पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 942, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३३. सू - ५३. ] दीपिकासहितम्. ८९५ तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः ॥ इति ॥ ५२ ॥ —::— ३३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ न सामान्यादप्युपलब्धेर्मृत्यवन्न हि लोका पत्तिः ॥ ॐ ॥ ५३ ॥ येति ध्येयम् । इतीत्यस्याध्यात्म इत्यनेनान्वयः ॥ ३२ ॥ ॥ इति प्रज्ञान्तराधिकरणम् ॥ —— ३३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे उपासनस्य बिम्बशब्दितयोग्यात्मरूपविषय कस्यैव मुक्तिसाधनत्वं समर्थ्यते । भगवतस्सर्वरूपेष्वपि मोक्षदातृ त्वगुणसाम्यात् यत्किञ्चिद्रूपदर्शनमेव मोक्षसाधनं न बिम्बविषयमेवे ति नियम इति प्राप्ते सिद्धान्तयितुं प्रवृत्तं सूत्रं—न सामान्यादिति ॥ अत्र ' सामान्यात् ' साधारणात् उपलब्धेरिति सामानाधिकरण्यम् । लिङ्गव्यत्ययः शब्दस्वभावकृतः । यद्यपितथाऽपीत्यर्थे मात्रार्थे चापिश ब्दः । उपलब्धेरपीत्यन्वीयते । मुक्तिरिति प्रकृतत्वात्सम्बध्यते । तथा च यद्यपि भगवद्रूपाणां सामान्यं साम्यं, अत एव तद्विषयकदर्शनाना मपि समानत्वम् । तथाऽपि ' सामान्यायाः ' समानब्रह्मरूपविषयत्वेन स्वयोग्यरूपदर्शनेन समानतया वर्तमानायाः उपलब्धेरपि यत्किञ्चि द्रूपदर्शनमात्रात् तस्मादेव सर्वेषां न मुक्तिरित्यर्थः । यद्वा—उपल ब्धेः दर्शनस्य साम्यात् साधारणविषयत्वात् न तस्या मुक्तिरित्यर्थः। अथवा-ल्यब्लोपनिमित्ता पञ्चमीयम् । तथा च सामान्यमपेक्ष्य रूपसा मान्यं विषयीकृत्य सत्या उपलब्धेः दर्शनान्न मुक्तिरित्यर्थः । एतत्क ल्पद्वये सामान्यादुपलब्धेरिति वैयधिकरण्यमिति भावेन सामान्याद प्युपलब्धेरिति प्रतिज्ञांशं व्याचष्टे-नेति । अपि तु स्वयोग्यात्मदर्शनादे वेति शेषः । तेनापीत्यस्यापि त्वित्यर्थाश्रयणेन उपलब्धेरित्यस्यावृत्त्या च अपि तु उप समीपे योग्यतया वर्तमानस्य बिम्बरूपस्य लब्धेर्दर्श नादेवेति सूत्रे प्रतिज्ञाशेषः प्रदर्शितो भवति । कुतो नेत्यतः तत्रोपल ब्धेः सामान्यात् साधारणत्वादिति हेतुं उपलब्धेरित्यनेनोक्तं मुक्त्यर्थमात्मयोग्यं तु विज्ञानं तदुदाहृतम् । समोऽपि भगवान् बिम्बदर्शनेनैवैनं मोचयति ॥ ( )