पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 900, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १७. सू - २८. ] दीपिकासहितम्. ८५३ तदा सर्वान् शोकान् हृदयस्य भवति' (बृ. ६-३-२२.) इति हान्ये पठन्ति। (७) वायुप्रोक्ते च— स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः। ब्रह्मलोकं गतास्सर्वे ब्रह्मणा च परं गताः ॥ तीर्णतर्तव्यभागाश्च स्वेच्छयोपासते परम् ॥ इति ॥ २८ ॥
माह—मुक्तस्येति। पूर्वोत्तरान्वयि तत्। साम्परायशब्दस्तु सम्यक्प रस्य आयः प्राप्तिः सम्परायः स एव साम्पराय इति व्युत्पत्त्या मो क्षार्थक इति पूर्वमेव मोक्ष इत्युक्त्या व्याख्यातः। कुत इत्यतस्साम्परा ये तर्तव्यानिवृत्त्यैवाभावादिति सूत्र एव हेत्वभिधानात् तमनुपन्यस्य तस्यासिद्धिपरिहाराय तल्लब्धं हेतुमाह—मुक्तस्य तीर्णत्वादिति। ती र्णाशेषानिष्टत्वादित्यर्थः। तस्याप्यसिद्धिमाशङ्क्य तत्परिहारत्वेन त था हान्य इत्येतद्व्याचष्टे—तीर्णा हीति। 'तदा' मुक्तौ सर्वान् शोका न् 'तीर्णः' अतिक्रान्तः पुरुषः 'अयनाद्धृदि विष्णुः स हृदयं कीर्ति तो बुधैः' इति छान्दोग्यभाष्योक्तेः सर्वहृदि स्थितः हृदयं विष्णुः त स्य 'भवति' तत्सम्बन्धी भवति। तत्प्रतिबिम्बत्वेन तच्छेषभूतो भ वतीत्यर्थः। सार्वकालिकस्यापि शेषभावस्य व्यक्त्यपेक्षयाऽत्र भवती ति निर्देशः। अत एव तत्त्वप्रदीपे हृदयस्यैव भवति स्वदृष्ट्याऽपीत्यु क्तम्। 'हि' यस्मात् 'अन्ये' छन्दोगाः वाजसनेयिनश्च॥ (७) अत्र स्मृतिं चाह—वायुप्रोक्ते चेति॥ 'ये' जनाः परमा त्मनो 'ज्ञानेन' परोक्षेण 'स्थितप्रज्ञत्वं' स्थिता प्रतिष्ठां प्राप्ता प्रज्ञा अपरोक्षज्ञानं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तत्प्राप्ताः तत एव 'ब्र ह्मलोकं' सत्यलोकं गताः तत्र चतुर्मुखोपदेशं प्राप्ताः अथ तेन सह 'परं' आत्मानं गताः बन्धमोक्षाख्यभागयोर्मध्ये तर्तव्यो भागः अंशो बन्धः तीर्णः तर्तव्यभागो यैस्ते तथोक्ताः ते सर्वेऽपि 'परं' परमात्मा नं स्वेच्छया उपासत इत्यर्थः। प्रतीकालम्बनविवक्षया 'ब्रह्मलोकं ग ताः सर्वे' इत्युक्तिरिति केचित्। तत्रान्त्यपादः साध्याभिधायी, उपा न्त्यः साधनाभिधायी, अन्ये तदुपपादकसमर्पका इति स्मृतेः प्रकृतो पयोगो द्रष्टव्यः। इतीति। इति वायुप्रोक्ते एतदेवोक्तमित्यर्थः॥ १७॥ ॥ इति हान्याधिकरणम् ॥