पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 915, कुल 1267 में से
संदर्भ में पढ़ें८६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( २ ) न, सू— ॐ ॥ सैव हि सत्यादयः ॥ ॐ ॥ ३९ ॥ सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः । ( ३ ) ब्रह्मतर्के च । नामादिप्राणपर्यन्तात् यो हि सत्यादिरूपवान् । तस्मै नमो भगवते विष्णवे सर्वजिष्णवे ॥ इति ॥ ‘ सत्यं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा ’ ( ) इत्या- दिश्रुत्यन्तरानुरोधेन सत्यादनन्तरं कृतिर्निष्ठेति क्रमेण निर्देशात् । त- त्त्वप्रदीपे तु लक्ष्मीरपि सत्यादिगुणकत्वात्सत्यादिपदैरुच्यते । तथा च तद्विवक्षया सैवेति स्त्रीलिङ्गशब्दप्रयोग इत्युक्तम् । तथा स्त्रीलिङ्गो- क्त्या कृतिर्निष्ठेत्यादिशब्दवाच्यत्वं विष्णोरुचितमिति चोक्तम् ॥ ( २ ) पूर्वपक्षं प्रतिषेधति—नेति ॥ न प्राणादधिकाः बहव इति यु- क्तमित्यर्थः । तत्त्वप्रदीपदिशा तु न तु परमात्मनोऽपि बहव उत्तमाः श- ङ्कया इत्यर्थः । एवं प्रतिज्ञां बहिरैव प्रदर्श्य कुतो नेत्यतः तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—सैवेति । ‘ हि ’ यस्मात्सत्यादयोऽहङ्कारान्ताः ‘ सा ’ अक्षरशब्देन प्रकृता ईश्वराख्या परदेवतैव, न तु ततो भिन्नाः तस्मादित्यर्थः । तस्या एवेति । अक्षरशब्देन प्रकृताया एवेत्यर्थः । स- त्यादयः आत्मान्ताः सा परदेवतैवेति व्याख्यातव्ये सत्यादयो गुणाः तस्या एव स्वरूपभूता इति व्याख्यानं सत्यादिशब्दवाच्यानां भेदनि- राकरणेन अभेदसाधनार्थम् । अनेन कथमभेदसिद्धिरिति चेदित्थम्— ‘ सत्यं भगवो विजिज्ञासे ’ ( छा. ७-१६. ) इति नारदस्य सत्याख्यस्य विष्णोः गुणजिज्ञासायां सनत्कुमारेण ‘ यदा वै विजानात्यथ सत्यं व- दति नाविजानन् सत्यं वदति ’ ( छा. ७-१७. ) इति वाक्यशेषेण सत्या- ख्यविष्णुगुणत्वेन तदविनाभूतज्ञानस्योक्तत्वात्, तथोत्तरत्रापि तत्तद्गु- णजिज्ञासायां तत्तदविनाभूतसत्यादीनामेवोक्तत्वादभेदसिद्धेः । अन्य- था सत्यादिजिज्ञासायां विज्ञानादिकथनस्यासङ्गतत्वापातात् ॥ ( ३ ) गुणतद्युक्तिसिद्धाभेदरूपार्थं हिशब्दसूचितां स्मृतिं चाह— ब्रह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । यो नामादिप्राणपर्यन्तात् अधिकारिजातात् ‘ अधि ’ उपरि ‘ सत्यादिरूपवान् ’ सत्यादिशब्दवा- च्यगुणवानुक्तः, गुणस्वरूपतयोक्तः, तस्मै भगवते ‘ सर्वजिष्णवे ’ स- र्वजननशीलाय विष्णवे नम इत्यन्वयः । ‘ नामादिप्राणपर्यन्ताद्यो हि