पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 987, कुल 1267 में से
संदर्भ में पढ़ेंआत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ (गी. ३-१७.) इति भगवद्वचनाच्च ॥ १९ ॥ ( ११ ) सू— ॐ ॥ विधिर्वा धारणवत् ॥ ॐ ॥ २० ॥ ‘ केन स्याद्येन स्यात् ’ ( बृ. ५-५-१० ) इति विधिर्वा। यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं ऽपि तन्न युज्यते, कर्तव्यपरित्यागे साम्यायोगात् । अतो मुख्यासम्भ वेऽमुख्याऽपि जैमिन्युक्तयोजनैव साध्वीयतः सूत्रेऽनुवृत्तचशब्दसमुच्चि तगीतास्मृतिं दर्शयति—यस्त्विति ॥ इति वचनादिति । इति ज्ञानि नां कार्याभावोक्तेरित्यर्थः । अस्य न साम्यायोग इत्यध्याहृतसाध्येना न्वयः । ‘ आत्मरतिः ’ परमात्मदर्शननिमित्तसुखं प्राप्तः ‘ आत्मतृप्तः ’ आत्मना परमात्मना तत्प्रसादेन तृप्तः अन्यत्र विषयसुखेऽलंबुद्धिमान्। न केवलं हरिप्रसादेन तृप्तिः, किन्तु हेत्वन्तरमस्तीत्याह-आत्मनीति । परमात्मनि सन्तोषवान् तत्स्थ एव सन् सन्तुष्टः परमात्मदर्शनादिनि मित्तसुखवानित्यर्थः । ‘ सन्तोषः तृप्तिकारणं सुखम् ’ इत्यभिधानात् महासुखवतोऽल्पसुखेऽलंबुद्धिर्भवेत्येवेति तस्य तद्धेतुत्वोपपत्तिः । अ त्र पूर्वविशेषणमेव पुनस्तृप्तिकारणत्वेनानूद्यत इति न पुनरुक्तिः । य एवंभूतो ‘मानवो’ ज्ञानी ‘तस्य कार्यं’ अवश्यं कर्तव्यं कर्म न विद्य त इत्यर्थः । यद्यपि ‘यस्तु’ इति वचनं तात्पर्यनिर्णये मुक्तपरतया भाष्ये समाधिस्थपरतया व्याकृतं, तथाऽपि समाधिस्थस्यापि ज्ञानि त्वाद्वा ज्ञानिसामान्यपरत्वस्यापि सम्भवाद्वाऽत्रोदाहरणोपपत्तिः । न चास्य वाक्यस्य अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ इति हरिवंशे कार्योक्तिविरोधः शङ्क्यः । तेषां विहिताकरणे ऽप्यदृ ष्टार्थालाभात् तदर्थं कार्यत्वस्य तत्रोक्तावपि सिद्धहान्यभावेन नरकाद्य भावेन च कार्यं न विद्यत इत्युक्तिसम्भवात् ॥ ( ११ ) एवं ‘केन स्यात्’ इति वाक्यस्य यथेष्टाचारविधित्वाभाव मभ्युपेत्य नियमेन सर्वदाचारविधित्वमनुष्ठेयानां मध्ये कामचाराभ्य नुज्ञानमित्यर्थद्वयं स्तुत्यनुमतिरूपार्थद्वयं चोक्तं, अथायं स्वेच्छाच रणविधिर्वा भवतीत्यर्थप्रतिपादकं सूत्रं पठति—विधिर्वा धारणवदि ति ॥ अत्र विधिरित्यंशं व्याचष्टे—केन स्यादिति । विधिरिति । यथे