पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 935, कुल 1267 में से
संदर्भ में पढ़ें९८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( २) सू—ॐ ॥ दर्शनाच्च ॥ ॐ ॥ ४९ ॥ न केवलं विद्यया, किं तु अपरोक्षज्ञानेन च । 'सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण' इति कौशिकश्रुतेः ॥ ४९ ॥ :—*—: ३०. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ श्रुत्यादिवलीयस्त्वाच्च न बाधः ॥ ॐ ॥ ५० ॥ श्रुतौ अन्यस्य मोक्षसाधनत्वनिवारणादित्यर्थः । यद्वा—निर्णायकव चनादित्यर्थः । सूत्रे मोक्षसाधनमिति शेषः कार्य इति भावेन विद्यैवे त्येतत्तात्पर्यतो व्याचष्टे—विद्ययैवेति । 'मोक्षः' संसारनिवृत्तिरूपः । भवतीति शेषः। भवति यतोऽतो नेत्यन्वयः। सूत्रे 'नान्यःपन्थाः' इत्येवा र्थश्रुत्यनुसारेण प्रथमाप्रयोगेऽपि विद्ययैवेति तृतीयाप्रयोगेन 'कर्मणैव' इत्यादिवचनात्सावधारणविद्यावचनस्य प्राबल्यमुक्तं भवति । अनेन सौत्रतुशब्दः प्राबल्यार्थतया व्याख्यातः । कर्मवचनानां गतिस्तु भाक्त नये एव प्रतिपादिता । प्रतिपादयिष्यते चोत्तरत्र ॥ ( २ ) ननु यदि विद्या मोक्षसाधनं तर्हि ध्यानवैयर्थ्यं, ज्ञानरूपा याः विद्यायाः श्रवणादेव सम्भवादित्याशङ्कां परिहरत्सूत्रं पठति—द र्शनाच्चेति ॥ अत्र चशब्दः समुच्चये अप्यर्थेः । मोक्ष इति शेष इति भा वेन सूत्रं व्याचष्टे—नेति । 'विद्यया' परोक्षज्ञप्त्या । सौत्रदर्शनपदा र्थमाह—अपरोक्षज्ञानेनेति । मोक्ष इति वर्तते । तथा च दर्शनार्थं ध्या नमावश्यकमिति भावः । नन्वेवं 'विद्वान्' इति परोक्षविद्यया मोक्ष श्रवणात्कथमुच्यते दर्शनान्मोक्ष इति, तत्राह—सर्वानिति । विशेषश्रु तिबलात्साऽपि दर्शनार्थेति भावः । अयं 'परः' सर्वोत्तमः हरिः 'स र्वान्' जीवान् 'मायया' स्वेच्छया प्रकृत्या च यतः 'सिनीते' बध्ना ति अतः 'तं' यथायोग्यं दृष्ट्वैव मुच्यते बन्धात, नान्येन परोक्षज्ञानमा त्रेण नान्यपुरुषदर्शनेन, अन्यस्य बन्धमोचनशक्तस्याभावादिति वा श्रु त्यर्थः । श्रुतेरित्यनेन न केवलं ब्रह्मदर्शनादित्यर्थः, किन्तु श्रुतेरित्यप्य र्थ इत्युक्तं भवति ॥ २९ ॥ ॥ इति विद्याधिकरणम् ॥ — * — ३०. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे यत्साधनं भगवदुपास्तिः तस्य ज्ञानस्य