भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 929, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 929

८८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] वचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रसाद एव बलवान् । तः । अथोपकोसलः स्वगुरोराज्ञानुसारेण बहुवर्षगणं गार्हपत्यादीन् त्रीन् परिचचार । अथ ते तुष्टाः 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' (छा. ४-१०.) इत्यादिना सम्भूय प्रत्येकं च ब्रह्मविद्यामुपदिदिशुः । तेभ्यः श्रुतविद्योऽप्युपकोसलः 'आचार्यस्तु ते गतिं वक्ता' (छा. ४-१४.) इति तैरुपदिष्टो गुरुमार्थयत । गुरुरपि सत्यकामस्तं प्रति 'य एषोऽ न्तरक्षिणि पुरुषो दृश्यते' (छा. ४-१५.) इत्यादिना विद्यामुवाचेति श्रवणादेरेव प्राबल्येन तेन गुरुः प्रार्थ्येत, गुरुणा च नोच्येत, अतो ज्ञायते गुरुप्रदानं बलवदिति । यद्यपि छान्दोग्ये 'किन्नु सोम्य तेऽनु वोचन्' (छा.४-१४.) इति सत्यकामेन पृष्टः उपकोसलः 'इति ह प्र तिजज्ञे' (छा.४-१४.) अग्निभिरुक्तं विज्ञापयांचक्रे इत्येवोच्यते, न तु तेन विद्योपदेशाय गुरुरर्थ्यते इति । प्रत्युत 'लोकान्वाव किल सोम्यतेऽब्रुवन्नहं तु वक्ष्यामि' (छा.४-१४.) इत्यनेन स्वयमेवोप दिष्टवानिति प्रतीयते । तथाऽपि 'इति ह प्रतिजज्ञे' इत्यनेना ग्निभिरुक्तस्य 'आचार्यस्तु ते गतिं वक्ता' (छा.४-१४.) इत्यस्या पि विज्ञापितत्वात्तदेव प्रार्थनाज्ञापकमिति भावः । 'वचनात्' अभ्यनुज्ञानात् । वचनाच्च लिङ्गभूयस्त्वादिति सामानाधिकरण्य म् । तथा च सत्यकामप्रार्थनगौतमानुज्ञोपकोसलप्रार्थनसत्यकामव चनात्मकात् बहुलिङ्गादित्यर्थः । एवं हेतुं व्याख्याय तद्वलीय इति प्र तिज्ञांशं व्याचष्टे—गुर्विति । 'बलवत्' प्रवलं स्वप्रयत्नादिति शेषः । एवेति सूत्रेऽनुवृत्तपदानुवादः । न श्रवणादित्येवार्थः । यद्यपि तत्र गु रुप्रसादमात्रं बलवदिति प्रतिज्ञातव्यम् । प्रसादप्राबल्यस्यैवेह वि चार्यत्वात् । न तु प्रसादपूर्वकगुरूपदेशात्मकप्रदानपर्यन्तधावनम् । तथाऽपि 'सविशेषणे हि' इति न्यायेन गुरुप्रसादप्राबल्य एव तात्प र्यान्न दोषः । न च सूत्रे बलीय इति बलप्रकर्ष एवोक्तः, न तु बलवत्त्व मिति वाच्यम् । प्रदानं न श्रवणादितो दुर्बलं नापि तद्वत् बलवत्, किन्तु बलीयः बलवत्तरमिति ज्ञानाय प्रयुक्तस्य बलीयःपदस्य बल वत्तरमिति स्मृत्यनुसारेण तथैव व्याख्येयत्वात् । सूत्रे स्मृत्यनुसारेण अर्शआद्यजन्तात् इन्मन्ताद्वा प्रत्ययमाश्रित्य बलवदिति व्याख्यातमि त्यदोषः । तर्हि स्मृताविव प्रसादापेक्षया अन्यद्वलवत्साधनं व्युद सितुं बलवत्तरमिति प्रतिज्ञातव्यमिति वाच्यम् । बलवदित्यस्य श्रवणा