पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 996, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - २७. ] दीपिका सहितम्. १५९ भवेद्धान्तो भवेदनुकूलो भवेदाचार्यं परिचरेत परि चरेदाचार्यम्' इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः । ( २४ ) 'ब्राह्मीं वाव त उपनिषदमब्रूमेति । तस्यै तपो दमः क र्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनं यो वा ए रस्व' (पौष्यायण.) इति श्रुतेरिति तत्त्वप्रदीपदिशा श्रुत्यर्थः । तन्त्रा भिप्रायेणोक्तस्य तदित्यस्यार्थो—ज्ञानिनोऽपीति । नियतमोक्षस्यापी त्यपेरर्थः । अपरोक्षज्ञानिन एवेत्यवधारणे वाऽपिशब्दः । तेन श्रुतेः परोक्षज्ञानिपरत्वशङ्का निरस्ता । तद्विधेरिति । शमादिविधानादित्य र्थः । उपलक्षणमेतत् । 'न हन्तव्यः' ( ) इत्यादिनेषेधाच्चे त्यपि द्रष्टव्यम् । अनेन तस्यां श्रुतौ तस्य ज्ञानिनस्तस्य शमादेर्विधा नादिति सूत्रखण्डो व्याख्यातः ॥ ( २४ ) ननु ज्ञानादेव संसारदुःखनिवृत्तिवदानन्दातिशयस्यापि सिद्धेर्व्यर्थः शमादिविधिरित्यतः प्रवृत्तं तदङ्गतयेत्याद्यंशमसिद्धिपरि हाराय श्रुत्युदाहरणपूर्वं व्याचष्टे—ब्राह्मीमिति ॥ प्रथमेतिशब्दः श्रुति स्थः । एवं द्वितीयोऽपि । तृतीयो भाष्यकारीयः । इतीत्यनन्तरं श्रुत्याऽ वगतयेति शेषः । ज्ञानाङ्गतयेति । ज्ञानप्रतिष्ठापकत्वेनेत्यर्थः । निमि त्तभूतयेति शेषः । तेषां ज्ञानोत्तरकालशमादीनां ज्ञानप्रतिष्ठापक त्वं नाम ज्ञानवृद्ध्यर्थत्वं प्रतिदिनं तत्सम्पादकत्वमिति यावत् । यथो क्तं तत्त्वप्रदीपे—शमादीनां ज्ञानवृद्ध्यर्थमवश्यानुष्ठेयत्वादिति । ज्ञानफ लपूर्णार्थमित्यर्थः । अनुष्ठेयत्वादित्यस्य न वैयर्थ्यमित्यध्याहृतसाध्ये नान्त्वयः । 'उपनिषदं भो ब्रूहि' इत्युमापतिना ब्रह्माणं प्रति भो भगव न्निति सम्बोध्य पृष्टे सति तत्र किमुपनिषत्प्रतिपाद्यं पृच्छसि? किं वो पनिषदुत्पन्नविद्याया अवस्थानकारणं ? किं वा विद्याया उत्पत्तिकार णमिति हृदि विकल्प्याद्यस्योत्तरमाह—ब्राह्मीमिति । 'ते' तुभ्यं 'ब्रा ह्मीं' परब्रह्मविषयां 'वाव' असंशयं 'उपनिषदं' तत्स्वरूपमब्रूमेति ब्रह्मोवाचेत्यन्वयः । द्वितीयस्योत्तरमाह—तस्या इति । 'तस्यै' तस्या विद्यायाः 'तपः' कृच्छ्रचान्द्रायणादि शास्त्रप्रवचनं वा 'दमः' इन्द्रि यनिग्रहः 'कर्म' वर्णाश्रमोचितं 'प्रतिष्ठा' तद्धेतुः । तपआदिमत्सु सर्वविद्या प्रतितिष्ठतीत्यर्थः । तपआदीनां विद्याप्रतिष्ठापकत्वं विद्याऽ भिवृद्ध्यर्थत्वम् । तृतीयस्योत्तरमाह—वेदा इति । 'वेदाः' ऋगादयः तदनुकूलग्रन्थाश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमि