भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 92, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 92

[ अधि - १. सू - १. ] दीपिकासहितम्. ४५ ( १०० ) वेदे रामायणे चैव पुराणे भारते तथा । ( १०१ ) आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते ॥ ( १०२ ) इति हरिवंशेषु । न चेतरग्रन्थविरोधः, ( १०३ ) एष मोहं सृजाम्याशु यो जनान्मोहयिष्यति । धकैः 'श्रुतयो' “विश्वाधिको रुद्रः” (महाना. १०-३.) इत्याद्यागमाः रुद्रादिपदानां विष्णुवाचित्वमाश्रित्य वा, विश्वो वायुः अधिको यस्मा द्विश्वाधिक इत्यर्थाश्रयणेन वा 'एतमेव' विष्णुमेव 'वदन्ति' तात्पर्यतः प्राधान्येन बोधयन्ति इत्यवगम्यते । अतो न “विश्वाधिकः” इत्या दिश्रुतिविरोध इति योजना ॥ ( १०० ) श्रुतीनां विष्ण्वेकवाचित्वे स्मृतिं चाह—'वेदे' इति । विष्णुरेव 'वेदे रामायणे च पुराणे तथा भारते' ॥ ( १०१ ) किं बहुना 'सर्वत्र' सर्वग्रन्थेषु 'गीयते' प्रतिपाद्यते । ते ष्वपि न भागे, किन्त्वादौ मध्ये अन्ते च, कर्मादिकाण्डत्रयेऽपि, उपक्रमोपसंहारयोरवान्तरप्रकरणेषु च, सर्वत्र प्रतिवाक्यं प्रतिपदं प्रत्यक्षरं च मुख्यतः प्रतिपाद्यत इत्यर्थः ॥ ( १०२ ) 'वेद' इति वचनस्य खिलाखिलपारिजाताख्यहरिवंश भागत्रयगतत्वसूचनाय 'हरिवंशेषु' इति बहुवचनम् । हरिवंशेष्वि त्यनन्तरं 'यदुक्तं' इति शेषः, तस्यातो न विरोध इति, हरिवंशेषू क्तन्यायेन उक्तरीत्या इति वाऽन्वयः । ननु प्रमाणविरोधाभावोऽसि द्धः, यतः श्रुतिविरोधाभावेऽप्यस्ति पाशुपतादिशास्त्रविरोधः, तत्र रुद्रादीनां सर्वोत्तमत्वस्य सर्वकारणत्वस्य चोक्तेः इत्यत आह— 'न च' इति । चोऽप्यर्थः । न केवलं श्रुतिविरोधाभावः, अपितर्हीतर विरोधोऽपि नेति । 'अस्यार्थस्य' इति वर्तते ॥ ( १०३ ) कुत इत्यतः तेषां मोहार्थं कृतत्वादिति हेत्वध्याहारमभि प्रेत्य तस्यासिद्धिं प्रमाणोदाहरणेन निराह—'एष' इति । रुद्रं प्रति विष्णुवाक्यमेतत् । मुह्यतेऽनेन जन इति 'मोहो' नटनं वञ्चनं वा । 'मोहो' मोहकारणमनादिकर्मवासनारूपमिति तत्त्वप्रदीपोक्तेरप्यय मेवार्थः, मोहकशास्त्रमिति व्यासतीर्थीयोक्तेः । न च अस्य 'न मोह शास्त्रस्य वक्ता विष्णुराशङ्क्यः, “अजस्यावक्रचेतसः” (क.उ.५-१०.) इति हि श्रुतिः' इति तत्त्वप्रदीपविरोधः शङ्क्यः, असत्तामित्यभिप्राया