भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 901, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 901

८५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] १८. अधिकरणम् ॥ ( १ ) कर्मापि कुर्वन्ति न वेत्यत आह— सू—ॐ ॥ छन्दत उभयाविरोधात् ॥ ॐ ॥ २९ ॥ स्वेच्छया कुर्वन्ति न वा। बन्धप्रत्यवाययोरभावात् ॥२९॥ ( २ ) सू—गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ ॐ ॥ ३० ॥ बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् । १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुक्तानां कर्मणि नियमाभावः समर्थ्यते । प्रा- सङ्गिकत्वान्नाध्यायादिसङ्गतिः । विषयसंशयौ दर्शयति—कर्मेति ॥ मुक्ता इति प्रकृतमस्ति । न केवलमुपासनमित्यपिशब्दार्थः । कर्मकर- णशक्तावपीति वा । नियमेनेति शेषः । तथा च इति सन्देहे नियमेन कु- र्वन्तीति पूर्वपक्षे प्राप्ते कर्म कुर्वन्ति न वेत्यनियमसिद्धान्तमाह सूत्रकार इत्यर्थः । सूत्रं पठति—छन्दत इति । सूत्रे हानावित्यनुवर्तते । तदिति च । तच्च कर्मकरणवाचीत्याशयेन छन्दत इत्यस्यार्थमाह—स्वेच्छये- ति । स्वेच्छानुसारेणेत्यर्थः । छन्दत इत्यनेन लब्धं साध्यमाह—कुर्व- न्ति न वेति । अनेन कर्मण्यनियमः सूचितः । कुत इत्यतस्तत्र हेतुत्वे- नोभयाविरोधादित्येतद्व्याचष्टे—बन्धेति । अनेनोभयस्मिन् कर्मकर- णाकरणयोः अविरोधात् विधिबन्धप्रत्यवायाख्यविरोधाभावादिति हेत्वर्थ उक्तो भवति ॥ ( २ ) ननु मुक्तानां विधिबन्धप्रत्यवायाभाव एव कुत इत्यतः सू- त्रं—गतेरिति ॥ अत्रोभयाविरोधादित्यस्यानुवृत्तिमभिप्रेत्य तत्पदं व्या- चष्टे—बन्धेति । निमित्तसप्तमीयं, विधिबन्धप्रत्यवायाभावादित्यर्थः । सावधारणमेतत् । तेनास्य व्यापकतासिद्धिः । हिशब्दः खल्वित्यर्थे । गतेरित्यस्यार्थमाह—मोक्षस्येति । ‘अर्थवत्त्वं’ अर्थ इच्छाविषयतया तद्वत्त्वं पुरुषैरर्थ्यमानत्वमिति यावत् । ‘अन्यथा’ विधिबन्धप्रत्यवाय- योर्भावे । अर्थवत्त्वमित्यस्य व्याख्या-मोक्षत्वम् । मोक्षेच्छावत्त्वमिति । मुचेः सनन्ताद्भावे घञ् , तत अर्शआद्यच् । मोक्षस्य तत्सम्बध्यते, किमु प्राप्यत्वमित्येवार्थः । न स्यादित्यनेन विरोध इत्यस्यार्थ उक्तो भवति । तथा चायं सूत्रार्थः—‘हि’ यस्मादुभयाविरोधादेव उभय- स्मिन् कर्मकरणाकरणयोर्विधिबन्धप्रत्यवायाख्यविरोधाभावादेव ‘ग-