पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 969, कुल 1267 में से
संदर्भ में पढ़ें९२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] इति माठरश्रुतेश्च । संशब्दः प्राधान्यं दर्शयति ॥ ५ ॥ (८) सू—ॐ ॥ तद्वतो विधानात् ॥ ॐ ॥ ६ ॥ ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत् । इति कमठश्रुतौ ज्ञानवतोऽपि विधानात् ॥ ६ ॥ (९) सू—ॐ ॥ नियमाच्च ॥ ॐ ॥ ७ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । शरीराद्युत्पादने 'हेतुः' प्राधान्येन कारणं न भवति । किन्तु कर्मशेष तयैव कारणं भवतीत्यर्थः । 'तदीयान्' देवमानुषीयान् भोगांश्च कर्मे व ददाति 'यथाविभागं' योग्यायोग्यविभागमनतिक्रम्य पुण्यं शुभफ लं पापमशुभफलमिति विभागमनतिक्रम्येति वा । कर्मस्वरूपमाह— शुभाशुभं यदिति । पुण्यपापात्मकमित्यर्थः । तत्त्वप्रदीपे तु नापरस्तत्र हेतुरित्यर्थः, विष्णोरितरापेक्षया ना परः पुरुषस्स्वतन्त्रहेतुरिति वा र्थसम्भवादित्युक्तम् ॥ (८) ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं, किन्तु स्वयमेव पुरुषार्थहेतुः । कस्मात् ? ज्ञानिकर्मणां फलाभावात् । फलाभावेऽप्याचा रस्तु मुक्तवल्लीलयैवेत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—तद्वत इति ॥ अत्राप्यर्थकचशब्दोऽध्याहार्य इत्याशयेन तद्वत इत्यस्यार्थमाह—ज्ञा नवत इति । न केवलं ज्ञानरहितस्येत्यपेरर्थः । विधानादिति । कर्मण इति शेषः । श्रुतौ विधानादिति हेतोर्न ज्ञानिनः कर्म लीलामात्रमित्यध्या हृतसाध्येनान्वयः । श्रुतिषु 'उदितानि' उक्तानि कर्माणि 'ज्ञानी च' ज्ञान्यपि सदा कुर्यात् । न केवलमेतावत, किन्तु ज्ञानी सततमकामश्च भवेतेति श्रुत्यर्थः ॥ (९) इतश्च न ज्ञानिकर्म लीलामात्रमित्यभिदधत्सूत्रं पठति— नियमाच्चेति ॥ अत्र चस्समुच्चये । नियमोऽकरणे प्रत्यवायः । तेन त च्छ्रुतिर्गृह्यते । तथा च न केवलं विहितत्वान्न ज्ञानिकर्म लीलामात्रं, किन्त्वकरणे प्रत्यवायश्रुतेश्चेति सूत्रार्थ इत्याशयेन तां श्रुतिमुदाहर ति—कुर्वन्निति । इतीत्यस्य सूत्रेणान्वयः । 'कुर्वन्' इति मन्त्रार्थस्तु- 'शतं समाः' शतवर्षाणि 'इह' मानुषादिजन्मनि यावत् 'जिजीविषे त' जीवितुमिच्छेत् तावत् 'कर्माणि' स्वोचितानि 'कुर्वन्नेव' आम रणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि स