भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 954, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 954

[ अधि - ३७. सू - ५९. ] दीपिकासहितम्. ९०७ ( २ ) भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये वि- शिष्टः ॥ ननु क्रतुशब्दः स्वाङ्गक्रियावचनः, न च तस्य सर्वक्रतुष्वनुवृत्तिरस्ती- त्यतो नात्र क्रतुशब्दः स्वाङ्गप्रधानपरः, किन्तु अङ्गकलापपर इति भा- वेन क्रतुशब्दार्थमाह — दीक्षेति । ज्योतिष्टोमे दीक्षा नाम यजमानसंस्का- रूपकर्मविशेषः । प्रायणीयोदयनीयौ तस्याद्यन्तयोः कर्तव्येष्टिविशे- षौ । प्रातःसवनं माध्यन्दिनसवनं तृतीयसवनं चेति सोमाभिषवरूप- सवनत्रयम् । अवभृथो नाम ‘ अप्स्रवभृथेन चरन्ति ’ ( ) इत्युक्तेष्टिविशेषः । एतदात्मकाङ्गकलापः सर्वत्र कर्तुं योग्यत्वान्निमित्ता- दिह क्रतुशब्देनोक्त इत्यर्थः