पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
८६० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ] यथाऽधिकारं देवानां भवेत्येवोत्तरोत्तरम् ॥ इति ॥ ३३ ॥ ( ३) सू—ॐ ॥ अक्षरधियां त्वविरोधः सामान्यतद्भावा भ्यामौपसदवत्तदुक्तम् ॥ ॐ ॥ ३४ ॥ न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वादोषाभा वसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । सम्भवत्यतोऽप्रयोजको हेतुरित्यत आह—अध्यात्म चेति ॥ चशब्दः परस्परसमुच्चये । 'देवानां' मुक्तियोग्यानां 'यथाधिकारं' अधिका रानुसारेणैव उपासनं यथोपासनमेव ज्ञानं यथाज्ञानमेव मुक्तावान न्द इत्येते गुणाः उत्तरोत्तरं परस्परसापेक्षा भवन्तीत्यर्थः । अध्यात्मे चेत्यस्यापि पूर्ववदन्वयः ॥ ( ३ ) ननु मुक्तावानन्दतारतम्यमेव नोपपद्यते असमत्वे मुक्तानां परस्परविरोधप्राप्तेः, लोके तथा दर्शनात् । तारतम्यश्रुतयस्तु संसार विषया इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—अक्षरधियामिति ॥ असमत्वेन निमित्तेन, अनेन तुशब्दो विरोधनिमित्तसूचकतया व्याख्या तः । विरोधः परस्परं वध्यघातकभावादिः । विरोधप्रयोजकासमत्व स्य सत्त्वात् कथं मुक्तानां विरोधो न भवतीत्यतः तत्र सामान्यादि त्यस्य हेतुत्वमभिप्रेत्य सामान्यशब्दितसाम्यप्रतियोगिनं दर्शयति— दोषाभावेति । सूत्रे दोषाभावादित्येव वक्तव्ये साम्यादित्यधिकोक्ति बलात्सर्वेषामिति लभ्यते । साम्यशब्दार्थः समस्तश इति सुधोक्तेः । तथा च दोषाभावसाम्यादित्यस्यासङ्कुचितसर्वेषां मुक्तानां विषयल म्पटत्वमात्सर्यादिदोषाभावादित्यर्थः । विषयलम्पटत्वं विषयरागः, मात्सर्यमप्रीतिः 'अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः' इति भागव ततात्पर्योक्तेः । अप्रीतिश्चित्तोदः 'न मद्वशोऽसाविति चित्तोदो मा त्सर्यमार्याः प्रवदन्ति' इति सङ्ग्रहरामायणोक्तेः । ननु मुक्तानां दोषा भाव एव कुतः इत्यतः तत्राक्षरधियामिति हेतुगर्भविशेषणेन सूचितं हेतुमाह—ब्रह्मधीत्वादिति । मुक्तानामिति शेषः । ब्रह्मधीत्वात् दोषा भावसाम्यादिति हेतुहेतुमद्भावेनान्वयः । देशकालगुणापरिच्छेदवा चिना ब्रह्मशब्देन अक्षरशब्दो व्याख्यातः । तदेतत्सर्वमक्षयगुणगणधा म्नि परमानन्दरूपे परमेश्वर्यरूपे यथेष्टानन्दभोजके भगवति स्थित धियां कुतोऽसमत्वेन विरोधः । रागद्वेषादिदोषाभावसाम्याच्च । अन्य था ब्रह्मदर्शनमेव न स्यात् । रागमत्सराद्यपोहेन बहुजन्मसु निर
[ अधि - २०. सू - ३४. ] दीपिकासहितम्. ८६१ (४) औपसदवच्छिष्यवत् । उक्तं च तुरश्रुतौ— नानाविधा जीवसङ्घा विमुक्तौ न चैव तेषां ब्रह्मधियां विरोधः । दोषाभावाद्गुरुशिष्यादिभावात् न्तरोपासकानां हि तद्भवतीति तत्त्वप्रदीपेऽभिहितम् । अत्र साम्याच्चे- ति चशब्दस्योत्तरत्र तद्भावाद्धेतुनाऽन्वयः। असमत्त्वनिमित्तविरोधाभावे दोषाभावाख्यहेतुमभिधाय हेत्वन्तरप्रतिपादनाय तद्भावादिति सूत्रख- ण्डः प्रवृत्तः । तं व्याचष्टे—उत्तमेभ्य इति । मात्सर्यादिविषयतया प्र- सञ्जितेभ्यः उत्तमेभ्यः 'अन्येषां' अवराणां ज्ञानादिरूपोपकारस्य 'भा- वात् ' सद्भावादित्यर्थः । यथोक्तं तत्त्वप्रदीपे, यैश्च मत्सराद्विरोध आ- शङ्क्यते तेभ्य एव परेषां ज्ञानादिगुणभावात्तत्रोत्कर्षो हर्षमाधत्त इ- ति । अनेन सूत्रे तेभ्यः तेषां तस्येति तन्त्रावृत्तिर्दर्शिता भवति । चश- ब्दो हेतुसमुच्चये । अनेन सौत्रतुशब्दो भिन्नक्रमेण चशब्दार्थतयाऽपि व्याख्यातः ॥ (४) ननु विरोधिष्वसाम्यं विषयलम्पटत्वादि च दृश्यते, तत्कथं निश्चिनुमो दोषनिबन्धन एव विरोधो, न त्वसाम्यनिमित्त इत्यतस्तदु- त्तरत्वेनौपसदवदित्येतद्व्याचष्टे—औपसदवदिति ॥ उप ब्रह्मसमीपं सादयति, गमयत्येनेमित्युपसद्गुरुः तस्यायमौपसदः तेन शिक्षणीयः शिष्यः । (उपसीदतीत्युपसद्ः स एव औपसदः स्वार्थिकोऽण्प्रत्ययः । तथा च शिष्य इत्यर्थलाभ इति भावः) सच्छिष्यवदिति भाष्यपाठस्तु शिष्यवदिति चायुक्तमिति सुधानुवादविरोधादनादरणीयः । व- स्तुतस्तु शिष्यवदित्यस्य तत्त्वप्रदीपानुसारात् सच्छिष्यवदित्यर्थः । न च सूत्रे तदर्थालाभः । आङ्प्रश्लेषेण तल्लाभात् । तथा च दोषासम- त्वयोः क्वचिद्विरोधिषु समावेशेऽपि दोषाणामेव विरोधप्रयोजकत्वनि- श्चयो युज्यते । असमयोरपि गुरुशिष्ययोर्दोषाभावेन विरोधाभावद- र्शनात् । अन्यथा तत्र व्यभिचारापत्तेरिति भावः । स्वोक्तार्थे श्रुतिं चाह सूत्रकृत्—तदुक्तमिति ॥ तच्चार्थतुशब्दान्वयेन व्याचष्टे—उक्तं चेति । 'देवसंघाः' मुक्तियोग्यसमुदायाः । जीवसंघा इति क्वचित्पा- ठः । 'विमुक्तौ' मोक्षे । 'नानाविधाः' तारतम्योपेताः गणशस्सन्ती- त्यर्थः । 'तेषां' मुक्तानां न विरोधः । कुतो ? दोषाभावात् । अत्र हे
८६२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] लोकेऽपि नासौ किमु तेषां विमुक्तेः ॥ इति ॥ ३४ ॥ -- २१. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ इयदामननात् ॥ ॐ ॥ ३५ ॥ नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम् । न प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्यादिति न वाच्यम् । तुः-ब्रह्मधियामिति । विरोधाभावे हेत्वन्तरमाह—गुरुशिष्यादीति । आदिशब्देन स्वामिभृत्यभावो गृह्यते । इदमर्थं कैमुत्येनाप्याह—लोक इति । 'तेषां' ब्रह्मधियां 'लोके' संसारेऽपि । 'असौ' विरोधो न, कुतो? दोषाभावाद्गुरुशिष्यादिभावाच्च । 'किमु विमुक्तेः' अनन्तरमिति शेषः ॥ २० ॥ इति यावदधिकरणम् ॥ -- २१. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनाधिकारिणां प्राणावसानत्वं समर्थ्य- ते । सूत्रं पठति—इयदिति ॥ तथाऽपि पूर्ववत्स्यादित्यनेन द्वितीयसूत्र- सूचितपूर्वपक्षं प्रदर्शयिष्यन्पूर्वपक्षे बाधकमाशङ्कते-नामादीति । यद्य- पि छन्दोगश्रुताविति वाक्यं प्रागध्याहार्यम् । नामादीत्यादिपदेन नाम- वाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नास्तेज आकाशस्मराशा गृह्य- न्ते । नामादिशब्दाश्च उषास्वाहापर्जन्यमित्राग्निवरुणविधुप्रवहनानि- रुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीपराः । 'प्राणान्तं' मुख्यवायुपर्यन्तं ' उत्तरोत्तरोत्तमत्वं ' पूर्वपूर्वापेक्षयोत्तरोत्तरमाधिक्यमुक्तमित्यर्थः । 'प्राणात् ' मुख्यप्राणात् 'किंचित्' वस्त्विति शेषः । 'भूयः' अधिकं नोक्तमित्यन्वयः । तथा च प्राणः स्वोत्तमाधिकारियुक्तः अधिकारि- त्वात् नामाधिकारिवदिति पूर्वपक्षसाधकानुमानेऽनुक्तिः बाधिकेति भावः । बाधकं परिहरन् द्वितीयसूत्रदर्शितपूर्वपक्षमाह—तथाऽपी- ति । पूर्ववदिति । श्रुतौ पूर्वगृहीतनामादिवदित्यर्थः । स्यादिति । प्रा- णादधिकोऽधिकारी साध्यः स्यादित्यर्थः । अधिकारित्वाद्धेतोरिति शेषः । अनुक्तिस्तु प्रमाणदुर्बलत्वान्न बाधिकेति भावः । सिद्धान्तय-
[ अधि - २१. सू - ३६. ] दीपिकासहितम्. ८६३ ( २ ) 'प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान्प्राणो ह्ये व भूयांस्तस्माद्भूयान्नाम' इति कौण्ठरव्यश्रुतेः ॥ ३५ ॥ ( ३ ) सू—ॐ ॥ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॥ ॐ ॥ ३६ ॥ यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येवं प्राणा दपि परमात्मानमन्तरा विद्यत इति चेन्न, प्राणादुत्त माभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाण म् । दृश्यते चान्यत्रोत्तमत्वम् ॥ ३६ ॥ ति--नेति । न वाच्यमित्यनन्तरं किन्तु अधिकारिणामपि 'इयत्' इ यत्त्वमेव प्राणावधित्वमेवेति भावप्रधानं सौत्रं प्रतिज्ञावाक्यं संयोज्यम्। अधिकारिणां प्राणावधित्वमेवेति तदर्थः ॥ ( २ ) कुत इत्यतः प्रवृत्तं आमननादिति हेत्वंशं व्याचष्टे—प्राण इति। वावेत्यवधारणे । 'हि' यस्मात्प्राणात् 'भूयान्' अधिकः कोऽपि ना स्ति तस्मात्प्राण एव सर्वेभ्यो भूयान्, प्राण एव भूयानिति निगमनम् । यस्मात्प्राणो भूयानधिकः तस्मात्प्राणो लोके 'भूयान्नाम' भूयश्शब्द वाच्यतया प्रसिद्ध इत्यर्थः ॥ ( ३ ) उक्तमाक्षिप्य समाधातुं सूत्रं—अन्तरेति । अत्राक्षेपांशं व्या चष्टे—यथेति । यथा 'भूतग्रामे' प्राणिसमूहे नामादौ 'उत्तमो' विशि ष्टोऽस्त्येव, तथा प्राणादप्युत्तमो विद्यत इति साध्यत इत्यर्थः । ननु प रमात्मनः श्रियश्चोत्तमत्वाङ्गीकारेण सिद्धसाधनमित्यत उक्तम्—अ न्तरेति सौत्रं पदं व्याचष्टे—परमात्मानमिति । श्रियोऽप्युपलक्षकमेत त् । अनेन सूत्रे अक्षरमिति पदानुषङ्गस्सूचितः । 'अन्तरा' विना । न आकर्षेण परिहारांशं व्याचष्टे—नेति । नानुमानेन प्राणादप्युत्तमः सा ध्य इत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तदुक्तमित्यंशं व्याचष्टे—प्रा णादिति । 'प्रमाणम्' 'प्राणो वाव सर्वेभ्यो भूयान्' इति श्रुतिरूपम्। उक्तमित्यनन्तरं यत इति शेषः । तथा चाधिकारित्वादित्यनुमानस्या गमबाध इति भावः । ननु नास्मदनुमानस्य बाधः, प्राणादुत्तमाभावे नामादेरप्युत्तमो न स्यादधिकारित्वाविशेषादिति अनुकूलतर्कसाहा य्येन इतरानुमानापेक्षया प्रबलत्वादित्याशङ्क्य आकृष्टनञावृत्त्या अन्य त्रेत्यध्याहारेण च परिहरति-अन्यत्रेति । नामादावुत्तमाभाव इत्यर्थः । नन्वभाव इव भावेऽपि न प्रमाणमस्तीत्यतः तदुत्तरत्वेन दृश्यत इति पदाध्याहारेण तदित्येतद्योजयति--दृश्यते चेति । 'अन्यत्र' वागादौ
८६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ४ ) सू — ॐ ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ॐ ॥ ३७ ॥ प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चे न्न, श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात्परमात्मनो ह्युपदिष्टम् ॥ ३७ ॥ —*— नामाद्युत्तमत्वं ‘दृश्यते’ उच्यते छान्दोग्य इति शेषः । न केवलमन्य त्रोत्तमभावो न दृश्यते, किन्तूत्तमसद्भावो दृश्यते प्रमीयते चेति चश- ब्दार्थः । तथा च प्रतितर्कस्य प्रमाणबाध इति भावः । अनेन — ‘तत्’ तत्र प्राणादुत्तमभावे तच्छ्रुतिरूपं प्रमाणमुक्तम् । भूतग्रामे तु नोत्त- मभावे प्रमाणम्, प्रत्युत तत्सद्भाव एव दृश्यत इति सूत्रखण्डार्थ उ- क्तो भवति ॥ ( ४ ) उक्तमाश्रित्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथेति ॥ अ- त्रान्यथाशब्दार्थमाह-प्राणस्येति । सर्वोत्तमत्वे इत्युपलक्षणम् । प्राणादु- त्तमाधिकार्यभावे ‘प्राणो वाव सर्वेभ्यः’ (कौण्ठरव्य.) इति श्रुतिस्थ स- र्वशब्दस्य निरुपचरित सर्वार्थत्वाङ्गीकारं चेत्यपि अन्यथाशब्दार्थो ज्ञात- व्यः। सूत्रे अक्षरेणेत्यनुक्तपदस्यार्थमाह-परमात्मनेति । भेदेति । प्राण- स्येति वर्तते। सर्वोत्तमद्वयायोगादिति भावः। एवं ‘अन्यथा’ श्रुतिस्थ सर्वशब्दस्य सङ्कुचितार्थत्वे परमात्मानं च श्रियं च विनेतिवत्कतिप- याधिकारिणश्च विनेत्यपि वक्तुं शक्यत्वाद्विवक्षितसिद्ध्यनुपपत्तिरि- ति सूत्रखण्डव्यावृत्यन्तरमपि भाष्याभिप्रेतं द्रष्टव्यम्। परिहारांशं व्या- चष्टे—नेति । नोक्तदोषप्राप्तिरित्यर्थः । कुत इत्यतः कर्मणि घञन्तत्वमा- श्रित्य यत उपदेशवदुपपद्यत इति हेत्वंशं व्याचष्टे—श्रुतीति । छन्दो- गश्रुत्युक्तप्रकारेणैव श्रुत्यन्तरस्थसर्वशब्दस्य सङ्कोचोपपत्तेः । अत ए- व प्राणपरमयोः भेदोपपत्तेरित्यर्थः । तथा च द्वितीयपक्ष एवाङ्गीक्रिय- ते । संकोचनियामकं तु श्रुतिवाक्यमेवेति भावः । किं तच्छ्रुत्युपदिष्ट- मित्यत आह—अन्येभ्य इति । स्वव्यतिरिक्तसर्वाधिकारिभ्य इत्यर्थः । ‘तस्मात्’ प्राणात् । हिः प्रसिद्धौ हेतौ वा । ‘उपदिष्टं’ उक्तं छन्दोग- श्रुतौ । तस्मात् विष्णुव्यतिरिक्तसर्वार्थत्वं श्रुतेरिति वाक्यशेष
[ अधि - २२. सू - ३८. ] दीपिकासहितम्. ८६१ २२. अधिकरणम् ॥ ( १ ) नेति चेन्न— सू—ॐ ॥ व्यतिहारो विशिषन्ति हीतरवत् ॥ ॐ ॥ ३८ ॥ उक्तं प्राणात्परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण । ( २ ) ‘एष तु वा अतिवदति’ ( छा. ७-१६. ) इति विशिष न्ति हि । २२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तम त्वं प्रसाध्यते । पूर्वपक्षयति—नेति ॥ छन्दोगश्रुतौ प्राणस्यैव सर्वोत्तम त्वमुक्तम्, न तु प्राणात्परमात्मनः । न च वाच्यं सत्यपदोदितस्य वि ष्णोः प्राणादाधिक्यमुक्तमिति । कुतो ? यतो भूतनामवत्प्रश्नप्रतिवच नरूपप्रकरणभेदकल्पकं न, यतश्च ‘एष तु वा अतिवदति । यः सत्ये नातिवदति’ इत्युक्तम्, सत्यत्वं प्राणविशेषणमेव न विष्णुविशेषणं, अत इत्यर्थः। पूर्वपक्षं प्रतिषेधति-नेति । प्रश्नादिरूपप्रकरणभेदकल्पका भावात् सत्यत्वस्य प्राणविशेषणतया विष्णुविशेषणत्वाभावात् न प्राणाद्विष्णोरुत्तमत्वमुक्तमित्यर्थः । कुतो नेत्यतः सूत्रं पठित्वा व्या चष्टे—व्यतिहार इति । यतश्छान्दोग्ये ‘पूर्वोक्ताध्याहारेण’ पूर्वेषु ना मादिप्रकरणेषु ‘अस्ति भगवो नाम्नो वाव भूयोऽस्तीति, तन्मे भगवान् ब्रवीत्विति’ ( छा. ७-१-५. ) ‘वाग्वाव नाम्नो भूयसी’ (छा.७-२-१.) इत्युक्तवाक्यसदृशस्य ‘अस्ति भगवः प्राणाद्भूयोऽस्तीति तन्मे भगवा न् ब्रवीत्विति सत्यं वाव प्राणाद्भूयः’ इत्येवंरूपस्य प्रश्नप्रतिवचनरूप वाक्यस्याध्याहारेण प्रकरणभेदकल्पनया सत्यस्य विष्णोः प्राणादुत्त मत्वमुक्तं अतो नेति योजना । अनेन यतः इतरवत् ‘व्यतिहारः’ अ ध्याहार इति हेत्वंशो व्याख्यातः । श्रुतौ ‘भगवो’ भगवन्निति नारद कर्तृकप्रश्नस्य ‘सत्यं वाव’ इति सनत्कुमारकर्तृकं प्रतिवचनम् ॥ ( २ ) नन्वध्याहारे कारणाभाव इत्यतस्तत्र हेतुत्वेन विशिषन्तीत्यंशं व्याचष्टे-एष तु वा अतिवदतीति ॥ विशिषन्ति हीति । छान्दोग्ये ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति । तं चेद्ब्रूयुर तिवाद्यसीति । अतिवाद्यस्मीति ब्रूयात् । नापह्नुवीत’ (छा. ७-१५.) इति प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्तम् । ततश्च १०९.
८६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ३ ) यथेतरेषु विशेषणम् । 'एष तु वा अतिवदति यः सत्येनातिवदति' इति सत्याख्यवस्तुवादिनोऽ- प्यतिवादित्वमुच्यते । तत्र प्राणातिवादिनः सकाशात्सत्यातिवादी तु शब्देन विशेष्यते । तथा च 'हि' यस्माच्छन्दोगाः प्राणातिवादिनः स- काशात्सत्यातिवादिनं 'विशिषन्ति' अतिशयितवस्तुवादित्वविशेषण युक्ततया आमनन्ति । एवं सत्यवादिनं विशिषन्तः प्राणात्सत्यं विशिष- न्ति । तेन ज्ञायते अन्योऽसावन्योऽसाविति । तस्मात् प्रकरणभेदकस- द्भावात्प्राणप्रकरणात्परस्तात् 'एष तु वा' इत्यतः प्राक् 'अस्ति भग- वः' इत्यादिप्रश्नप्रतिवचनाध्याहारः कार्य इत्यर्थः । स एषोऽधिकारी एवं शृण्वन् एवं विजानन्नेवं ध्यायन्नेवं पश्यन् 'अतिवादी' अतिश- यितं उत्तमं मुख्यप्राणाख्यं वस्तु वदतीत्यतिवादी भवति 'तं' प्राणा- तिवादिनं प्रति यदि त्वमतिवाद्यसीत्यन्ये ब्रूयुः, तदा सत्यमतिवाद्य- स्मीति ब्रूयात् 'नापह्नुवीतैव' नैवापह्नुवीतेत्यर्थः । योऽधिकारी सन् नि- र्दोषश्वासौ यो नियामकश्चेति सत्यो विष्णुस्तेनातिवदति तमतिवद- ति एष एव तु प्राणातिवाद्यपेक्षया विशेषेणातिवदति अतिशयितमुत्त- मं वस्तु वदतीत्यर्थः ॥ ( ३ ) ननु कथमिदं विशेषणं प्रकरणभेदकं, येन प्रश्नाद्यध्या- हारं प्रतिपद्येमहीत्यतः तदुत्तरत्वेनापि इतरवदित्यंशं व्याचष्टे— यथेति ॥ 'इतरेषु' वागादिषु । प्रयुक्तमिति शेषः । 'वाग्वाव नाम्नो भूयसी' इत्यादिकं विशेषणं प्रकरणभेदकमित्यर्थः । वाचो नामाधि- क्यरूपातिशयाभिधायकत्वादिति भावः । तथैतदपीति वाक्यशेषः । यस्सत्येनातिवदति स तु प्राणातिवादिनोऽप्यतिशयितं वस्तु विशे- षेणवदतीति वचनमुखेन प्राणात्सत्यस्य आधिक्यवाचकत्वादिति भा- वः । अनेनेतरवदित्यस्य विशिषन्ति हीत्यनेनापि सम्बन्धः सूचितः । अनेन न विष्णोः प्राणादुत्तमत्वाभावः, यतस्तच्छ्रुत्युपदिष्टं, न च प्र- श्नाद्यभावात्प्राणपरैव श्रुतिः, यत इतरवत्प्रकरणान्तरवत्प्रश्नाद्यध्याहा- रः कर्तुं शक्यः । न चात्र कारणाभावः । हि यतः छन्दोगाः इतरवद्धि शिषन्ति 'वाग्वाव नाम्नो भूयसी' इत्यादिना नामादितो वागादिक- मिव 'एष तु वा इति' तुशब्देन प्राणात्सत्यं विशिषन्त्यत इति सूत्रार्थ उक्तो भवति ॥
[ अधि - २३. सू - ३९. ] दीपिकासहितम्. ८६७ (४) उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः ॥ इति बृहत्तन्त्रं ॥ ३८ ॥ —— २३. अधिकरणम् ॥ ( १) कृतिर्निष्ठा विज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेत्— (४) उक्तार्थे हिशब्दसूचितं स्मृतिं चाह---उत्तमत्वमिति ॥ 'दे- वानां' नामादिदेवानां 'मानवात्' मनुष्योत्तमादिति । उपलक्षणम् । मुक्तावप्युत्तमत्वमस्ति किमु संसारे इत्यर्थः । 'तेभ्यो' देवेभ्यः 'प्रा- णस्य' मुख्यवायोः 'तस्मात्' प्राणात् । चस्त्वर्थे । नित्यमुक्तस्येति हेतुगर्भम् । हरेरुत्तमत्वमिति सम्बन्धः । बृहत्तन्त्र इत्यस्योक्तमिति पूर्वे वाक्येनान्वयः ॥ २२ ॥ ॥ इति व्यतिहाराधिकरणम् ॥ —— २३. अधिकरणम् ॥ (१) अत्राधिकरणे प्राणाद्विष्णोरेवोत्तमत्वं साध्यते । पूर्वपक्षय- ति—कृतिरिति ॥ बहव इत्यनन्तरं अपीति, इत्यादीनामित्यनन्तरं उक्त- त्वादिति च शेषः । तथा च न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्त- मः , किन्तु बहवोऽप्युत्तमास्सन्ति । कुतः ? कृतिः निष्ठा ज्ञानमित्यादि- शब्दवाच्यानां बहूनां सत्यादुपर्युक्तत्वादित्यर्थः । आदिपदेन सत्यं वि- ज्ञानं मतिः श्रद्धा सुखं भूमा अहङ्कारः आत्मेति शब्दवाच्या गृह्यन्ते । ननु विज्ञानादीनां सत्येनान्योन्यं चाभेदान्न बहूनामुत्तमत्वं, किन्त्वेक- स्यैवेत्यत आह—भेदादिति । सत्येनान्योन्यं चेति शेषः । बहव इति । प्राणादुत्तमा बहव एव स्युः, न त्वेकः सत्यपदोदितो विष्णुरित्यर्थः । तत्त्वप्रदीपे तु सत्यस्य परमात्मत्वे सत्यादीनां भेदात्परमात्मनोऽपि बहव उत्तमाः स्युरिति पूर्वपक्षो दर्शितः । यद्यपि छान्दोग्ये सत्यादन- न्तरं विज्ञानं मतिः श्रद्धा निष्ठा कृतिः सुखं भूमा अहङ्कार आत्मेति क्र- मो, न तु कृत्यादित्वेन । तथाऽपि सूत्रे अक्षरस्य प्रकृतत्वात् तदिति व- क्तव्ये श्रुतिस्थकृत्यादिशब्दानुसारेण सेति स्त्रीलिङ्गनिर्देशात्तदनुसारे- णात्र कृत्यादित्वेनोक्तिः । न चैवं मत्यादित्वेनोक्तिस्स्यादिति वाच्यम् ।
८६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( २ ) न, सू— ॐ ॥ सैव हि सत्यादयः ॥ ॐ ॥ ३९ ॥ सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः । ( ३ ) ब्रह्मतर्के च । नामादिप्राणपर्यन्तात् यो हि सत्यादिरूपवान् । तस्मै नमो भगवते विष्णवे सर्वजिष्णवे ॥ इति ॥ ‘ सत्यं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा ’ ( ) इत्या- दिश्रुत्यन्तरानुरोधेन सत्यादनन्तरं कृतिर्निष्ठेति क्रमेण निर्देशात् । त- त्त्वप्रदीपे तु लक्ष्मीरपि सत्यादिगुणकत्वात्सत्यादिपदैरुच्यते । तथा च तद्विवक्षया सैवेति स्त्रीलिङ्गशब्दप्रयोग इत्युक्तम् । तथा स्त्रीलिङ्गो- क्त्या कृतिर्निष्ठेत्यादिशब्दवाच्यत्वं विष्णोरुचितमिति चोक्तम् ॥ ( २ ) पूर्वपक्षं प्रतिषेधति—नेति ॥ न प्राणादधिकाः बहव इति यु- क्तमित्यर्थः । तत्त्वप्रदीपदिशा तु न तु परमात्मनोऽपि बहव उत्तमाः श- ङ्कया इत्यर्थः । एवं प्रतिज्ञां बहिरैव प्रदर्श्य कुतो नेत्यतः तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—सैवेति । ‘ हि ’ यस्मात्सत्यादयोऽहङ्कारान्ताः ‘ सा ’ अक्षरशब्देन प्रकृता ईश्वराख्या परदेवतैव, न तु ततो भिन्नाः तस्मादित्यर्थः । तस्या एवेति । अक्षरशब्देन प्रकृताया एवेत्यर्थः । स- त्यादयः आत्मान्ताः सा परदेवतैवेति व्याख्यातव्ये सत्यादयो गुणाः तस्या एव स्वरूपभूता इति व्याख्यानं सत्यादिशब्दवाच्यानां भेदनि- राकरणेन अभेदसाधनार्थम् । अनेन कथमभेदसिद्धिरिति चेदित्थम्— ‘ सत्यं भगवो विजिज्ञासे ’ ( छा. ७-१६. ) इति नारदस्य सत्याख्यस्य विष्णोः गुणजिज्ञासायां सनत्कुमारेण ‘ यदा वै विजानात्यथ सत्यं व- दति नाविजानन् सत्यं वदति ’ ( छा. ७-१७. ) इति वाक्यशेषेण सत्या- ख्यविष्णुगुणत्वेन तदविनाभूतज्ञानस्योक्तत्वात्, तथोत्तरत्रापि तत्तद्गु- णजिज्ञासायां तत्तदविनाभूतसत्यादीनामेवोक्तत्वादभेदसिद्धेः । अन्य- था सत्यादिजिज्ञासायां विज्ञानादिकथनस्यासङ्गतत्वापातात् ॥ ( ३ ) गुणतद्युक्तिसिद्धाभेदरूपार्थं हिशब्दसूचितां स्मृतिं चाह— ब्रह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । यो नामादिप्राणपर्यन्तात् अधिकारिजातात् ‘ अधि ’ उपरि ‘ सत्यादिरूपवान् ’ सत्यादिशब्दवा- च्यगुणवानुक्तः, गुणस्वरूपतयोक्तः, तस्मै भगवते ‘ सर्वजिष्णवे ’ स- र्वजननशीलाय विष्णवे नम इत्यन्वयः । ‘ नामादिप्राणपर्यन्ताद्यो हि
[ अधि - २४. सू - ४०. ] दीपिकासहितम्. ८६९ (४) सत्याद्या अहमात्मान्ता यद्गुणास्समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते ॥ इति चाध्यात्मं ॥ ३९ ॥ ⁂ २४. अधिकरणम् ॥ (१) प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्व सत्यादिरूपवान् ' इति पाठे उपरि श्रुत इति आधिक्येनेति वा शेषः । हिः प्रसिद्धौ ॥ (४) नन्वस्तु भूमान्तानां भगवद्गुणोक्त्या तेनाभेदः, न त्वहङ्का रात्मनोः, तयोर्भेदानुक्तेरित्यत आह—सत्याद्या इति ॥ सत्यविज्ञान मतिश्रद्धानिष्ठाकृतिसुखभूमान इत्यर्थः । ' अहमात्मान्ताः' बहुव्रीहिः । अहङ्कारात्मान्ताः शब्दाः 'यद्गुणाः' यस्य परस्य गुणस्य वाचकाः समु दीरिताः प्रमाणे तस्मै भगवते नम इत्यर्थः । अहङ्कारात्मनोः सत्यादी विव गुणप्रश्नप्रतिवचनपूर्वक मभेदानुक्तावपि अस्त्येव भगवत्स्वरूप त्वमित्यत्र हेतुर्यस्मादिति । यस्मादहङ्कारात्मनोः ज्ञानात् यस्मात् 'स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममि थुन आत्मानन्दः स्वराट् भवति' (छा.७-२५.) इति वाक्यशेषे बन्धा द्विमुच्यत इत्युक्तम् , तस्मात्तयोस्तत्स्वरूपत्वमित्यर्थः । श्रुतावात्मश ब्दो विष्णुपरः, तस्मिन् रत्यादिमान् 'स्वराट्' स्वतन्त्रो बन्धरहित इत्यर्थः । इति ब्रह्मतर्के इति चाध्यात्म इत्युभयत्राप्युक्तमिति शेषः । अनयोः अतस्सत्यादय इति पूर्वेणान्वयः ॥ २३ ॥ ॥ इति सत्याधिकरणम् ॥ ⁂ २४. अधिकरणम् ॥ (१) अत्राधिकरणे श्रिय उपासनानधिकारित्वं साध्यते । पूर्वपक्ष यति—प्रकृतेरिति ॥ न केवलं प्राणादेः किन्तु चित्प्रकृतेर्लक्ष्म्या अपि उपासनाधिकारोऽस्त्येवेति प्रतिज्ञायां हेतुमाह—संसारेति । 'प्राप्तेः' सिद्धेः । साधुत्वाच्चेत्यपि द्रष्टव्यम् । नन्वसिद्धः संसार इत्यत आह— जन्मादेरिति । सीतारुक्मिण्यादिरूपेण जन्ममरणादेर्दर्शनात् । 'यतः प्रसूता' (महा. १.) इत्यादिश्रुतेश्चेत्यर्थः । अधिकारासिद्धेः फलमाह—कि
९७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] पाठ इति । ( २ ) अत्रोच्यते— सू—ॐ ॥ कामादितरत्र तत्र चायतनादिभ्यः ॥ ॐ ॥ ४० ॥ स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोती- श्वरानुसारेण । ( ३ ) 'सर्वायतना सर्वकाला सर्वेच्छा सर्वज्ञा न बद्धा वन्धि- मिति । कस्माद्धेतोरित्यर्थः । नामादिषु मध्ये । किमिति । किंनिमित्तः 'अपाठो' पाठाभावः किंप्रयुक्त इत्यर्थः । किन्तु तदध्याहारः । तत्पाठोऽ- ध्याहर्तव्य एवेत्यर्थः । स च भवन् प्राणादुपरि एव भवेत्, तथा च नाधिकारिणां प्राणावसानत्वमिति भावः । ( २ ) सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अत्रेति । अत्रास्मिन् पूर्वपक्षे सिद्धान्त उच्यते सूत्रकृतेत्यर्थः । सूत्रं पठति—कामादि- ति । अत्र कामादित्येतत्स्वकामपरतया व्याख्याति—स्वेच्छयेति । सौत्रचशब्दस्य कामादित्यन्वयमभिप्रेत्यार्थमाह—एवेति । न कर्मतं इत्यर्थः । अनेनेन्द्रादिवज्जननादिकं निरस्तं भवति । तत्रेत्यनन्तरं शे- षं दर्शयन् तदर्थमाह—मूलेति । मूलरूपेण 'मूलस्थाने' वैकुण्ठादौ भगवत्समीपे स्थितेत्यर्थः । अनेन प्रकृतेः इतरजननवन् मुख्यजननादि निरस्तो भवति । चशब्दस्येतरत्र चेत्यपि सम्बन्धं समुच्चयार्थत्वं चा- भिप्रेत्य इतरत्रेत्यस्यार्थमाह—अन्यत्र चेति । भूम्यादावपीत्यर्थः । सू- त्रे इतरत्रेत्यनन्तरमध्याहार्यं दर्शयति-अवतारेति । बहुवचनमाद्यर्थे । अवतारादि करोतीत्यर्थः । 'अवतारो' जनप्रत्यक्षविषयता । आदि- पदेनैतद्विषयत्वरूपा मूर्तिर्गृह्यते । यद्वा—अवतीर्यमाणसीतारुक्मि- ण्यादिरूपबाहुल्याद्बहुवचनम् । मरणादेरुपलक्षणमेतत् । 'करोति' प्रा- प्नोति । अनेन जननादेरवतारादिविषयत्वेनान्यथासिद्धिरुक्ता भवति । कामादित्यस्येशकामादित्यप्यर्थमाह—ईश्वरेति । अनेन प्रकृतेः स्वात- न्त्र्यशङ्का निरस्ता भवति । अत्रेश्वरेच्छानुसारेण वर्तमानया स्वेच्छयै- व मूलस्थाने स्थितेन तेन सहैवान्यत्र च तेन सहावतारान् करोतीति तत्त्वप्रदीपोक्तार्थविशेषो बोध्यः । करोतीत्यस्य प्रकृतिरिति विपरिणते- न सम्बन्धः ॥ ( ३ ) मूलरूपेण भगवत्समीपे स्थिता स्वेच्छयैवावतारान् करो- तीत्येतत्कुतः इत्यतः तत्र हेतुत्वेन आयतनादिभ्य इत्यंशं व्याचष्टे—
[ अधि - २४. - सू - ४०. ] दीपिकासहितम्. ८७१ का सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः । ( ४ ) नामादयस्तु बद्धत्वान्मोचकत्वात्परोऽपि च । उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥ सर्वायतनेति ॥ सर्वं जगदायतनमाश्रयो यस्यास्सा तथोक्ता । सर्वः कालः आश्रयो यस्याः सा तथोक्ता । आभ्यां देशकालानन्त्यमुच्यते । सर्वमिच्छाधीनं यस्यास्सा ‘सर्वेच्छा’ सर्वं जानातीति ‘सर्वज्ञा’ स- र्वावस्थेति पाठे सर्वजनस्य सर्वाऽपि जाग्रदाद्यवस्था यस्याः सा त- थोक्तेत्यर्थः । तत्त्वप्रदीपे तु सर्वः पूर्णो विष्णुस्तस्यायतनमेवास्या आ- यतनं, तत्काल एव कालः तस्मादेव च इच्छा चेत्यर्थः उक्तः । स्वयं क्वचिदपि न बद्धा बन्धिका च सर्वजीवानां ‘अविकृतिः’ विकाररहि- ता । अचेतनप्रकृतिव्यावृत्त्यर्थमिदं विशेषणम् । सर्वेच्छा सर्वज्ञेत्येतच्च न व्यावर्तकं, जडेऽपि ज्ञानेच्छोपादानत्वेन तथोक्तिसम्भवात् । या ए- वंभूता सैषा चित्प्रकृतिरिति श्रुत्यर्थः । इति वत्सश्रुतेरित्यनेन आयतना- दिभ्य इति सौत्रपदस्य भावप्रधानगर्भितस्य सर्वांयतनत्वादिबोधक- श्रुतेरित्यर्थ उक्तो भवति । सूत्रे बहुवचनं तु श्रुतिप्रतिपाद्यबहुत्वाद्युक्त- मिति भावः ॥ ( ४ ) नन्वेवं प्रकृतेरसंसारित्वेनानधिकारित्वेऽपि कुतः छन्दोगश्रु- तौ नामादिष्वपाठः, भगवदुक्तिवत्तारतम्यकथनावसरे तदुक्तेरावश्य- कत्वात् । अन्यथा प्रकृतेरभावप्रसङ्गादित्यतः सूत्रचशब्दसूचितां स्मृ- तिमाह—नामादयस्त्विति ॥ तुशब्दो विशेषार्थः । चशब्दोऽवधारणे । तथा च यथा छन्दोगश्रुतौ बद्धत्वनिमित्तादेव नामवागादय उदिताः । मोचकत्वादेव परमात्माऽप्युदितः । उभयोर्बन्धमोचकत्वयोरभावेनैव ‘अव्यक्तं’ श्रीतत्त्वं ‘नोदितं’ नोक्तं, न तु तस्या अभावान्निमित्तात् । तथा ‘द्वा सुपर्णा’ ( मु. ३-१. ) इति श्रुतौ ‘स्वाद्वत्ति’ इत्युक्तत्वात्कर्म- बद्धत्वात् ‘सखाया’ उपकार्योपकारिभावित्यनेनोक्तात् मोचकत्वादे- व जीवपरमात्मानावेवोच्येते । न तु ताभ्यां ‘इतरत्’ अन्यत्किञ्चिज्ज- डमुच्यते । अनेन बुद्धिाजडपरतया व्याख्यानं निरस्तं भवति । यदा चै- वमुक्तिः तदा श्रुतौ ईश्वरः प्रकृतिर्जीवो जडं चेति चतुष्टयम् । पदार्थानां समुद्दिष्टम्.... ॥ इति बृहदारण्यकभाष्योदाहृतप्रमाणोक्ततत्त्वचतुष्टयमध्ये ईश्वरजीवा
८७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] श्रुतौ तथा जीवपरावुच्येते किञ्चनेतरत् । नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम् ॥ इति ब्रह्मतर्के ॥ ४० ॥ ख्यं तत्त्वद्वयमेवोक्तं ज्ञातव्यं, न तु जडाभाव इत्यर्थः । तत्त्वप्रदीपे तु- बद्धत्वमोचकत्वयोरुभयोरभावेन यथा येन प्रकारेण योजनायामव्य क्तं नैवोदितं छन्दोगश्रुतौ, तथा तस्मिन्नेव योजनाप्रकारे प्राणपर्यन्तो जीवराशिः सत्यादिगुणकः परमेश्वरश्चैवोच्यते, न त्वन्यत्किंचित्, अ व्यक्तस्याबद्धत्वेन परतत्त्वेऽन्तर्भावात् । ‘तदा’ तस्मिन् पक्षे तत्त्वद्व यमेवोक्तमित्युक्त्वा, एवं च प्रकारान्तरेणापि श्रुतियोजनाऽस्तीति गम्य ते। येन प्रकारेणाव्यक्तशब्दशब्दिता स्वरमणपरतन्त्रा अक्षतगुणजल क्षणा सा महालक्ष्मी रत्र संलक्ष्यते । स्वयं च सूत्रं ‘सैव हि सत्यादयः’ ( ३-३-३९. ) इति तदभिमुखमिव च प्रतिभाति । ‘यथाऽव्यक्तं न तूदि तम्’ इत्यादिकमुदाहरद्भिर्हि भट्टारकैश्च तां कटाक्षेण वीक्षमाणाम भिप्रक्षामहे । सा देवी प्रस्तुतैव भगवत्प्रस्तावे अनादिकालभगवत्स म्बन्धित्वादित्याह। भूमादिगुणत्वमुभयथा विष्णोरेवेति भूमा विष्णुरेवे त्युक्तं, पुरस्ताच्छ्रीगुणेषूदितेष्वपि सत्यादिषु तेषां भूमा विष्णुरेवेत्य र्थः । न हि भगवतोऽन्यत्र सत्यज्ञानादीनां परिपूर्तिः । न च ‘यत्र ना न्यत्पश्यति’ इत्यादिना सर्वस्वातन्त्र्यादिधर्मापपत्तिरन्यत्रेत्यादि तत्रै वावेदितम् । अन्तराले अनुक्तिपक्षेऽपि नोपासनीया सेति मा भूच्छङ्का इत्युपासनापादे प्रस्तौति देवीम् । प्राणप्रस्तुतिः प्राणादुपरि सहैव भ गवता मुमुक्षूणां अभिध्यातव्येति । नामादिप्राणपर्यन्तानामपि भूताना मुत्तरोत्तरतो विशेषादुपास्तिपूजादिकं विवक्षितम्, किं पुनरखिलेश्व रस्य अतिप्रियतमाया विरिञ्चमुखनिखिलसुरवरपुरस्सरसज्जनसन्त तसेव्याया देव्या इति विशेषार्थ उक्तः । अत्र तत्त्वप्रदीपपक्षे स्मृतिग तस्य श्रुतावित्यस्य नावृत्तिः । टीकाकृत्पक्षे तु आवृत्तिः यथातथाशब्द योर्दृष्टान्तदार्ष्टान्तिकभावसूचकत्वम् । तत्त्वप्रदीपपक्षे तु प्रकारसमर्पक त्वम्। टीकाकृत्पक्षेऽस्याः स्मृतेः प्राकृतिकजडाभावशङ्कानिवारकत्वम्। तत्त्वप्रदीपपक्षे तु बन्धमोचकत्वान्यप्रकारेण परापरत्वरूपेण अव्यक्त परतयाऽपि छन्दोगश्रुतियोजनाप्रदर्शकत्वमिति विशेषो ज्ञातव्यः । म हालक्ष्मीः ‘अत्र’ छन्दोगश्रुतौ ‘संलक्ष्यते’ प्रतिपाद्यतयाऽभिप्रेयते इ त्यर्थः । ‘तदभिमुखं’ लक्ष्म्यभिमुखं तत्परमित्यर्थः । भट्टारकैः श्रीम
[अधि - २४. सू - ४१. ] दीपिकासहितम्. ८७३ ( ५ ) सू- ॐ ॥ आदरादलोपः ॥ ॐ ॥ ४१ ॥ अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति । द्याचार्यराजैः सा देवीत्यादिना सा देवी सत्यादय इति सूत्रस्य अर्था- न्तरमुक्तम् । 'प्रस्तावे' प्रकरणे 'प्रस्तुतां' प्रकृतैवेत्यर्थः । ' इत्याह ' उपस्थितैरिति सूत्रकृत । प्रकृतिपुरुषयोः साम्यशङ्कां वारयति - भूमा- दीति । आदिशब्देन अहमात्मनोः ग्रहणं 'उभयथा' सम्प्रसादादध्यु- पदेशाच्च । 'सत्यादिषु' सत्यादिरूपश्रीगुणेषूदितेष्वपीत्यन्वयः । 'ते- षां' तैः 'भूमा' पूर्ण इत्यर्थः । तैरेव भूमाधिकरणे 'अन्तराले' प्राण- परमात्मनोर्मध्ये बन्धमोचकत्वविवक्षया श्रुत्यनुक्तिपक्षेऽपि प्रस्तौति देवीं सत्यादिशब्दैः सूत्रकृदित्यर्थः । 'मुमुक्षूणां' मुमुक्षुभिः अभिध्या- तव्या देवीति हेतोः प्राणप्रस्तुतिरित्यन्वयः । देव्याः पूजादिकं विवक्षि- तमिति किमु वक्तव्यमित्यर्थः । अनेन-चित्प्रकृतिरुपासनाधिकारिणी न भवति, तत्साधकसंसारित्वशून्यत्वात् । न च जननादिदर्शनश्रुतिवि- रोधाद्धेतोरसिद्धिः । यतश्च 'इतरत्र' भूम्यादावप्यवतारान् करोति । अतो जननादिदर्शनस्यावतारविषयत्वेन विरोधाभावादिति भावः । न च लोकसिद्धजन्मैव किं न स्यादिति शङ्क्यम् । यतस्सा तत्र मू- लस्थाने मूलरूपेण भगवत्समीपे स्थिता । न च तादृशानामपीन्द्रादी- नामर्जुनादिरूपेण उत्पत्तेर्दर्शनात् हेतोरप्रयोजकत्वं शङ्क्यम् । यतः सा 'कामात्' स्वेच्छयैव तत्र स्थिता न कर्मतोऽतः । न च स्वेच्छा- नुसारित्वे तस्याः स्वातन्त्र्यं शङ्क्यम् । यतः सा 'कामात्' ईश्वरे- च्छामनुसृत्यैवावतारादि करोति, न स्वेच्छामात्रादतः । न च मूलरूपे- ण भगवत्समीपे स्थिता इतरत्र स्वेच्छयैवावतारादि करोतीति विशि- ष्टहेतोरसिद्धिरिति वाच्यम् । ' आयतनादिभ्यः' सर्वा॑यतनत्वादिप्रति- पादकश्रुतेरेवेति सूत्रार्थ उक्तो भवति ॥ ( ५ ) ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाद्य- भावस्स्यात् । न चासौ युक्तः । यदर्चितं ब्रह्म भवादिभिः सुरैः श्रिया च देव्या मुनिभिश्च सात्त्वतैः । तुलसीभिरीशमभ्यर्चति.. इत्यादिप्रमाणविरुद्धत्वात् । अत्रार्चितमुपासितं पूजितं चेत्युक्तेरित्या- ११०
... that doesn't split naturally.
Wait, what about:
यत्न?
Wait, what if it is:
यत्नयोर्भक्तिर्बहुमानं च सेवनम्? No, too short.
Wait! Look at the three letters:
Letter 1: य
Letter 2: त्न
Letter 3: ं (anusvara)?
Wait, look at the image:
य then त्न then ं?
Wait, why did you think म ज मं?
Because:
Letter 1: has a vertical left, loop at bottom, horizontal to right, vertical down: THAT IS A म!
Letter 2: horizontal from left, goes down, loops up: THAT IS A ज!
Letter 3: म with an anusvara: मं!
Wait! Is it म ज मं? But what does मजमं mean in Sanskrit?! Nothing!
Wait, could it be य ज नं (यजनं)?
Wait! "आदरो यजनं भक्तिर्बहुमानं च सेवनम्"????
HOLY COW!
यजनम् (yajanam) = worship/sacrifice!
भक्तिः (bhaktih) = devotion!
बहुमानम् (bahumanam) = high esteem!
च (cha) = and!
सेवनम् (sevanam) = service
[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७५ (८) ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादि कृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्य स्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात् ॥ ४२ ॥ ────────*──────── २५. अधिकरणम् ॥ ( १) दर्शनार्थं ह्युपासनं तच्च श्रवणादेरेव भवति, अतः कि मर्थमिति । (८) ननु उपस्थितिः कुतः सिद्धेत्यतस्तत्र हेतुत्वेन तद्वचनादि त्येतद्व्याचष्टे— द्वाविति ॥ या प्रकृतिर्यश्चायं परमः तौ द्वौ ‘अनादि नित्यौ’ देहतोऽपि ‘अनादियुक्तौ’ अनादिकालतः सम्बद्धौ ‘नित्यमु क्तौ’ अनन्तकालदुःखासम्बन्धौ ‘अनादिकृतौ’ नित्यकृतौ सर्वकाले पूर्णावित्यर्थः । विष्णोः परमशब्दवाच्यत्वे निमित्तमाह— रमत इति । ‘अस्यां’ प्रकृतौ ‘अस्मिन्’ परमे । तर्ह्युभयोः साम्यमित्यत आह— स्वस्मिन्निति । श्रियां रममाणोऽपि तत्स्थे स्वस्मिन् रमत इत्यर्थः । ‘रमायां रममाणोऽपि तत्स्थेनैव श्रियाऽऽत्मना । रमते’ इत्यैतरेयभाष्योक्तेः। यत एवमत एनं विष्णुं परम इत्याहुः स्वरमणेन मायाः परत्वात् परम शब्दवाच्य इत्यर्थः । इति श्रुतिवचनादिति । अस्य सिद्धादिति शेषेण भगवत्संबन्धित्वादित्यनेनान्वयः । अनेन सूत्रे तद्वचनात् सिद्धादुप स्थितेरित्यन्वयः । तद्वचनादित्यस्य च तस्यां श्रुतौ तस्याः उपस्थितेः वचनाद् उक्तेरित्यर्थ उक्तो भवति ॥ २४ ॥ ॥ इति कामाधिकरणम् ॥ ───────:۞:─────── २५. अधिकरणम् ॥ (१) अत्राधिकरणे श्रवणमनननिदिध्यासनरूपस्य समस्तस्याप्यु पासनस्य कर्तव्यत्वं समर्थ्यते । पूर्वपक्षयति— दर्शनार्थमिति ॥ ‘हि’ यतः ‘उपासनं’ ध्यानं ब्रह्मदर्शनार्थमेव, न तु प्रयोजनान्तरार्थं, त स्यादर्शनात्, अनिष्टत्वाच्च । ‘तच्च’ दर्शनं उपासनान्तर्गत ‘श्रवणादेः’ श्रवणमननाभ्यामेव ‘भवति’ भविष्यति । अतः किमर्थं समस्तोपासन मित्यर्थः । एवं ‘हि’ यतः तच्चोपासनमेव हरेः ‘दर्शनार्थं’ तत्प्रयोजन
८७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] (२) अत्रोच्यते— सू—ॐ ॥ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फ लम् ॥ ॐ ॥ ४३ ॥ तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । (३) हि शब्देन ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ. ४-४-५.) इति श्रुतिं सूचयति ॥ कं, न तु श्रवणाद्यपीति 'भवति' इष्यते, अतः 'श्रवणादेः' श्रवणमनन योः किमर्थं उपासनमनुष्ठानमित्यपि तत्त्वप्रदीपदिशा व्याख्येयम् ॥ (२) अथ सिद्धान्तयत्तूत्रमवतार्य व्याचष्टे—अत्रेति ॥ सूत्रं पठ ति—तन्निर्धारणेति । अत्र ध्यानस्य दर्शनार्थं अवश्यकर्तव्यतासमर्थ नाय तन्निर्धारणार्थनियमः तद्दृष्टेः पृथक्फलं इत्ययमंशः प्रवृत्तः। तत्र तन्निर्धारणं च अर्थनियमश्चेति द्वन्द्वः, छन्दःकल्पत्वात् एकवद्भावेऽ पि नपुंसकत्वाभावः । यद्वा—तन्निर्धारणेन सहितोऽर्थनियम इति म ध्यमपदलोपी समासः । प्रथमतच्छब्दः इयदामननात्, सैवेत्यत्र प्रकृ तपरापरतत्त्वपरः भावप्रधानो वा। द्वितीयस्तु सैव हीति प्रकृतब्रह्मपरः। फलमिति तद्दृष्टेरिति चावर्तते । हिः हेतावित्याशयेन तमंशं व्याचष्टे- तत्त्वेति । परापरतत्त्वज्ञानमित्यर्थः। 'वेदार्थनियमः' अयमेव वेदार्थो ना न्य इति निर्णय इत्यर्थः । फलमित्यत्रान्वेीयते । तद्दृष्टेरित्यस्यार्थो-ब्रह्मदृ ष्टेरिति । भगवद्दर्शनादित्यर्थः । फलादिति विपरिणामेनात्रापि सम्बध्य ते। ध्यानफलादिति तदर्थः । पृथगिति सावधारणमित्याह-पृथगेवेति । एवेत्यनन्तरं फलमिति सम्बध्यते। अतो दर्शनार्थं ध्यानं कर्तव्यमिति वा क्यशेषः। तत्त्वप्रदीपे तु समस्तगुणसम्पूर्णो नारायण इत्ययमेव वेदा र्थ इति ज्ञानं वेदार्थनियमः, इदं श्रवणफलम् । उपपन्न एवं भाव इति निश्चयः तत्त्वनिश्चयः, इदं मननफलमित्यभिहितम् । अस्मिन् पक्षे त त्त्वनिश्चयो वेदार्थनियम इति भाष्यपदद्वयं सौत्रपदद्वयस्य व्यत्यासेन व्याख्यानरूपमिति प्रतिभाति ॥ (३) ननु ध्यानादेव चेद्दर्शनं, किं तर्हि श्रवणमननाभ्यां प्रयोजन म इत्याशङ्कानिरासाय सौत्रं हिशब्दं श्रुतिसूचकत्या व्याचष्टे—हिश ब्देनेति ॥ सूचयति सूत्रकारः । श्रुतिस्तु जिज्ञासा नये व्याख्याता । अत्र दर्शनार्थं ध्यानं, तदर्थं श्रवणमनने इति त्रितयस्याप्यङ्गाङ्गिभावेन वि
[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७७ ( ४ ) श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः । ( ५ ) ब्रह्मतर्के च— हितत्वात्समस्तमुपासनं कर्तव्यमिति भावः ॥ ( ४ ) ननु श्रुतोऽपि श्रवणादित्रितयसमुच्चयः कथमङ्गीकर्तुं शक्य ते, ध्यानादेव दर्शनसम्भवात् । न च ज्ञानोपयोगितया श्रवणादेः क र्तव्यता । श्रवणादेः फलान्तरस्योक्तत्वादित्याशङ्कानिरासकं प्रतिब न्धः फलमित्यंशं व्याचष्टे—श्रवणादीति ॥ श्रवणादेः साक्षात्फलं चे त्यर्थः । आदिशब्देन मननं गृह्यते । अज्ञानेति । अज्ञानविपर्ययादिरूपं यद्दर्शनस्य प्रतिबन्धकं तन्निवृत्तिरित्यर्थः । आदिपदेन संशयो गृह्य ते । तथा च तत्त्वनिर्णयो वेदार्थनियमः अपरोक्षज्ञानं चेति क्रमभावी ति शब्दादिजन्यानीत्युत्तरभाविटीकारीत्या गुरूपदेशरूपशब्दप्रत्यय स्य श्रवणशब्दार्थत्वेन विवक्षितस्य तत्त्वनिर्णयद्वाराऽज्ञाननिवर्तकत्वा त् युक्त्यनुसन्धानात्मकमननस्य च वेदार्थनियमद्वारा संशयविपर्यय निवर्तकत्वेन प्रतिबन्धकनिवर्तकतया ध्यानफलकापरोक्षज्ञानोपयोगि त्वात् , ध्यानस्य च ज्ञानप्रतिबन्धकस्य दृढत्वाद्ध्यानादेव दर्शनमिति टीकानुसारेण दृढप्रतिबन्धकस्य संशयस्यात्यन्तिकनिरासद्वारा तदु पयोगित्वात् , ज्ञानार्थिनः समस्तोपासनमपेक्षितमेवेति भावः । अने न—'हि' यतः 'तन्निर्धारणार्थनियमः' तत्त्वनिश्चयो वेदार्थनियमश्चे त्येवंरूपं गुरूपदेशविषयवाक्यश्रवणयुक्त्यनुसन्धानात्मकमननफलं ध्यानफलात् 'तद्दृष्टेः' ब्रह्मदर्शनात्पृथक् ताभ्यां तद्दृष्टेरसिद्धेः, तद्दृष्टे रर्थे तद्ध्यानं कार्यम् । ननु ध्यानादेव चेद्दर्शनं , तर्हि श्रवणम ननाभ्यां प्रयोजनाभावात् श्रवणादित्रयानुष्ठानं कुत इत्यतो—हीति । 'श्रोतव्यो मन्तव्यः' इत्यादिश्रुत्या ज्ञानार्थं त्रितयस्यापि विहितत्वा दित्यर्थः । ननु श्रौतोऽपि त्रितयसमुच्चयः कथमङ्गीकर्तुं शक्यः, ध्याना देव दर्शनसम्भवात्, श्रवणादेः फलान्तरस्यैव उक्तत्वाच्चेत्यतः—अप्र तिबन्धः फलमित्याह । यतस्तद्दृष्टेः 'अप्रतिबन्धः' प्रतिबन्धनिवृत्तिः तयोः श्रवणमननयोः साक्षात् फलं, तद्द्वारा ध्यानजन्यज्ञानं फलं अ तः समुच्चयोऽङ्गीकार्य इति सूत्रार्थ उक्तो भवति ॥ ( ५ ) श्रवणादेः प्रतिबन्धकनिवृत्तिद्वारा ज्ञानोपयोगित्वरूपोक्तार्थे स्मृतिं चाह—ब्रह्मतर्के चेति ॥ उक्तमिति शेषः । न केवलं सूत्र इति चार्थः । किमुक्तमित्यतस्तत्पठति—श्रुत्वेति । 'श्रुत्वा' गुरूपदेशं प्रा
८७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥ ४३ ॥ प्य तज्जन्यतत्त्वज्ञानद्वारा तदज्ञानं 'पराणुद्य' परिहृत्य 'मत्वा' ब्रह्म विषयकयुक्त्यनुसन्धानात्मकमननं कृत्वा 'तत्संशयविपर्ययौ' संशय मिथ्याज्ञाने पराणुद्य, तथा 'ध्यात्वा' दृढप्रतिबन्धं च पराणुद्य ब्रह्म दर्शनं 'लभते' प्राप्नोतीत्यर्थः । यद्वा—श्रवणमनननिदिध्यासनानां क्र मेणाज्ञानविपर्ययसंशयनिवर्तकत्वमत्रोच्यते । यथोक्तं तत्त्वप्रदीपे— तत्त्वनिश्चयवतोऽपि परोक्षात्कश्चित्संशयो भवति आ दृष्टेः । दर्शने तु कीदृशोऽपि न भवेत् । तदाह— श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥ ननु— अथ वा सततं शास्त्रविमर्शो न भविष्यति । विष्णुशास्त्रावमर्शनं, एकमन्यद्धरेर्ध्यानम् ॥ इति च । तन्त्रसारे श्रवणादिरूपशास्त्रावमर्शस्य साक्षादपरोक्षज्ञान साधनत्वोक्तेरत्र प्रतिबन्धकनिवर्तकतया ध्यानाङ्गतया अपरोक्षज्ञानोप योगित्वोक्तौ तद्विरोध इति चेत, अत्रोक्तं सुधायां—शास्त्राभ्यास स्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । तेन चित्तवृत्तिनिरोध नादिति । अथ वा--उपासनाप्राक्कालीनयोः तदन्तर्गतयोः तज्जाती ययोः श्रवणमननयोः अत्र विचारितत्वात् तन्त्रसारे च तदतिरिक्त योः तदनन्तरभाविनोः विवक्षितत्वात् न विरोधः । शास्त्राभ्यासध्यान रूपद्विविधोपासनस्यापि श्रवणमननमङ्गमिति तत्त्वप्रदीपोक्तेः सुधा यामपि श्रवणमननरूपशास्त्राभ्यासस्य भेद एव तात्पर्यं, न तु भावबो ध इव अभेदे तात्पर्यं वर्णनीयम् । केचित्तु—ईषद्बिम्बध्यानस्य सर्वापे क्षितत्वेऽपि अधिकारिविशेषे शास्त्रविमर्शप्राचुर्यविवक्षया 'अथवा सततम्' इति वाक्योपपत्तेः न विरोध इत्याहुः । इति ब्रह्मतर्के इत्यन्व यः । अस्य च अज्ञानादिनिवृत्तिः श्रवणादिफलमित्युक्तमिति पूर्वेणा न्वयः ॥ २५ ॥ ॥ इति निर्धारणाधिकरणम् ॥
[ अधि - २६. सू - ४४. ] दीपिकासहितम्. ८७९ २६. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ प्रदानवदेव हि तदुक्तम् ॥ ॐ ॥ ४४ ॥ न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिक- र्तव्येन । यथा गुरुदत्तं तथैव भवति । ( २ ) 'आचार्यवान् पुरुषो वेद' (छां. ६-१४-२.) इति हि २६. अधिकरणम् ॥ ( १ ) अत्र भगवज्ज्ञानसाधनश्रवणाद्युपासनस्य सेतिकर्तव्यताक- त्वं साध्यते । सूत्रं पठति—प्रदानवदेवेति ॥ अत्र तच्छब्दपरामर्शप्रद- र्शनपूर्वकं एवशब्दसूचितपूर्वपक्षं प्रतिक्षिपन् सूत्रं व्याचष्टे—न चेति । श्रवणादिमात्रेनेति । यथाकथंचिदनुष्ठितेन इतिकर्तव्यतारहितेन श्रव- णादिनेत्यर्थः। अनेन पूर्वपक्षसूचकैवशब्दार्थ उक्तो भवति । ब्रह्मदृष्टिर्भ- वतीत्यनेन सूत्रे पूर्वस्माद्विपरिणामेन दृष्टेरिति पदमनुवर्तत इति सूचि- तम् । कुतो नेत्याशङ्कते—किं त्विति । तदुत्तरतया मतुबाश्रयणेन प्रदा- नवदित्येतद्व्याचष्टे—सेतिकर्तव्येनेति । भावप्रधानोऽयं निर्देशः । इति- शब्दः प्रकारार्थः । इति प्रकारेण कर्तव्यमितिकर्तव्यमङ्गभूतं कर्म त- स्य भाव इतिकर्तव्यत्वमङ्गं तत्सहितेनेत्यर्थः । श्रवणादिनेति वर्तते । कुत इत्यतोऽपि प्रवृत्तं यतस्तत्फलं 'प्रदानवत्' तदनुरूपमित्यभिप्रा- येण वत्यन्तांशं विवृणोति—यथेति । 'गुरुदत्तं' गुरुदानं तदुपदेशो यथा 'तथा' तदनुसार्येव भवति । फलमिति शेषः । सप्रदानेनेत्यनुक्त्वा सेतिकर्तव्येनेत्युक्त्या 'श्रोतव्यो मन्तव्यः' इति श्रुतिविरोधः परिहृतः। तथा च गुरुप्रदानं ज्ञानसाधनस्य श्रवणादेः इतिकर्तव्यताऽङ्कमेव, न चैतावता तस्य साधनवत्कार्यत्वेन पृथग्वाच्यता सोमलतारसकार्य- त्वोक्तवत् तदङ्गदृढमुष्टिनिपीडनादेः पृथग्वचनात् । अतो न श्रवणा- दिमात्रस्य ज्ञानहेतुतावोधकश्रोतव्य इत्यादिवचनविरोध इति भावः॥ ( २ ) ननु प्रदानाधीनत्वं ज्ञानस्य कुत इत्यतः प्रवृत्तं तदुक्तमित्ये- तद्व्याचष्टे—आचार्यवानिति ॥ 'हि' यस्मादुक्तं तदिति सम्बध्यते । तथा च छन्दोगश्रुतौ तज्ज्ञानस्य गुरुप्रसादाधीनत्वमुक्तमित्यर्थः । ही- त्यनेन सूत्रे पूर्वस्माद्विशब्दोऽनुवर्तनीयः, स च श्रुतिसूचकः, यस्मा- दित्यर्थे चेत्युक्तं भवति । 'आचार्यवान्' तदनुग्रहवान् पुरुषो विमु- क्ताविद्यापटलस्सन् ब्रह्म वेदेति छन्दोगश्रुत्यर्थः । अनेन—'हि' यत- स्तत् प्रदानयुक्तमेव श्रवणादि ज्ञानसाधनमिति तस्यां श्रुतायुक्तं अतः