भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 951, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 951

९०४ ब्रह्‍मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] हिशब्दात् समत्वाद्धोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् । उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः ॥ इति ब्रह्‍मतर्कवचनात् ॥ ५७ ॥ (२) सू—ॐ ॥ मन्त्रादिवद्वाऽविरोधः ॥ ॐ ॥ ५८ ॥ सूक्ता अङ्गावबद्धा उत्तमाङ्गदेवतासम्बन्धिनो ब्रह्मणः सर्वगुणाः 'वेदा हमेतं पुरुषं महान्तम्' (तै.आ.३-१२.) इत्युक्ताः 'अवमेषु' रुद्रादिषु तद्गु णाः 'त्र्यम्बकाय त्रिपुरान्तकाय कालाग्निरुद्राय नीलकण्ठाय' (व्यासन मस्कृतिः) इत्युक्ताः इन्द्रादिषु च नोपसंहर्तव्याः, किन्तु योग्या एवेति सू त्रखण्डस्यार्थ उक्तो भवति । न चायं विभागो न दृष्ट इति वाच्यम् । य था खलु भगवत्परवाक्यानां न सर्वेषामन्यत्र ब्रह्मादिष्वन्वयः, अपि तु योग्यानामेव 'हिरण्यगर्भस्समवर्तताग्रे' (तै.सं.४-१-८.) इत्यादीनां, तद्व दुपपत्तेरिति भावः। कुत एतत्सिद्धमित्यतः प्रवृत्तं हीत्येतद्व्याचष्टे-सम त्वादिति ॥ सूचितादिति शेषः। अस्य वचनादित्येनेनान्वयः। स्मृतौ का र्यमिति उत्तमानां गुणजातमधमेष्विति च शेषः। उपासनशब्द आवर्त ते । तत्रैकः कर्मणि ल्युडन्तो गुणजातपरः । आदिशब्देन गन्धर्वादयो गृह्यन्ते । तथा च अङ्गदेवाद्युपासनं कार्यं मुमुक्षुभिः, परं तु उत्तमा नां ब्रह्मादीनां गुणजातमधमेषु नोपसंहार्यमित्याहुरित्यर्थः । कुत इत्य तो हेतुमाह--समत्वादिति । वाशब्दौ चार्थौ परस्परसमुच्चये । अयम र्थः—अन्यगुणानामन्यत्र उपसंहारे सर्वदेवानां साम्येनैव भाव्यं, तच्च नास्ति केषां चित्समत्वात् केषां चिदुत्तमत्वादिति सर्वसाम्याभावा त् । तत्त्वप्रदीपे तु असमानां समत्वेनोपासनस्य उत्तमानां अधमत्वेनो पासनस्य च निषिद्धत्वादित्येवं प्रकारसमर्पकतया व्याख्यातम् । हेत्व सिद्धिपरिहारायाह—वेदेति । वेदनिर्णायकग्रन्थवेदिन इत्यर्थः । तथा च वेदसिद्धान्ते नानागुणत्वेनैव तेषामुक्तेर्नासिद्धिरिति भावः । वच नादित्यस्य नोपसंह्रियत इत्यनेनान्वयः । इति ज्ञायत इति शेषः॥ (२) एवमेकत्र प्रतीतानां सर्वगुणानामन्यत्रोपसंहाराभाव उक्तः। इदानीमुपसंहाराभ्युपगमेऽपि न विरोध इत्याह सूत्रकृत्—मन्त्रादिव दिति ॥ अत्रादिशब्देन बहुवाक्यसमूहरूपविद्योच्यते । षष्ठ्यन्ताच्च वति रिति भावेन सूत्रं व्याचष्टे—सर्वेति । अग्न्याद्यधमसर्वदेवतामन्त्रादय