पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 955, कुल 1267 में से
संदर्भ में पढ़ें९०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] इति गौपवनश्रुतिः ॥ ५९ ॥ —-::-— ३८. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ नाना शब्दादिभेदात् ॥ ॐ ॥ ६० ॥ शब्दोऽनुमा तथैवाक्षो योग्यताभेदतस्सदा । ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥ अतः पूर्णत्वमीशस्य नानैवैषां प्रदृश्यते । अतः फलस्य नानात्वं नानैवोपासना यतः ॥ त्यर्थोऽभिमतः । स च सूत्राक्षराणां बह्वर्थत्वाभिप्रायेण तट्टीकायामु क्तः ॥ ३७ ॥ ॥ इति भूमाधिकरणम् ॥ —— ३८. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽधिकारिणां भूमगुणस्य नानाप्रकारेण प्रती- तिः समर्थ्यते भूमत्वे विशेषकल्पनायोगाद्भूमगुणः सर्वेषामेकप्रकारे- णैव प्रतीयत इति प्राप्ते सिद्धान्तयितुं सूत्रं पठति—नानेति ॥ अत्र भू- म्न इत्येतत् प्रथमान्ततया विपरिणम्यानुवर्तते । नानेति भावप्रधानम्, नानात्वेनेति । उपास्यते इति शेषः । एवं च प्रतिज्ञावाक्यसिद्धौ तत्र हे- तुरुक्तः—शब्दादिभेदादिति । भूमगुणप्रत्यायकैः शब्दानुमाप्रत्यक्षप्र- माणैः अधिकारियोग्यताभेदात् भूम्नो नानारूपेण प्रतीतेरिति तदर्थ इति भावेन अस्मिन्नर्थे प्रमाणोदाहरणपूर्वकं सूत्रं व्याचष्टे—शब्देति । प्रथमं तत्त्वनिर्णयोऽथ वेदार्थनियमोऽथापरोक्षज्ञानमिति कार्यक्रमानु- सारेण स्मृतौ शब्दादीनां क्रमेण निर्देशः । एवं सूत्रेऽपि । शब्दः आग- मः । अक्षः प्रत्यक्षम् । तथाशब्दः समुच्चये । आहत्यैते 'योग्यताभेदा- त्' योग्यताविशेषात्सदा ब्रह्मादीनामेकैक मर्थं पूर्णत्वादिरूपं 'बहुधा' अवान्तरविशेषवत्त्वेन 'दर्शयन्ति' ज्ञापयन्ति 'हि' यतोऽतः 'एषां' ब्रह्मादीनामीशस्य पूर्णत्वं नानैव 'प्रदृश्यते' प्रतीयते उपासनकाले । यतः नानाप्रदृश्यतेऽतो नानाप्रकारेणैव पूर्णत्वोपासनं भवेत् । यतो ना- नोपासनमतः फलस्य 'नानात्वं' तारतम्यमुपपद्यत इति योजना । न चोपास्यभूमत्वप्रतीतेः शब्दानुमानसाध्यत्वेऽपि कथं प्रत्यक्षसाध्य