भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 994, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 994

[ अधि - ४. - सू - २६. ] दीपिकासहितम्. ९४७ देवानांमपि सर्वेषां विशेषादुत्तरोत्तरम् ॥ इति ॥ २५ ॥ ( २० ) सू-- ॐ ॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ॐ ॥ २६ ॥ सर्वधर्मापेक्षा च ज्ञानस्योत्पत्तौ 'विविदिषन्ति यज्ञेन लोकदृष्ट्या निषिद्धपुत्रिकाकामत्यागाद्यपेक्षाऽस्तीत्युच्यते । सर्वेषां ब्रह्मे तरदेवानांमपि उत्तरोत्तरं विशेषादाधिक्येन प्रायशः स्वेच्छानुवृत्त्यैव मुक्तौ क्लृप्तसुखाधिक्यं भवेत् न तदर्थं प्रायः शुभाशुभकरणत्यागापे क्षाऽस्तीत्यर्थः । इति ब्रह्मतर्के इत्यन्वयः । उक्तत्वादिति शेषः । अस्य नेत्यनेनान्वयः ॥ ( २० ) नन्वस्तु ज्ञानिनः सत्प्रवृत्त्या विशेषः । स च मोक्षप्राप्तिरूप एव, नाधिक्यरूपः । न चैवं ज्ञानिनां सुकृतौ कृतावकृतौ च मोक्षश्रुति विरोधः । तत्प्रवृत्तेः मोक्षहेतुत्वेऽप्यसत्प्रवृत्तेरप्रतिबन्धकत्वेन तदुपप त्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - सर्वेति ॥ अत्र चोऽवधारणे । ज्ञानस्योत्पत्तावित्यध्याहृतेनान्वेतीत्याशयेन सर्वापेक्षेत्यंशं व्याचष्टे— सर्वेति । उत्पत्तौ चेति सम्बन्धः । चशब्दोऽवधारणार्थः । तादर्थ्ये स प्तमी । ज्ञानस्येत्यावर्तते । न मोक्षदान इत्यादि पूर्वभाष्यमिहानुवर्तते । धर्मशब्देनाध्यापनशौर्यवार्ताशुश्रूषणादिरूपा वर्णधर्माः गुरुकुलवासा ग्निहोत्रपञ्चयज्ञतपउपास्त्यादिरूपा आश्रमधर्माः शमदमभक्त्यादिरू पाः सामान्यधर्माः श्राद्धादिरूपा नैमित्तिकधर्माश्च तत्त्वप्रदीपोक्ता गृ ह्यन्ते । तथा च ज्ञानस्य मोक्षदाने नाग्निहोत्रादिसत्प्रवृत्त्यपेक्षा । कु तो ? यतो ज्ञानस्य उत्पत्त्यर्थमेव सर्वधर्मेष्वपेक्ष न तत्फलसाधनत्वेऽ पीपि योजना । ज्ञानोत्पत्त्यर्थं कुतः सर्वापेक्षाऽवगम्यत इत्यतः प्रवृत्त स्य-यज्ञादिश्रुतेरित्यस्य यज्ञादीनां ज्ञानसाधनत्वश्रुतेरपीत्यर्थमभिप्रेत्य श्रुत्युदाहरणेन तमंशं व्याचष्टे-विविदिषन्तीति । बृहदारण्यकश्रुतिरि यम् । अत्र 'विविदिषन्ति' इत्यस्य पूर्वेणान्वयः । अत्र 'अनाश केन' अनशनेन । 'यज्ञेन दानेन तपसाऽनाशकेन ' इत्यस्य 'ए तमेव विदित्वा मुनिर्भवति' इत्युत्तरवाक्येनान्वयः । एतं भगवन्तमपरो क्षतो ज्ञात्वा मुनिनामको भवतीत्यर्थः । वस्तुतस्तु-विविदिषन्तीत्यार भ्य ग्रहणात् ये ब्राह्मणा विविदिषन्ति ते यज्ञादिना वर्तेरन्नित्यन्वयो ध्येयः । केचित्तु— 'तमेतं वेदानुवचनेन ब्राह्मणाः' इति पूर्वप्रकृता ब्रा ह्मणाः 'तं' पूर्वोक्तगुणवन्तं 'एतं' परमात्मानं वेदाध्ययनयज्ञादिना 'विविदिषन्ति' ज्ञातुमिच्छन्तीत्युक्तेः अश्वेन जिगमिषन्तीत्यादाविव