पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 940, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३२. सू - ५२. ] दीपिकासहितम्. ८९३ (२) तथोक्तं कमठश्रुतौ । 'अन्तर्दृष्टयो बहिर्दृष्टयोऽवतार- दृष्टयस्सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चो- त्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते' इति । रित्वादिति सूत्रखण्डार्थ उक्तो भवति । न च ध्यानस्य परोक्षज्ञानस- न्ततिरूपत्वं ' मानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानम् ' इति सुधाविरोधः, ' क्रियामानसत्वात् ' इति क्रियात्वविरोधश्चेति श- ङ्क्यम् । परमात्मविषये परोक्षत्वेऽपि तदधिष्ठानभूतवासनामयरूपवि- षये अपरोक्षत्वसम्भवात् । न च परमात्मांऽशे उपनीतभानरूपत्वान्न प- रोक्षत्वमिति वाच्यम् । उपनीतांशेऽपि लौकिकापरोक्षप्रत्यासत्त्यज- न्यत्वेन श्रवणादिरूपपरोक्षज्ञानोपनीतविषयत्वेन वा परोक्षत्वाभ्युपग- मात् । केचित्तु — गुणादिध्यानमप्यत्र विवक्षितमिति तदंशे परोक्षत्वं युक्तमित्याहुः । तन्न, तस्यापि स्मृतिरूपस्य मनोजन्यत्वेन परोक्षत्वानु- पपत्तेः । ध्यायत्यर्थत्वेन क्रियार्थत्वसम्भवाच्च तद्विरोधः ॥ (२) ननु साधनपृथक्त्वेऽपि साध्यपृथक्त्वं मा स्तु, साध्यसाम्य- मेव किं न स्यादित्यतस्तदुक्तमित्युक्तं सूत्रे, तद्व्याचष्टे ॥ तथोक्तमि- ति ॥ चो भिन्नक्रमः । अनेन सूत्रे चशब्दः उक्तं चेत्यपि संयोज्यः । त- था च न केवलं तद्दर्शनपृथक्त्वं साधनपृथक्त्वयुक्तिसिद्धम्, किन्तु श्रुत्युक्तं चेति सूत्रखण्डार्थ उक्तो भवति । केचित् शरीरान्तर्ब्रह्मोपास- काः, अत एव तत्र ब्रह्मदर्शिनः । केचित् बहिरप्रथाद्यधिष्ठाने ब्रह्मोपा- सकाः, तत्रैव तद्दर्शिनश्च । केचित् अवतारोपासकाः, अत एव दिव्य- दृष्ट्या रामकृष्णाद्यवतारदर्शिनः । केचित् व्याप्तोपासकाः, तत एव 'सर्वदृष्टयो' व्याप्तदर्शिनः । यद्यपि सर्वेषामन्तर्बिम्बदर्शनमपेक्षितमे- व, तस्य मोक्षार्थत्वादिति सुधोक्तेः । तथाऽपि प्राचुर्यापेक्षया एवमु- क्तिः । उपासात्रैविध्योक्तिरपि प्राचुर्यापेक्षयैव । अन्यथा एषां बहिरु- पासनेन मोक्षः तेषां हृद्युपासनं किञ्चित्कार्यमेवेति बृहद्भाष्यविरोधापा- तात् । भावबोधे तु केचिदधिकारिणोऽवताराणां दिव्यदृष्ट्या दर्शनेनै- व मुच्यन्ते, न तेषामन्तरुपास्तिरावश्यकी, बृहद्भाष्यं तु अवतारदृष्टि- विशेषार्थमेवान्तरोपास्यावश्यकतापरं, अत एव ' अञ्जसा दृष्ट्यैव ह्यवताराणाम् ' इत्युक्तम् । इतीति । श्रुतिः व्याख्यातपदानि स्वयमेव