रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 101, कुल 735 में से
संदर्भ में पढ़ें४२ रघुवंशमहाकाव्ये
**अन्वयः—**प्रयतपरिग्रहद्वितीयः स कुलपतिना निर्दिष्टो पर्णशालां अध्यास्य कुशशयने संविष्टः (सन्) तच्छिष्याध्ययननिवेदितावसानाम् निशां निनाय।
निर्दिष्टामिति। स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशाला- मध्यास्याधिष्ठाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। 'अधिशीङ्स्थासां कर्म' इत्यनेना- धारस्य कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्ठस्य शिष्याणामध्ययने- नापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपर- रात्रेऽध्ययने मनुः 'निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्'। 'न चापर- रात्रमधीत्य पुनः स्वपेद्' इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्—'म्नौ जौ गस्त्रिदशयतिः प्रहर्षणीयम्''।
इति सञ्जीविनीव्याख्यायां वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।
**भाषार्थ—**अपनी धर्मपत्नी सुदक्षिणा के साथ उस राजा दिलीप ने कुलपति महर्षि वसिष्ठ से बताई गई पर्णशाला मे जाकर कुश आसन पर सोते हुए वसिष्ठ के शिष्यों के अध्ययन से सूचित अन्त वाली रात्रि को बिताया ॥ ९५ ॥
त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्रिरचित चन्द्रकला टीका में प्रथम सर्ग समाप्त।
❀ ❀ ❀
द्वितीयः सर्गः
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ १ ॥
**अन्वयः—**अथ यशोधनः प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच।
आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽग्विन्दासनसुन्दरि ! त्वाम्॥
अथेति। अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातः- काले जायया सुदक्षिणया प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रति- ग्राहितगन्धमाल्या, तां तथोक्ताम्, पीतं पानमस्यास्तीति पीतः पीतवानित्यर्थः। 'अर्श आदिभ्योऽच्' इत्यच्प्रत्ययः। 'पीता गावो भुक्ता ब्राह्मणाः' इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। क्रियार्थोपपदस्य इत्यनेन