पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 907, कुल 1267 में से
संदर्भ में पढ़ें८६० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ] यथाऽधिकारं देवानां भवेत्येवोत्तरोत्तरम् ॥ इति ॥ ३३ ॥ ( ३) सू—ॐ ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावा भ्यामौपसदवत्तदुक्तम् ॥ ॐ ॥ ३४ ॥ न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वादोषाभा वसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । सम्भवत्यतोऽप्रयोजको हेतुरित्यत आह—अध्यात्म चेति ॥ चशब्दः परस्परसमुच्चये । 'देवानां' मुक्तियोग्यानां 'यथाधिकारं' अधिका रानुसारेणैव उपासनं यथोपासनमेव ज्ञानं यथाज्ञानमेव मुक्तावान न्द इत्येते गुणाः उत्तरोत्तरं परस्परसापेक्षा भवन्तीत्यर्थः । अध्यात्मे चेत्यस्यापि पूर्ववदन्वयः ॥ ( ३ ) ननु मुक्तावानन्दतारतम्यमेव नोपपद्यते असमत्वे मुक्तानां परस्परविरोधप्राप्तेः, लोके तथा दर्शनात् । तारतम्यश्रुतयस्तु संसार विषया इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—अक्षरधियामिति ॥ असमत्वेन निमित्तेन, अनेन तुशब्दो विरोधनिमित्तसूचकतया व्याख्या तः । विरोधः परस्परं वध्यघातकभावादिः । विरोधप्रयोजकासमत्व स्य सत्त्वात् कथं मुक्तानां विरोधो न भवतीत्यतः तत्र सामान्यादि त्यस्य हेतुत्वमभिप्रेत्य सामान्यशब्दितसाम्यप्रतियोगिनं दर्शयति— दोषाभावेति । सूत्रे दोषाभावादित्येव वक्तव्ये साम्यादित्यधिकोक्ति बलात्सर्वेषामिति लभ्यते । साम्यशब्दार्थः समस्तश इति सुधोक्तेः । तथा च दोषाभावसाम्यादित्यस्यासङ्कुचितसर्वेषां मुक्तानां विषयल म्पटत्वमात्सर्यादिदोषाभावादित्यर्थः । विषयलम्पटत्वं विषयरागः, मात्सर्यमप्रीतिः 'अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः' इति भागव ततात्पर्योक्तेः । अप्रीतिश्चित्तोदः 'न मद्वशोऽसाविति चित्तोदो मा त्सर्यमार्याः प्रवदन्ति' इति सङ्ग्रहरामायणोक्तेः । ननु मुक्तानां दोषा भाव एव कुतः इत्यतः तत्राक्षरधियामिति हेतुगर्भविशेषणेन सूचितं हेतुमाह—ब्रह्मधीत्वादिति । मुक्तानामिति शेषः । ब्रह्मधीत्वात् दोषा भावसाम्यादिति हेतुहेतुमद्भावेनान्वयः । देशकालगुणापरिच्छेदवा चिना ब्रह्मशब्देन अक्षरशब्दो व्याख्यातः । तदेतत्सर्वमक्षयगुणगणधा म्नि परमानन्दरूपे परमेश्वर्यरूपे यथेष्टानन्दभोजके भगवति स्थित धियां कुतोऽसमत्वेन विरोधः । रागद्वेषादिदोषाभावसाम्याच्च । अन्य था ब्रह्मदर्शनमेव न स्यात् । रागमत्सराद्यपोहेन बहुजन्मसु निर