्थमभिप्रेत्य तद्विशेष्यस्यागामिसूत्रादाकृष्टस्य 'सा म्पराय' इत्यस्यार्थमाह—मोक्ष इति । आदिपदेन यजनादिकर्मपरिग्र हः । उपासनादीत्यनन्तरं अस्तीति क्रियत इति वा शेषः । तेनाप्येवा र्थकतुशब्दस्यान्वयः ॥ ( ३ ) ननु मोक्षे उपासनमस्ति चेत्तत्कुतः स्वेच्छयैवेत्यङ्गीकार्यं,

[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८५१ शेषत्वादितरेषाम्, तच्चोक्तम्। ‘एतत्साम गायन्नास्ते’ ( तै. ३-१०. ) इत्यादि । (४) ब्रह्मतर्के च । मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः । विधित एव किं न स्यादित्याशङ्कापरिहारायोक्तं सूत्रे—उपायनेति ॥ तत्रायनेन ज्ञानेन उप ब्रह्मसमीपे अयनं गमनं तस्य शब्दः उपायनश- ब्दो मोक्षस्य ज्ञानसाध्यताबोधकं वाक्यमिति भावेन तमंशं व्याचष्टे- ब्रह्मेति । इति मोक्षेति । इत्येवंरूपं यन्मोक्षस्य ज्ञानसाध्यताभिधायकं वाक्यं तच्छेषत्वात् तदर्थत्वात् तद्वाक्यविहितापरोक्षज्ञानसाधनविधा- यकत्वादित्यर्थः । ‘पुरुषविद्यायाम्’ इत्यतोऽस्य सम्बन्धिपदमनुवर्त- नीयमित्याह—इतरेषामिति । ‘श्रोतव्यो मन्तव्यः’ ( बृ.४-४-५. ) ‘त- द्विजिज्ञासस्व’ ( तै. ३ - १०.) इत्याद्युपासनविधीनामित्यर्थः । केचि- त्तु—इदमध्याहृतमित्याहुः । तत्त्वप्रदीपदिशा उपासनाशब्दशेषत्वादि- ति सूत्रपाठे उपासनाशब्दानां उपासनाविधीनां शब्दशेषत्वात् मोक्ष- वाक्यशेषत्वादित्यर्थः । अस्मिन् पक्षे उपासनेति व्यस्तं पदं समस्तं च । तत्र व्यस्तपदस्य कर्मोपलक्षकस्यार्थो भाष्यकृता उपासनादीत्य- नेन दर्शितः, न तु पृथक्तच्छब्दव्याख्यानं, न वा भावबोधरीत्याऽयं शे- षः । इतरेषामित्येतदपि श्रुतपदार्थकथनं, नानुवृत्तमिति ध्येयम् । भवे- दियं चिन्ता, यदि मुक्तस्योपासनमेव स्यात्, तदेव कुत इत्यतस्सूत्रे तदुक्तमित्युक्तं, तद्व्याचष्टे—तच्चेति । अनेन सूत्रे तुशब्दार्थोऽपि । स च तदित्यनेनापि सम्बध्यते । तथा च यदुपासनं श्रुतावुक्तं यत्त- स्य स्वेच्छायत्तत्वं तच्च ब्रह्मतर्के उक्तं चेति सूत्रांशयोजना दर्शिता भ- वति । श्रुतिं पठति—एतदिति । आदिपदात् ‘ऋचां त्वः पोषमास्ते’ (ऋ.१०-७१-११.) इत्यादि गृह्यते । इत्यादीति । इत्यादावित्यर्थः। ‘एतत्’ वक्ष्यमाणं ‘हावु’ (तै.३-१०-५.) इत्यादि साम गायन्नास्ते मुक्तचतुर्मुख इति तैत्तिरीयश्रुत्यर्थः । ‘त्वः’ कश्चिद्ब्रह्मा ‘पुपुष्वान्’ पुष्टस्सन् ऋचां ‘पो- षं’पुष्टिमुच्चारणं कुर्वन्नास्ते । ‘त्वः’ अन्यस्तु ब्रह्मा शक्वरीषु ऋक्षु गायत्रं साम गायति । त्वस्तु ब्रह्मा ‘जातविद्यां’ पौरुषेयविद्यां वदति । त्व- स्तु ब्रह्मा ‘यज्ञस्य’ विष्णोः ‘मात्रां’ उ अंशमेव ‘विमिमीते’ ध्यायती- ति ऋङ्मन्त्रार्थः ॥ (४) न केवलं श्रुतौ, किन्तु ब्रह्मतर्के चोपासनमुक्तमिति चशब्दा