भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 941, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 941

८९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] ( ३ ) अध्यात्मे च — दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा । दर्शनेनान्तरेणान्ये देवास्सर्वत्र दर्शनात् ॥ प्रतीकत्वेन गृह्णाति । तत्र प्राधान्यक्रमानुसारेण व्याप्तदृष्टीन् प्रथमतः निर्दिशति—देवा इति । 'तेषु' देवेष्वपि 'आब्रह्मणः' चतुर्मुखपर्य न्तं 'उत्तरोत्तरं' अधिकं व्याप्तदर्शित्वं ज्ञेयमित्यर्थः । तत्प्रकारश्च 'ब्र ह्मा तु सर्वगं पश्येत्' इत्यादिनोक्तः । अवतारादिदर्शिनः के ? तेषां च कथं स्थितिरित्याशङ्कायामाह—अन्येष्विति । अवतारादिदर्शिष्वि त्यर्थः । 'यथायोगं' योग्यतानुसारेण व्यक्तिविशेषो निर्णेतव्य इति शे षः । यद्वा—अन्येष्वपि यथायोगं उत्तरोत्तरमाधिक्यं ज्ञातव्यमित्यर्थः । ननु योग्यतैव कथं ज्ञायत इत्यत आह—यथेति । 'आचार्याः' गुरवो यथा 'आचक्षते' उपदिशन्ति त्वमेतद्रूपदर्शनयोग्यस्त्वमेतद्रूपदर्श नयोग्य इति तथेत्यर्थः ॥ ( ३ ) ननु यद्यस्ति दर्शनभेदः, तर्हि न सर्वेषां मोक्षस्स्यात्, स म्पूर्णज्ञानेनैव मोक्षस्य 'तमेवं, दृष्ट्वा' इत्यादौ प्रमितत्वादित्यतस्तदु त्तरत्वेनापि तदुक्तमित्येतद्व्याचष्टे—अध्यात्मे चेति । अध्यात्माख्यग्र न्थेपि तद्दर्शनपृथक्त्वमुक्तमित्यर्थः । तद्वाक्यं पठति—दृष्ट्वेति । दि व्यदृष्ट्येत्यर्थः । प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति । तदैव मुच्यते योगी ॥ इति काठकभाष्योक्तेः । तथा च केचिन्मनुष्याः 'अवताराणां' रामकृष्णदिरूपाणां 'अञ्जसा दृ ष्ट्वा' दिव्यदृष्ट्यादर्शनेनैव मुच्यन्ते इत्यर्थः । एवकारस्त्वयोग्यव्यवच्छे दकः । भावबोधपक्षेऽधिकारिविशेषापेक्षयाऽन्ययोग्यव्यवच्छेदकः । के चित् ऋषयः 'आन्तरेण' हृदयान्तर्जातेन दर्शनेन मुच्यन्ते । सर्वत्र स्थि तस्य ब्रह्मणो दर्शनाद्देवा मुच्यन्त इत्यर्थः । 'तेषां' अधिकारिणाम् । य द्वा-'तेषां' देवानां 'विशेषं' तारतम्यं योग्यताविशेषं वा सर्वज्ञतां 'ग तः' प्राप्त आचार्यो 'वेत्ति' जानातीत्यर्थः। अनेन 'विद्वान्, दृष्ट्वैव' इत्यादेः न सम्पूर्णतो जानन् दृष्ट्वैवेत्यर्थः, किन्तुदाहृतविशेषवाक्यब लाद्यथायोग्यमित्यभ्युपगमात् न तद्विरोध इत्युक्तं भवति । 'यावान्' इति वाक्यं चतुर्मुखविषयं सामान्यतः सार्वज्ञद्यविवक्षया सर्वधिपर्य