पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 957, कुल 1267 में से
संदर्भ में पढ़ें९१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सनं विकल्पेन भवति विशिष्टफलापेक्षया । (२) मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् । नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥ उपासते यथायोगं न वा फलविभेदतः । इति ब्रह्मतर्के ॥ ६१ ॥ —— शिष्टफलत्वादिति बहुव्रीहिः । इच्छोपलक्षकमेतत् । ल्यब्लोपनिमित्ता पञ्चमी, विशिष्टफलापेक्षत्वमपेक्ष्येति भावेन विशिष्टफलापेक्षयेत्याह । विशिष्टफलापेक्षया सामान्योपासनस्य कर्तव्यतायां यस्य मुमुक्षोः दु- रितमस्ति तन्निवृत्तिरूपविशिष्टफलापेक्षा चास्ति तेन कर्तव्यम् । य- स्य तु मुमुक्षोर्न दुरितमस्ति तत्सत्त्वे वा स्वयोग्यतीव्रोपासनेनैव दु- रितादिनिवृत्तिसिद्धेस्तदनिच्छा तेन न कर्तव्यमिति । अत एव न वै- फल्यदोषः ॥ (२) अत्रार्थे स्मृतिमाह—मुक्त्यर्थमिति ॥ 'आत्मयोग्यं' स्वयो- ग्यरूपविषयकमुपासनं यतो मुक्त्यर्थं 'हि' प्रसिद्धं, अतः कार्यमेवेत्य- र्थः । नृसिंहादिकमन्यच्चेति विशेषणविशेष्यभावः । रूपमिति शेषः । चः समुच्चये । दुरितं दुरदृष्टम् । प्रथमादिशब्देन कृष्णरामहयशीर्षादि वैष्णवरूपं गृह्यते । द्वितीयेन अज्ञानमिथ्याज्ञानकामक्रोधादि । 'यथा- योगं' यथायोग्यमुपासते मुमुक्षव इति शेषः । केचित् नरसिंहादिरू- पं नैवोपासत इति । उपास्यत इति पाठे तु मुमुक्षुभिरिति शेषः । कु- तो विकल्पः ? 'फलविभेदतः' दुरितादिनिवृत्तिरूपफलविशेषाकांक्षा- भावात् । यद्वा—स्वयोग्योपासनाफलात् नृसिंहाद्युपासनाफलस्य भिन्नत्वात् भेदात् भेदमपेक्ष्येत्यर्थः । केषां चित्तीव्रस्वयोग्योपासनादे- व दुरितादिनिवृत्तिरूपफलसिद्धेर्न तदपेक्षेति भावः । यद्यपि नृसिं- हादिकमपि केषां चित्स्वयोग्यं रूपं, तथाऽपि तदतिरिक्ताधिकारिणां तत्सामान्यं, तेषामेव सामान्योपासने विकल्प उक्त इति न कुचोद्या- वकाशः । ब्रह्मतर्के उक्तत्वादिति शेषः । अस्य विकल्पेन भवतीति पू- र्वोक्तेनान्वयः ॥ ३९ ॥ ॥ इति विकल्पाधिकरणम् ॥ —**—