रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 100, कुल 735 में से
संदर्भ में पढ़ेंप्रथमः सर्गः ४१
राजा दिलीप ने गुरु वसिष्ठ की आज्ञा को 'ऐसा ही होगा' कह स्वीकार कर लिया।
अथ रात्रिकालं विज्ञाय दिलीपशयनाथं वसिष्ठानुशासनमाह—
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोजितश्रियम् ॥ ९३ ॥
अन्वयः—अथ प्रदोषे दोषज्ञः सूनृतवाक्, स्रष्टुः सूनुः ऊर्जितश्रियम् विशापतिम् संवेशाय विससर्ज ।
अथेति । अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् । 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । सूनृतवाक् सत्यप्रियवाक् । 'प्रियं सत्यं च सूनृतम्' इति हलायुधः । स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः । अनेक प्रकृतकार्यनिर्वाहकत्वं सूचयति । ऊर्जितश्रियं विशांपति मनुजेश्वरम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । संवेशाय निद्रायै । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः । विससर्जाज्ञापयामास ।
भाषार्थ—इसके बाद रात्रि में विद्वान्, सत्य एवं मधुर भाषी, ब्रह्मा जी के मानस पुत्र वसिष्ठजी ने प्रसन्नचित राजा दिलीप को सोने के लिए आज्ञा दी ।। ९३।।
महर्षेर्वसिष्ठस्य दिली पाय मुनिजर्नाहंस'मग्रीसम्पादनमाह—
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ९४ ॥
अन्वयः—कल्पवित् मुनिः तपःसिद्धौ सत्याम् अपि नियमापेक्षया अस्य नन्दिम्याम् एव संविधां कल्पयामास ।
सत्यामिति । कल्पविद् व्रतप्रयोगाभिज्ञो मुनिः । तपःसिद्धौ सत्यामपि । तपसैवै राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतनऽनयेति संविधाम् । कुशादिशयनसामग्रीम् । 'आतश्चोपसर्गे' इति कप्रत्ययः । 'अकर्तरि च कारके संज्ञायाम्' इति कर्मण्यर्थत्वम् । कल्पयामास संपादयामास ।
भाषार्थ—व्रतव्यवहार जानने वाले महर्षि वसिष्ठ नें तप की सिद्धि में भी नियम की अपेक्षा से इन्हें जंगल में उपलब्ध कुशासन शयनादि सामग्री को बतलाया ॥९४॥
वसिष्ठाज्ञया पर्णशालायां पत्न्या सह प्रसुप्तस्य दिलोपस्य ब्राह्ममुहूर्त्ते निद्रात्यागमाह—
निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥ ९५ ॥