भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 939, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 939

८९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ३ ) भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् । दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः ॥ तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत् ॥ इति च नारायणतन्त्रे ॥ ५१ ॥ ३२. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ॐ ॥ ५२ ॥ उपासनाभेदवत्तद्दर्शनभेदः । वाच्यम् । यतोऽनादिसिद्धाव्यक्तभक्त्यादिना गुरुप्रसादः तेन भक्त्या- द्यभिव्यक्तिः अभिव्यक्त्यादिना च ज्ञानमित्यभ्युपगम्यते ॥ ( ३ ) भक्त्यादिगुणपूगत इत्यत्रादिशब्दोक्तं तस्मादिति सामान्ये- नोक्तं च स्पष्टयति—भक्तिरिति ॥ विष्णौ गुरौ च स्वरूपभूतानादि- सिद्धा या भक्तिः यश्च शमदमादिस्तत्सर्वं गुरोर्नित्यप्रसन्नतां दद्यात्। तेन गुरुप्रसादेन च पुनरेते भक्त्यादिगुणाः व्यक्ता भवन्ति । व्यक्तै- स्सर्वैस्तैर्भक्त्यादिभिः विष्णोर्दर्शनं भवेत् । न चैतावता श्रवणादिवै- यर्थ्यमित्याह—श्रवणादिकृतमिति । दर्शनं श्रवणादिभिः साधनैश्च कृ- तं भवति । 'तस्मादेव च तद्भवेदिति' इति प्रथमेतिशब्दस्य 'श्रव- णादिकृतं भवेदिति' इति द्वितीयेतिशब्दस्य च इति नारायणतन्त्र इ- त्यनेनान्वयः । सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३१ ॥ ॥ इति अनुबन्धाधिकरणम् ॥ * ३२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते । 'दृष्ट्वैव तम्' ( कौशिक. ) इति श्रुतावविशेषितज्ञानेनैव मोक्षोक्तेः सर्वेषां ज्ञानमेकप्रकारमेवेति पूर्वपक्षे सिद्धान्तयितुं सूत्रं प्रवृत्तं-प्रज्ञान्तरेति ॥ अत्र प्रज्ञान्तरपृथक्त्ववदित्यनेन दृष्टान्तोक्तिमुखेन हेतुरुच्यत इत्याशये- न तत्पदं व्याचष्टे—उपासनेति। चशब्दोऽवधारणे, पृथगित्यस्यानुकर्ष- णार्थश्चेति भावेन दृष्टिश्चेति साध्यांशं व्याचष्टे—दर्शनभेद इति। अने- न प्रज्ञान्तरं प्रज्ञाविशेषः लिङ्गशब्दजन्याविच्छिन्नपरोक्षज्ञानसन्ततिरू- पध्यानं तस्य पृथक्त्ववत् भेदवदनेकप्रकारवत्त्ववत् तदनुसारेण 'दृ- ष्टिः' ब्रह्मदर्शनं च पृथक् भिन्नमनेकप्रकारमेव, फलस्य साधनानुसा