भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 902, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 902

[ अधि - १८. - सू - ३०. ] दीपिकासहितम्. ८५२ ( ३ ) कदाचित्कर्मकुर्वन्ति कदाचिन्नैव कुर्वते । नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥ तेः ' परमात्मगतिरूपमोक्षस्य ' अर्थवत्त्वं ' पुरुषैरर्थ्यमानत्वम् । भावे घञन्तोऽयमर्थशब्दः अर्थ इच्छाविषयतयाऽस्यामस्तीत्यर्थवती तस्या भावोऽर्थवत्त्वम् । 'अन्यथा' गतावपि विधिबन्धप्रत्यवाययोर्भावे तस्या विधिबन्धप्रत्ययाख्यसंसारसमानधर्मवत्त्वे तद्वैलक्षण्याभावाद्विरोधः । तस्मान्मुक्तानां ' उभयथा ' कर्मकरणेन तदकरणेन च स्थितिरिति ॥ ( ३ ) ननु मुक्तानां कर्मण्यनियमश्चेदुपासनेऽपि तथा स्याद्विशे- पादित्याशङ्कां परिहर्तुं कर्मोपासनयोः अनियमनियमरूपोक्तार्थे स्मृति- माह—कदाचिदिति ॥ मुक्ता इति शेषः । अनेन कर्मण्यनियम उक्तः । पूर्ववाद्युक्ताविशेषहेतोरसिद्धिं वक्तुमुपासननियमे हेतुमाह—नित्येति । नित्यं भगवद्विषयकं यदपरोक्षज्ञानं तत्स्वरूपत्वान्मुक्तानामित्यर्थः । सं- सारे भगवदपरोक्षज्ञानस्यामुक्तकर्तृकस्यान्तःकरणवृत्तिरूपत्वेऽपि मुक्तौ अन्तःकरणवृत्तिरूपत्वाभावेन तस्यात्मस्वरूपत्वमेवेति सिद्ध्यति । न च स्वरूपत्वे ज्ञानस्य सकर्तृकत्वानुपपत्तिरिति वाच्यम् । विशेषबलादुपप- त्तेः । 'नित्यं' नियमेन ध्यायन्ति । उपासते नित्यं भगवद्दृष्टिकर्तृत्वे नित्यं भगवदुपास्तिकर्तृत्वं कुत इति चेत् दृष्टेरेवोपास्तिरूपत्वात्। यथोक्तं त- तत्त्वप्रदीपे—नित्यं भगवद्दृष्टिरूपत्वान्मुक्ता नित्यमुपासते । सभक्तिभग- वद्दृष्टिरुपास्तिर्भवति । पूर्वमविरतनिरन्तरोपास्त्या हि भगवन्तमैक्ष- न्त पश्चादानन्दस्वरूपिणी सा स्वत एवानुवर्तत इति । अस्यार्थः—नि- त्यं भगवद्दृष्टिस्तत्स्वरूपत्वात्कर्तृत्वान्मुक्ता नित्यमुपासते । उपास्तिक- र्तारो भवन्ति । ननु भगवद्दृष्टिकर्तृत्वे उपास्तिकर्तृत्वं कुत इत्यत आ- ह—सभक्तीति । इदं च द्वेषिकर्तृकभगवद्दृष्टिव्यावृत्त्यर्थम् । ननु भग- वद्दृष्टेरुपास्तिसाध्यत्वात्कथं उपास्तिरूपत्वमित्यत आह—पूर्वमिति । संसारे अन्तःकरणवृत्तिरूपावच्छिन्नोपास्त्या हि भगवन्तमैक्षन्त जड- मनसा युक्ताः । पश्चात्संसृत्यन्तरं मुक्तावानन्दस्वरूपिण्युपास्तिः स्व- त एवानुवर्तते । तथा चान्तःकरणवृत्तिरूपायाः दृष्टेः तादृशोपास्ति- साध्यत्वेऽपि न मुक्तकर्तृकभगवद्दृष्टेरुपास्तिसाध्यत्वं दृष्टि- त्वमेवेति भवति । सोपास्तिरिति भाव इति ॥