भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 904, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 904

[ अधि - १९. सू - ३२. ] दीपिकासहितम्. ८५७ प्राप्तकर्मेच्छया करोति न करोति च ॥ ३१ ॥ १९. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अनियमस्सर्वेषामविरोधाच्छब्दानुमाना भ्याम् ॥ ॐ ॥ ३२ ॥ प्राप्तज्ञानानामपि केषां चिन्मुक्तिप्राप्तिः केषां चिन्न, यथोपसंहारनियम इति न मन्तव्यम् । 'सर्वे गुणा ब्र ह्मणेव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः' इत्युपसं हारे विरोधादन्यत्राविरोधात् । ङ्गभूतः कर्मविशेषः । 'समाप्ते' पूर्तिं गते 'कर्मणि' यागे 'इच्छया' स्वेच्छया करोति । यजमान इति शेषः । समाप्तकर्मेति बहुव्रीहिपाठे न शेषः कार्यः । अनेन मुक्ता न कर्मनियमवन्तः, विशेषहेत्वभावे सति प्राप्तफलत्वात् यागकर्तृवदित्यनुमानमुक्तं भवति ॥ १८ ॥ ॥ इति छंदाधिकरणम् ॥ १९. अधिकरणम् ॥ ( १ ) अत्रोपासनोत्पन्नब्रह्मज्ञानानां सर्वेषां मोक्षनैयत्यं साध्यते । सूत्रे नियमपूर्वपक्षनिषेधपूर्वकं अनियम इति साध्यांशं व्याचष्टे—प्रा प्तेति ॥ 'प्राप्तज्ञानानां' उत्पन्नापरोक्षज्ञानानामपीत्यर्थः । न केवलम प्राप्तज्ञानानां मोक्षो नेत्यपिशब्दार्थः । यद्यपितथाऽपीत्यर्थे वा अपिः । सिद्धान्तवाक्येनास्यान्वयः । निर्धारणषष्ठीयम् । केषां चित् योग्यानां केषां चित् अयोग्यानाम् । पूर्ववादी नियमे दृष्टान्तमाह—यथेति । उपास केषु केषां चिदेव सर्वगुणोपसंहारो नायोग्यानामित्युपसंहारे यथा पु रुषनियमस्तथा मुक्तावपीत्यर्थः । इतिशब्दो नेत्यनेनापि सम्बध्यते । ने ति । नियम इति न मन्तव्यमित्यनन्तरं किन्तु सर्वेषामपि मुक्तिरिति शेषः । अनेन सूत्रे तुशब्दानुवृत्तिस्तस्याप्यर्थत्वं मुक्तिरिति शेषश्च सू चितः । अत्र हेतुः—अविरोधादिति । तद्व्याचष्टे— सर्वे इति । इती ति । इति श्रुत्योपसंहारे अनियमनिषेधादित्यर्थः । 'अन्यत्र' सर्वेषां मोक्षे 'अविरोधात्' निषेधाभावादित्यर्थः । 'हि' यस्मात् वेदोक्ताः सर्वे गुणाः 'अन्यैः' ब्रह्मेतरैर्देवैर्नोपास्याः, किमु मनुष्यैर्नेति, तस्मादु क्तेर्व्यर्थत्वायोगाद्ब्रह्मणैवोपास्या इति श्रुत्यर्थः ॥ १०८