भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 903, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 903

८५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ४ ) तीर्णकर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ॥ प्रत्यवायस्य बन्धस्याप्यभावात्स्वेच्छया भवेत् ॥ इति ब्रह्माण्डे ॥ ३० ॥ ( ५ ) सू— ॐ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेलोंकवत् ॥ ॐ ॥ ३१ ॥ उपपन्नश्चैवंभावः । प्राप्तत्वात्तल्लक्षणस्य फलस्य । ( ६ ) यथा लोके विध्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा स ( ४ ) विध्याद्यभावेऽप्यनिष्टनिवृत्त्यर्थं आनन्दप्राप्त्यर्थं वा कर्मणि नियमः किं न स्यादिति शङ्कायामाह — तीर्णेति ॥ व्याख्यातमेतत् । ' पर- मात्मनः ' हरेः प्रसादात् ये प्राप्तानन्दाः तेषामिति शेषः । अपिश्चार्थः । यद्यपीत्याद्यर्थे च । भवेत् कर्मेति शेषः । प्रत्यवायस्येत्यादिनाऽर्थेन कदा- चिदिति साध्यवाक्यं हेतूक्तिपूर्वकं विवृतं भवति । न च ' सोमेनानन्दं जनयन् ' इत्युक्तिविरोधः । कर्मभिरप्राप्तानन्दप्राप्तेरेवेह निषिद्धत्वा- त् । तत्र भोगेनानन्दवैचित्र्यकरणमात्रस्योक्तत्वात् । ब्रह्माण्डे पुराणे नियमानियमौ समर्थिताविति शेषः ॥ ( ५ ) ननु विद्ध्याद्यभावो मुक्तानां कर्मनियमसम्भावकएव, न तू- पपादकहेतुः, विद्ध्यादिरहितेश्वरकर्तृकसृष्ट्यादिकर्मणि व्यभिचारात् तस्तदुपपादकाभावादनुपपन्नोऽसौ कर्मनियम इत्याशङ्कां परिहर्तुं सू- त्रं— उपपन्न इति ॥ अत्रोपपन्न इत्यस्य विशेष्यमाह— एवंभाव इति । मुक्तानामिति शेषः । छन्दत इति प्रकृतः । कदाचित्कर्म कुर्वन्ति न चे- त्येवंस्थितिरित्यर्थः । उपपन्नश्चैत्यनेन न केवलं सम्भावितोऽयम्, कि- न्तूपपन्नश्चेति समुच्चयार्थकश्चशब्दः सूत्रेऽनुषञ्जनीय इत्युक्तं भवति । तल्लक्षणार्थोपलब्धेरिति हेतुपदस्य तस्य कर्मणः अर्थः फलं परम्परया मोक्षस्तस्योपलब्धेः प्राप्तेरिति, एवं तत् स्वप्राप्त्यनन्तरं स्वसाधनानु- ष्ठाननियमनिवारणं लक्षणमसाधारणधर्मो यस्यार्थस्य स तथोक्त इ- ति विभागेनार्थमभिप्रेत्य तत्पदं व्याचष्टे—प्राप्तत्वादिति । तल्लक्षणस्ये- ति । अत्रापि तत्फलस्य कर्मफलस्य मोक्षस्य तत् स्वप्राप्त्यनन्तरं स्व- साधनानुष्ठाननियमनिवारणं लक्षणमसाधारणधर्मो यस्य फलस्येति द्वेधा व्याख्या कार्या ॥ ( ६ ) लोकवदिति दृष्टान्तांशं विवृणोति— यथेति ॥ विध्यर्थत्वेने- ति । यजमानस्य

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 903, कुल 1267 में से · BharatKosha