पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 953, कुल 1267 में से
संदर्भ में पढ़ेंइति बृहत्तन्त्रे ॥ ५८ ॥ —— ३७. अधिकरणम् ॥ (१) सू—ॐ ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥ ॐ ॥ ५९ ॥ सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् सर्वत्र सह भावात् । दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्म कः क्रतुः। शयार्थित्वं साधनतयोक्तं, इदानीं तु ये पुरुषविशेषा उत्तमाधिकारि- णः तेषां गुणोपसंहारपूर्वकं उत्तमाधिकारित्वं साधनतयोच्यत इति उपासकप्रतिपत्तौ साधन एव विकल्पो वाशब्दार्थः, नोपासकविक- ल्पः । सा चोपसंहृतिः ‘यथायोगं’ उपास्यानां देवानां योग्यगुणवि- षयिण्येव ‘भविष्यति’ भवतीत्यर्थः । बृहत्तन्त्र इति । उक्तमिति शे- षः ॥ ३६ ॥ ॥ इति अङ्गावबद्धाधिकरणम् ॥ —— ३७. अधिकरणम् ॥ (१) अत्र भूमगुणस्य सर्वोपासकसाधारणत्वं समर्थ्यते । व्यर्थं- त्वाद्भूमगुणो न सर्वोपास्य इति पूर्वपक्षे सिद्धान्तयितुं सूत्रं-भूम्न इति॥ अत्र भूम्नः सर्वोपास्यत्वमिति साध्याध्याहारमभिप्रेत्य तत्र हेतुपरतया ज्यायस्त्वमित्येतद्व्याचष्टे-सर्वेति । क्रतुवदित्यस्योभयत्रान्वयः । तथा च विष्णोर्ज्ञानानन्दादिसर्वगुणेषु मध्ये ‘भूमगुणस्य’ पूर्णत्वरूपशुभध- र्मस्य ‘यो वै भूमा’ (छा० ७-२४.) इत्यत्र श्रुतस्य ‘ज्यायस्त्वं’ क्रतुव- द्विशिष्टत्वमित्यर्थः । कुत इत्यतो भूमत्वमृते कस्यापि गुणस्यानुपास्य- त्वात् सर्वस्यापि पूर्णज्ञानः पूर्णानन्द इत्यादिक्रमेण तदनुबन्धेनैवोपा- स्यत्वादिति भावेन विशिष्टत्वे साध्ये हेतुपरतयाऽपि क्रतुवदित्यंशं व्याचष्टे—क्रतुवदिति । सर्वत्रेति । सर्वयागेष्विति दृष्टान्तार्थः । दार्ष्टा- न्तिके तु ‘सर्वत्र’ आनन्दादिगुणेष्वित्यर्थः । ‘सहभावात्’ स्वानुवृ- त्त्याऽङ्गिनः साफल्यसाधकत्वात् । अनेन सूत्रे क्रतुवदित्यस्यावृत्त्या साध्यहेत्वोरन्वयः । सर्वत्र सहभावादिति हेत्वध्याहारश्च सूचितः ।