पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 905, कुल 1267 में से
संदर्भ में पढ़ें८५८ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ३. पा - ३. ] ( २ ) ' न कश्चिद्ब्रह्मवित्सृतिमनुभवति मुक्तो ह्येव भवति त स्मादाहुः सृतिहेति ' इति कौण्डिन्यश्रुतेश्च ॥ यथा के षां चिन्मोक्ष एवमन्येषामित्यनुमानाच्च ॥ ३२ ॥ * २०. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ यावदधिकारमवस्थितिराधिकारिकाणा म् ॥ ॐ ॥ ३३ ॥ ( २ ) नन्वनियमे निषेधाभावेऽपि साधकाभावान्नियम एवेत्यतः प्राप्तं शब्दानुमानाभ्यामित्यंशं व्याचष्टे—नेति ॥ 'कश्चित्' कोऽपि 'ब्र ह्मवित्' ब्रह्मापरोक्षज्ञानी 'सृतिं' संसारं, सदेति शेषः । अत्र हेतु- मुक्तो हीति । 'हि' यस्मात्कदाचित्सृतेः मुक्तो भवति तस्मादित्य र्थः । हेत्वन्तरमाह—तस्मादिति । सदा सृत्त्यनुभवाभावादेवैनं ज्ञानि जीवं 'सृतिहा' सृतित्यागीत्याहुरित्यर्थः । यद्वा—सृतिनिवर्तकज्ञान विषयत्वादेनं परमात्मानं 'सृतिहा' सृतिघ्न इत्याहुरित्यर्थः । श्रुतेरिति शब्दस्य इत्याहुर्वृद्धा इत्यन्वयः । श्रुतेश्चेति । न केवलमविरोधादिति चार्थः । अस्यानियम इत्यनेनान्वयः । केषां चिदिति । ब्रह्मज्ञानिनां म ध्ये केषां चिदित्यर्थः । अन्येषामिति । सम्प्रतिपन्नेभ्योऽन्येषां विप्रतिप न्नानामित्यर्थः । इत्यनुमानादिति । इतिवाक्यस्मारितव्याप्तिमाल्लिङ्गादि त्यर्थः । प्रयोगस्तु—विप्रतिपन्ना ज्ञानिनो नियतमोक्षाः, ज्ञानित्वात्, स म्प्रतिपन्नवदिति । श्रुतिसमुच्चये चशब्दः । अनेन—सूत्रे साम्पराय इत्यनुवर्तते, तु रिति च । मुक्तिरिति शेषः । तथा च यथा सर्वगुणोप संहारे पुरुषनियमस्तथा ब्रह्मज्ञानिनां मध्ये केषां चिन्मुक्तिः केषां चि न्नेति साम्पराये मोक्षे 'नियमः' पुरुषनियमो नास्ति, किन्तु प्राप्तज्ञाना नामपि सर्वेषामस्ति मुक्तिः । कुतः? 'अविरोधात्' तन्निषेधाभावात् श ब्दानुमानाभ्यां साधकाभ्यां च तत्सिद्धेरिति सूत्रार्थ उक्तो भवति॥१९॥ ॥ इति अनियमाधिकरणम् ॥ * २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनेऽधिकारनियमः समर्थ्यते । नोपास्ति मन्तोऽधिकारनियमवन्तः मानाभावादिति प्राप्ते सिद्धान्तयत्सूत्रमुप न्यस्य व्याचष्टे—यावदिति ॥ यथायथेत्यनेन यावदधिकारमित्यस्य