भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 944, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 944

[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९७ इति नारायणतन्त्रे ॥ (४) मुच्यते नात्र सन्देहो दृष्ट्या तु स्वात्मयोग्यया । इति च । (५) दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केन चित् ॥ इति चाध्यात्मे ॥ ५३ ॥ ३४. अधिकरणम् ॥ (१) ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः परमात्मरूपदर्शनादित्यर्थः । भवन्तीति शेषः । नारायणतन्त्रे उक्तत्वा दिति शेषः । अस्य न हीत्यनेनान्वयः । न च ‘दृष्ट्वैव’ इत्युक्तिविरो धः । तस्याधिकारिविशेषविषयत्वात् अधिकारिविशेषाणां च अवता रदर्शनस्य सामान्यदर्शनत्वाभावात् , एवकारस्यायोगव्यवच्छेदार्था भ्युपगमाच्च ॥ (४) ननु यथा भगवद्दृष्टीनां मध्ये योग्यात्मदृष्टिरेव मुक्तिहेतुः, न तु रूपान्तरदृष्टिरिति विकल्पः, तथा योग्यात्मदर्शनेऽपि किञ्चिन्मुक्तिहे तुः किञ्चिन्नेति विकल्पः स्यादित्यत आह—मुच्यत इति । तुरेवार्थे । स्वात्मयोग्यया दृष्ट्या मुच्यत एव नात्र संशय इत्यर्थः । इति नाराय णतन्त्र इत्यन्वयः । भिन्नप्रकरणस्थत्वात् पुनरितिशब्दः ॥ (५) ननु सामान्यदर्शनेन यथा लोकापत्तिः तथा क्वचिन्मुक्तिश्च किं न स्यादित्यत आह—दर्शनेनेति ॥ ‘आत्मयोग्येन’ स्वयोग्यरूपवि षयकेन दर्शनेनैव मुक्तिः ‘नान्येन केन चित्’ सामान्यदर्शनादिनेत्य र्थः । अवतारदर्शनमपि केषांचित् स्वयोग्यमिति न तदत्र व्यावर्यमि ति न ‘दृष्ट्वैव’ इत्यनेन विरोधः । यद्वा—मुक्तिर्नान्येनेत्यनेन अवतारा दिदर्शनस्याव्यवधानेन मुक्तिसाधनत्वं निषिध्यते । ‘दृष्ट्वैव’ इत्यत्र तु व्यवधानेन तदुच्यते । अतो न विरोधः । यथोक्तं गीतातत्पर्ये । दृशिः-नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत् क्रमान्मुक्तिर्भवेत्तया ॥ इति ॥ इत्यध्यात्मे च सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३३ ॥ ॥ इति न सामान्याधिकरणम् ॥ —*— ३४. अधिकरणम् ॥ (१) अत्राधिकरणे ‘अनुबन्धादिभ्यः’ इत्यत्र दर्शनसाधनतयो ११३