भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 914, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 914

[ अधि - २३. सू - ३९. ] दीपिकासहितम्. ८६७ (४) उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः ॥ इति बृहत्तन्त्रं ॥ ३८ ॥ —— २३. अधिकरणम् ॥ ( १) कृतिर्निष्ठा विज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेत्— (४) उक्तार्थे हिशब्दसूचितं स्मृतिं चाह---उत्तमत्वमिति ॥ 'दे- वानां' नामादिदेवानां 'मानवात्' मनुष्योत्तमादिति । उपलक्षणम् । मुक्तावप्युत्तमत्वमस्ति किमु संसारे इत्यर्थः । 'तेभ्यो' देवेभ्यः 'प्रा- णस्य' मुख्यवायोः 'तस्मात्' प्राणात् । चस्त्वर्थे । नित्यमुक्तस्येति हेतुगर्भम् । हरेरुत्तमत्वमिति सम्बन्धः । बृहत्तन्त्र इत्यस्योक्तमिति पूर्वे वाक्येनान्वयः ॥ २२ ॥ ॥ इति व्यतिहाराधिकरणम् ॥ —— २३. अधिकरणम् ॥ (१) अत्राधिकरणे प्राणाद्विष्णोरेवोत्तमत्वं साध्यते । पूर्वपक्षय- ति—कृतिरिति ॥ बहव इत्यनन्तरं अपीति, इत्यादीनामित्यनन्तरं उक्त- त्वादिति च शेषः । तथा च न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्त- मः , किन्तु बहवोऽप्युत्तमास्सन्ति । कुतः ? कृतिः निष्ठा ज्ञानमित्यादि- शब्दवाच्यानां बहूनां सत्यादुपर्युक्तत्वादित्यर्थः । आदिपदेन सत्यं वि- ज्ञानं मतिः श्रद्धा सुखं भूमा अहङ्कारः आत्मेति शब्दवाच्या गृह्यन्ते । ननु विज्ञानादीनां सत्येनान्योन्यं चाभेदान्न बहूनामुत्तमत्वं, किन्त्वेक- स्यैवेत्यत आह—भेदादिति । सत्येनान्योन्यं चेति शेषः । बहव इति । प्राणादुत्तमा बहव एव स्युः, न त्वेकः सत्यपदोदितो विष्णुरित्यर्थः । तत्त्वप्रदीपे तु सत्यस्य परमात्मत्वे सत्यादीनां भेदात्परमात्मनोऽपि बहव उत्तमाः स्युरिति पूर्वपक्षो दर्शितः । यद्यपि छान्दोग्ये सत्यादन- न्तरं विज्ञानं मतिः श्रद्धा निष्ठा कृतिः सुखं भूमा अहङ्कार आत्मेति क्र- मो, न तु कृत्यादित्वेन । तथाऽपि सूत्रे अक्षरस्य प्रकृतत्वात् तदिति व- क्तव्ये श्रुतिस्थकृत्यादिशब्दानुसारेण सेति स्त्रीलिङ्गनिर्देशात्तदनुसारे- णात्र कृत्यादित्वेनोक्तिः । न चैवं मत्यादित्वेनोक्तिस्स्यादिति वाच्यम् ।