भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 952, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 952

[ अधि - ३६. सू - ५८. ] दीपिकासहितम्. ९०५ सर्वदेवतामन्त्रा यथाऽधीयन्ते एवमविरोधो वा । (४) उपासनाऽङ्गदेवानां परमाङ्गतया भवेत् । उपसंहृतिर्विशेषे तु फलानामन्यथा न तु ॥ पुरुषाणां विशेषाद्वा यथायोगं भविष्यति । इत्यर्थः । अधीयन्त इति । अध्येतृभिरुत्तमसर्वदेवेष्विति शेषः । तेषां तत्प्रतिपादकत्वादिति भावः। 'एवं' अधमगुणानामुत्तमेषूपसंहारे 'अवि रोधो' विरोधाभावस्तेषु तद्गुणसत्त्वादित्यर्थः । अनुपसंहारस्यैवोत्त मगुणविषयत्वात् उपसंहारवचनस्याधमगुणविषयत्वादिति भावेन भाष्ये सूत्रे च व्यवस्थितविकल्पार्थकवाशब्दः ॥ (४) यदुक्तं अङ्गदेवतोपासनं कार्यं एकत्र प्रतीतानामन्यत्र यथा यो ग्यगुणानामुपसंहारश्च कार्य इति, तद्द्वयं किं सर्वैः कार्यं न वेत्यपेक्षा यामाह-उपासनेति॥ सर्वैः कार्येति शेषः । 'अङ्गदेवानां' ब्रह्मादीनां 'प रमाङ्गतया' परमात्मपरिवारत्वेनोपासना 'सर्वैः' मोक्षयोग्यैः कार्या भ वेत्, न तु प्राधान्येनेति । तर्हि गुणोपसंहृतिरपि तथा स्यादित्यतो गुणो पसंहृतौ विशेषमाह-उपसंहृतिरिति । विशेष इति तादर्थ्ये सप्तमी । उ पसंहृतिस्तु 'फलानां विशेषे' अतिशयितफलार्थं तदपेक्षायामेव का र्या, 'अन्यथा' तदनपेक्षायां केवलमोक्षाय न कार्येत्यर्थः । यथोक्तं त तत्त्वप्रदीपे-यथा विषभयादौ गरुडादिषु विषहरत्वादिगुणोपसंहृति रिति । फलविशेषापेक्षाऽपि पुरुषविशेषाणामेवेत्याह-पुरुषाणामिति। 'विशेषात्' उत्तमाधिकारित्वरूपात् । अत्र फलविशेषार्थिनः पुरुषवि शेषाश्चैके एव, वाशब्दस्तु पुरुषाणां विशेषादित्यनेनोत्तमाधिकारिरू पोपासकप्रतिपत्तौ सत्यां उत्तमाधिकारिभिरपि फलातिशयापेक्षायां कर्तव्या, अन्यथा नेति उपसंहृतिरूपसाधनविषय एव विकल्पबोध कः, न तु फलविशेषार्थिभिः कर्तव्या नान्यैरिति ज्ञातव्यम् । तथा च उपसंहृतिस्तु पुरुषाणां विशेषं उत्तमाधिकारित्वमपेक्ष्य 'यथायोगं फ लानां विशेषे' यथायोग्यफलविशेषार्थं 'भविष्यति' भवेत् । 'अन्य था' उत्तमाधिकारित्वाभावे तादृशफलयोग्यताया एवाभावात् न वा न कर्तव्या वेति व्यवस्थितो विकल्पः । यद्वा-ये फलविशेषार्थिनः ते गुणोपसंहारपूर्वकं उपासका इति पूर्वमुपासकपुरुषप्रतिपत्तौ फलाति ११४

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 952, कुल 1267 में से · BharatKosha