भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 928, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 928

[ अधि - २७. सू - ४५. ] दीपिकासहितम्. ८८१ भगवद्दृशेभ्य आचार्य्याद्धैव विद्या विदिता साधिष्ठं प्रापयति' (छा. ४-९-३.) इति वचनात् । ( २ ) 'अत्र ह न किञ्चन वीयाय' इत्यनुज्ञानादुपकोसलव त्य ब्रह्मविद्यामुपदिदिशुः । अथ तैः ब्रह्मविद्यां श्रुत्वा स्वाचार्यकुलं पुनः प्राप्तोऽथाचार्येण गौतमेन हे सत्यकाम त्वं ब्रह्मविदिव भासि को नु त्वामनुशशास देवो वा मनुष्यो वेत्युक्तो मनुष्येभ्योऽन्य देवा इति 'प्रतिजज्ञे' विज्ञापयांचक्रे । अथ गौतममुपदेशाय प्रार्थयत । किमि ति ? यद्यपि देवेभ्यो मया श्रुतं ब्रह्म, तथाऽपि भगवानेव तु 'मे' मम 'कामे' तादर्थ्ये सप्तमी, शुभार्थं 'ब्रूयात्' ब्रवीतु । कुतः ? 'हि' य तो 'भगवद्दृशेभ्यो' भगवत्समेभ्य एव 'मे' मया श्रुतम्, न त्वाचा र्यात् अतो हेतोः । न च यस्मात्कस्माच्चित् श्रवणेनालमिति शङ्क्यम् । यतः उपनयनादिकर्तुराचार्यादाराधितादेव 'विदिता' लब्धा विद्या 'साधिष्ठं' भावप्रधानोऽयं, साधुतमत्वं स्थिरत्वं वा 'प्रापयति' स्वा र्थे णिच्, प्राप्नोति । कचिद्भवतीति पाठः, तदा भवतेः प्राप्त्यर्थता ज्ञे या । न च देवा मे आचार्याः, तेषामाचार्यतया मयाऽनङ्गीकृतत्वाद्वि ति भावः । प्रापयतीत्यनन्तरं श्रुताविति शब्दोऽस्ति, तस्य इति प्रतिज ज्ञे इत्यन्वयः । अयं तु भाष्यकारीयः । इति वचनादित्यस्योत्तरत्रा- न्वयः ॥ ( २ ) लिङ्गान्तरं दर्शयति—अत्रेति ॥ 'अत्र' ऋषभादिदेवेभ्यः श्रवणे तन्निमित्तं किञ्चन 'न वीयाय' नापगतं न ते काचिद्धानिरप राधोऽभूदिति गौतमः सत्यकामायोवाचेत्यर्थः । हेत्यास्वादने । इत्यनु ज्ञानादिति । इत्येवं गौतमेन गुरुणा देवोपदिष्टस्य स्वाभिमतिसूचक शब्दोक्तिरूपानुज्ञाकरणादित्यर्थः । स्वप्रदानस्याप्राबल्येऽनुज्ञावैयर्थ्या दिति भावः । लिङ्गान्तरं दर्शयति—उपकोसलवचनाच्चेति । उपकोस