पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 968, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ५०. ] दीपिकासहितम्. ९२१ त्तरं भवति' (छा. १-१-१०.) इति शेषत्वश्रुतेः ॥ ४ ॥ (७) सू—ॐ॥ समन्वारम्भणात् ॥ ॐ ॥ ५ ॥ कर्मैव देहं दैविकं मानुषं वाऽ प्यन्वारभेन्नापरस्तत्र हेतुः । भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत् ॥ मतश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—यदेवेति । ज्ञानस्येत्यनुवर्तते । त था च छान्दोग्यवाक्ये ज्ञानस्य कर्मशेषत्वश्रुतेरित्यर्थः । ‘श्रद्धया’ आ स्तिक्यबुद्ध्या युक्तया ‘उपनिषदा’ तस्य ब्रह्मण उप समीपं निषाद यति गमयति एनमित्युपनिषत् स्वयोग्यविद्या तया ‘स्वयोग्यं तु परि ज्ञानं यत्तस्योपनिषत्स्मृतम्’ इति छान्दोग्यभाष्योक्तेः । ‘विद्यया’ ज्ञा नेन ज्ञानी यत्कर्म करोति तदेव ‘वीर्यवत्तरं’ अधिकफलसाधने भव तीत्यर्थः । इयं श्रुतिः बादरायणमते मानुषविषया तत्कर्तृकज्ञानस्य शे षत्ववादिनी प्रतिबन्धकयुक्तदेवताविषया चेति ज्ञातव्यम् ॥ (७) ननु यथा ज्ञानस्य ‘यं यम्’ (मु. ३-१-१०.) इति श्रुतमपि प्राधा न्यं न स्वीक्रियते, किन्तु शेषत्वमेव, एवं ‘यदेव विद्यया’ (छा. १-१-१०.) इति श्रुतमपि कर्मणः प्राधान्यं नाङ्गीकार्यं, किं नाम? ज्ञानशेषत्वं कर्मणः साम्यं वा भवेत्, विशेषप्रमाणाभावादित्याशङ्कां परिहरत्सूत्रं पठति— समिति ॥ अत्र समन्वारम्भणमिति विपरिणामेनावृत्तिर्वा तदित्यनुवृत्ति र्वा । तथा च ‘समन्वारम्भणात्’ ‘कर्मैव’ इति कर्मण एव प्राधान्येन स्व र्गाद्यारम्भकत्वश्रुतेः ‘तत्’ समन्वारम्भणं कर्मण एव स्वर्गाद्यारम्भकत्व मिति सूत्रयोजनामभिप्रेत्य समन्वारम्भणशब्दोपलक्षितश्रुत्युदाहरणपू र्वं सूत्रं व्याचष्टे—कर्मैवेति ॥ इतीति । एवंरूपसमन्वारम्भणवाचिमाठर श्रुतेरित्यर्थः । चशब्दोऽवधारणे साध्यसमुच्चये वा । तेन श्रुतेरित्यस्य समन्वारम्भणमिति साध्येनान्वयः सूचितो भवति । ननु कर्मणः स्व र्गाद्यारम्भकत्वमेव सूचितं, न प्राधान्यं, तच्च परस्यापि सिद्धमित्या शङ्कोत्तरत्वेन संशब्दस्यार्थमाह—समिति । ‘दर्शयति’ प्रतिपादयति कर्मण इति शेषः । सिद्धान्ते मनुष्यविषयेयं श्रुतिः, प्रतिबन्धकयुक्तदे वताविषया च । तथा च ज्ञानोत्तरकालीनं शुभाशुभं कर्मैव ‘दैविकं’ मनुष्याणामेव देवलोके ज्योतिर्मयदेहं मानुषं वा देहं प्रतिबन्धकयुक्त देवानां चोभयं देहमन्वारभेत् । ‘अपरः’ कर्मातिरिक्तज्ञानादिः ‘तत्र’ ११६