भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 943, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 943

८९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । ( २ ) न हि लोकापत्तिमात्रं मुक्तिः । ( ३ ) सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात् । इत्यादिश्रुतेरिति हेतुं मनसि निधाय सामान्यमात्रान्न मुक्तिरित्यत्र दृ- ष्टान्तप्रतिपादनायोक्तं मृत्युवदित्यंशं व्याख्याति—यथेति । मृत्युमात्रा- दिति । मृतिमात्रादित्यर्थः । न मुक्तिरित्यनुषज्यते । तथा च यथा ब्रह्म- ज्ञानिनां सर्वमृत्यौ मृतित्वसाम्येऽपि न ‘मृत्युमात्रात्’ साधारणमृतेर- नन्तरं मुक्तिः, किन्तु प्रारब्धकर्मक्षये चरममृत्यनन्तरमेव, तथा प्रकृते ऽपि रूपविशेषज्ञानादेव मुक्तिः, न साधारणादित्यर्थः । यद्वा—मृत्यु- शब्देन मारक उच्यते । संसृतेरिति शेषः । तथा च यथा ब्रह्मज्ञानिनां ज्ञाने संसारमृत्युत्वे समानेऽपि ज्ञानरूपमृत्युमात्रादनन्तरं न मुक्तिः, किन्तु प्रारब्धकर्मावसानकालीनत्वविशेषितान्मृत्योरवतरणानन्तरमे- व, एवं भगवद्रूपाणां साम्येऽपि रूपविशेषज्ञानमेव मोक्षसाधनं, न सा- मान्यदर्शनमित्यर्थः । ‘समोऽपि’ इति श्रुतौ बिम्बशब्दो योग्यात्मप- रः । न तु हृदिस्था या हरेर्मूर्तिः जीवो यत्प्रतिबिम्बकः । यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥ इत्युक्तहृद्गतरूपविशेषपरः । ‘दृष्ट्वैव’ इति वाक्यविरोधात् । जीवः कलांशो यस्यासौ जीवकला ॥ ( २ ) ननु यदि सामान्यदर्शनान्न मुक्तिः, तर्हि तद्वैफल्यं स्यात् । न च ब्रह्मदर्शनस्य तद्युक्तं, अतः सफलत्वेऽवश्यंभाविनि यत्तस्य फलं स एव मोक्ष इति सामान्यदर्शनमपि मुक्तिसाधनं भवतीत्यतः प्रवृत्तं- न हि लोकापत्तिरित्यंशं व्याचष्टे—न हीति ॥ ‘लोकापत्तिमात्रं’ मह- रादिलोकप्राप्तिरेवेत्यर्थः । अनेन लोकापत्तिरित्यनन्तरमप्यपिशब्दोऽनु- षञ्जनीयः । स चावधारणार्थमात्रार्थः । तथा च न सामान्यदर्शनस्य वैफल्यं शङ्क्यम् । यतः सामान्यादप्युपलब्धेर्लोकापत्तिः भवति अतः। न चैवं तस्य मोक्षसाधनत्वापत्तिः । ‘हि’ यतो न लोकापत्तिरेव मो- क्ष इति ‘हि’ प्रसिद्धमत इति सूत्रांशयोजनोक्ता भवति ॥ ( ३ ) ननु सामान्यदर्शनेन लोकापत्तिरेव न मुक्तिरिति कुत इत्य- तो हिशब्दसूचितप्रमाणमाह—सामान्येति ॥ योग्यात्मदर्शनातिरिक्त। वतारादिदर्शनादित्यर्थः । ‘लोकाः’ महरादयः । योग्येति । स्वयोग्य