पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 995, कुल 1267 में से
संदर्भ में पढ़ें९४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] दानेन तपसाऽनाशकेन' ( बृ. ६-४-२२. ) इति श्रुतेः । ( २१ ) यथा गतिनिष्पत्त्यर्थमश्वादयोऽपेक्ष्यन्ते न निष्पन्नगते ग्रामादिप्राप्तौ ॥ २६ ॥ ( २२ ) सू-ॐ ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तद् ङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ ॐ ॥ २७ ॥ यद्यपि ज्ञानेनैव मोक्षो नियतः । तथाऽपि ज्ञानी शम दमाद्युपेतः स्यात् । ( २३ ) 'आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो यज्ञादेः धात्वर्थज्ञानसाधनतैवोत्का भवतीति प्रकृतसङ्गतिरित्याहुः ॥ ( २१ ) ननु सर्वसत्कर्मणो ज्ञानार्थे अपेक्षितस्यापि मोक्षार्थमपेक्षित त्वं किं न स्यादित्याशङ्कोत्तरत्वेन अश्ववदित्यंशं अश्वस्य गतावपेक्षा यथेत्यर्थकतयोपलक्षणाभिप्रायेण व्याचष्टे—यथेति ॥ गतिः प्रयाणम् । आदिपदाद्गजानादयो गृह्यन्ते । निष्पन्नगतेरिति बहुव्रीहिः । निवृत्त गतेः पुरुषस्येत्यर्थः । ग्रामादीति । प्राप्तिस्संयोगः। आदिपदात्पत्तनादि ग्रहणम् । गतिसाध्यफल इति शेषः । अपेक्ष्यन्त इत्यनुषङ्गः ॥ ( २२ ) ननु यदि सदसत्प्रवृत्तिभ्यां मोक्षतद्भावयोरभावः, तर्हि ज्ञानिनस्ताभ्यां विशेषो नास्तीति न तेन सत्कर्म कार्यमसत्कर्म त्याज्य म् । न च ताभ्यां मोक्षे आधिक्यादि भवतीत्युक्तमिति वाच्यम् । 'ज्ञा नादेव सर्वे कामाः' ( कौण्ठरव्य. ) इति श्रुतेर्ज्ञानादेव तदुपपत्तेरित्या शङ्कां परिहरत्सूत्रमुपन्यस्यति—शमेति ॥ अत्र पूर्ववाद्यनुवादपूर्व तथापीत्यंशं व्याचष्टे—यद्यपीति । ज्ञानिन इति शेषः । शमेति साध्य भागं व्याचष्टे—ज्ञानीति । 'शमदमाद्युपेतः' शमादिसत्प्रवृत्तियुक्तो निषिद्धहीनश्च स्यादित्यर्थः । यद्यपि शमाद्युपेतः स्यादिति सुवचम् । तथाऽपि श्रुतौ पृथङ्निर्देशात्सर्वत्र साहचर्याच्चोभयोपादानम् ॥ ( २३ ) कुत इत्यतस्तद्धेतुत्वेन तद्विधेरित्यंशं व्याचष्टे—आचार्यादि ति ॥ 'आचार्यात्' तदुपदेशात् 'विद्यां' परोक्षज्ञानं प्राप्य 'एतं' हृ द्गतं परमात्मानं 'अभिपश्य' दृष्ट्वा 'शान्तो' भगवन्निष्ठावान् 'दान्तः' इन्द्रियनिग्रहवान् । 'शान्तिस्तु भगवन्निष्ठा दमो ह्यासुविनिग्रहः' इत्य भिधानात् । 'अनुकूलः' सतामिति शेषः । 'परिचरेत्' सेवेत । प रिचरेदिति पुनरुक्तिस्तात्पर्यार्था । आचार्यसमं स्वस्माच्छ्रेयांसमाचा र्ये बहुमानेन परिचरेदिति वा । 'ये के चास्मच्छ्रेयांसस्तान्युपच