पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 970, कुल 1267 में से
संदर्भ में पढ़ेंएवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे (ई. २.) ॥ इति ॥ ७ ॥ (१०) सू—ॐ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्श नात् ॥ ॐ ॥ ८ ॥ 'ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे का र्वथा कुर्यादिति यावत् । 'एवं' कर्माणि कुर्वति 'नरे' मनुष्यमात्रेऽ पि 'कर्म' पापं 'न लिप्यते' स्वोचितेनासङ्गकर्मणा भगवत्पूजां कुर्व न्तमल्पाधिकारिणमपि प्रागुत्तराणि पापानि न बाधन्ते । ततश्च ज्ञाना धिकारी भवतीति यावत् । 'इतः' कर्मकरणात् 'अन्यथा' कर्माकर णे 'न लिप्यते इति नास्ति' भगवत्पूजामकुर्वन्तं पापानि बा धन्त एव, ततश्च नासौ ज्ञानेऽधिक्रियते, अतः कर्माणि कार्याणीति ई शावास्यटीकायामुक्तम् । तत्त्वप्रकाशिकायां तु—'एवं' कर्मकरणे त्व यि कर्म न लिप्यते । 'इतोऽन्यथा' अकरणे 'नरे' न क्षीयत इति नरं ज्ञानं तद्वानपि नरः तस्मिन् ज्ञानिन्यपि त्वयि पापं कर्म न लिप्यत इ ति नास्तीत्यर्थ उक्तः । तत्त्वप्रदीपे तु—'इह' परमेश्वरे अर्पितानि क र्माणि कुर्वन्नेव शतं समाः जिजीविषेत् । एवं त्वयि नरे न कर्म लिप्य ते, इतोऽन्यथा कर्म न लिप्यत इति नास्तीत्यर्थ उक्तः । सः ईशावा स्यटीकोक्तान्न भिद्यत इति ध्येयम् ॥ (१०) एवं जैमिनिमतावलम्बनेन चोदिते स्वमतं समर्थयत्सूत्रमुप न्यस्यति—अधिकेति ॥ अत्राधिकोपदेशादिति हेतुवाक्यं व्याचष्टे— ज्ञानादेवेति । तथाऽपीत्युक्तेर्यद्यपीति लभ्यते । अपवर्गो मोक्षः । 'का माः' काम्याः 'यथा यथा' यद्यत् कुरुते पुरुषः 'तथा तथा' तेन तेन कर्मणा 'अधिको' ज्ञानफले अतिशयितो भवतीत्यर्थः । अनेनाधिकोप देशादित्यस्य ज्ञानादेव सिद्ध्यत्सु स्वर्गादिष्वधिकभावोपदेशादित्यर्थ उक्तो भवति । तद्दर्शनादिति हेत्वन्तरं, तत् चार्थकतुशब्दान्वयेन त च्छब्दावृत्त्या च व्याचष्टे—युधिष्ठिरादीनामिति ॥ अन्येषां देवजातीनां स्वर्गजुषां मध्ये 'युधिष्ठिरादीनां' धर्मादीनां राजसूयादिना फलाधि क्यस्य लिङ्गस्य दर्शनात् दृष्टत्वादित्यर्थः । उक्तं हि— राजसूयजितान् लोकान् अश्वमेधाभिवर्धितान् । प्राप्नुहि त्वं महाभाग तपसश्च महाफलम् ॥