पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 91, कुल 1267 में से
संदर्भ में पढ़ें४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (९८) उग्रो रुद्रः, समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सू [ चितत्वाच्चास्यार्थस्य । (९९) न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तन्यायेन [ च श्रुतय एतमेव वदन्ति । (९८) नन्वत्र समुद्रस्थो रुद्रः किं न स्यात् 'तप्यमानाय सलिले' इति भारतेोक्तेः । न च रमाधीनतोक्तिविरोधः, उ ग्रशब्देन कस्य चित्क्रूरस्य ग्रहणसम्भवादित्यत आह—'उग्र' इति । भवेदित्युभयत्र शेषः । तथा च—अत्रोग्र इत्युक्तो रुद्र एव भवेत्, तथा समुद्रेऽन्तस्स्थितो नारायण एव भवेत्, इति प्रतिज्ञावाक्यद्वया र्थः । तत्र हेतुमाह—'प्रसिद्धत्वात्' इति । 'अस्यार्थस्य' रुद्रे उग्रशब्दवाच्यत्वरूपार्थस्य 'प्रसिद्धत्वात्', “उग्रः कपर्दी” इत्या दिकोशप्रसिद्धत्वात्, उग्रशब्देन रुद्रशब्दार्थस्य क्रौर्यस्य ज्ञापितत्वा च्चेत्यर्थः । रुद्रो रौद्र उग्र इत्येतेषामेकार्थत्वादिति भावः । एवं समुद्र शायित्वरूपार्थस्य “महोदधिशयोऽन्तः” इत्यादिविष्णुसहस्रनामप्र सिद्धत्वात् समुद्रेऽन्तःस्थत्वकथनेन “आपो नाराः” इति स्मृतिसि द्धनारशब्दोदितोदकाश्रयत्वरूपनारायणशब्दार्थस्य 'सूचितत्वाच्च' इत्यर्थः ॥ (९९) ननु प्रसिद्धादिसद्भावेऽपि तत्परित्यागेनान्यस्वीकारे किं बाधकमित्यत आह—'न च' इति । अर्थस्येत्येतद्विपरिणामेनात्र स म्बध्यते । तथा च चो यतोऽयमर्थः 'प्रसिद्धः' अतो 'अविरोधे' प्रमाण विरोधाभावे 'न परित्यज्यते' न त्यज्यत इत्यर्थः, प्रसिद्धार्थस्य विरो धैकापोद्यत्वात्, अन्यथा प्रसिद्धिबाधादिति भावः । “आकाशादेव समुत्पद्यन्ते” (छां.उ.१-९-१.) “जनितोत विष्णोः” (ऋ.सं.९-९६-५.) “नकिरिन्द्र त्वदुत्तरः” (ऋ.४-३०-१.) इत्यादौ व्यभिचारवारणाया विरोध इति । ननु विरोधाभावोऽसिद्धः, यतोऽत्र यदि रुद्रो लक्ष्म्यधी नतयोग्रपदेनोच्यते तर्हि “विश्वाधिको रुद्रः” इत्यादिश्रुतिविरोधः स्यात् अतोऽत्र तत्परित्यागो युक्त इत्यत आह—'उक्त' इति । करणव्यु त्पत्त्या न्यायः प्रमाणम् । तथा च-यतो “नामानि विश्वा” (भालुवेयश्रु तिः) इत्याद्युक्तागमेन, तदुक्तोत्पत्तिमत्प्रवृत्तिनिमित्तमत्त्वाद्यनुमानेन, चशब्दसमुचितैः “वेदे रामायणे चैव” इति वक्ष्यमाणप्रमाणैश्च सा