रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 109, कुल 735 में से
संदर्भ में पढ़ें५० रघुवंशमहाकाव्ये
बर्हिणो बर्ही' इत्यमरः । 'फलबर्हाभ्यामिनचप्रत्ययो वक्तव्यः' । आवासवृक्षाणामुन्मु- खा बर्हिणो येषु तानि । श्यामायमानानि वराहबर्हिणादिमलिनिम्ना, अश्यामानि श्यामानि भवन्तीति श्यामायमानानि । 'लोहितादिडाज्भ्यः क्यष्' इति क्यष्प्र- त्ययः । 'वा क्यषः' इत्यात्मनेपदे शानच् । मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु तानि । शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः । 'शाद्वलः शादहरिते' इत्यमरः । 'शादः कर्दमशष्पयोः' इति विश्वः । 'नडशादाड्ड्वलच्' इति ड्वलच्प्रत्ययः । वनानि पश्यन्नयौ ।
भाषार्थ—वे राजा दिलीप तालाबों से निकलते हुए सूअरों के झुण्डवाले, अपने निवास वृक्षों की तरफ आते हुए भौरों वाले और हरी २ दूब पर बैठे हुए हरिण वाले हरे वनों को देखते हुए चले ॥ १७ ॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १८ ॥
अन्वयः—गृष्टिः आपीनभारोद्वहनप्रयत्नात् नरेन्द्रः वपुषः गुरुत्वात् उभो अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथं अलञ्चक्रतुः ।
आपीनेति । गृष्टिः सकृत्प्रसूता गौः । 'गृष्टिः सकृत्प्रसूता गौः' इति हलायुधः । नरेन्द्रश्च । उभो यथाक्रमम् । आपीनमोधः । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । आपीनस्य भारोद्वहने प्रयत्नात्प्रयासात् वपुषो गुरुत्वादाधिक्याच्च । अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम् 'ऋक्पूरब्धूंः पथामानक्षे' इत्यनेन समासान्तोऽप्रत्ययः । अलञ्चक्रतुर्भूषितवन्तौ ।
भाषार्थ—प्रथमवार व्याई हुई नन्दिनी ने स्तन के भार को संभालने से और राजा दिलीप ने अपने शरीर की स्थूलता से उन दोनों ने तपोवनगामी मार्ग को अपनी-अपनी सुन्दर चाल से सुशोभित किया ॥ १८ ॥
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ १९ ॥
अन्वयः—वसिष्ठधेनोः अनुयायिनं वनान्तात् आवर्तमानं तं वनिता निमेषालसपक्ष्मपङ्क्तिः ( सती ) उपोषिताभ्यां इव लोचनाभ्यां पपौ ॥ १९ ॥
वसिष्ठेति । वसिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्त्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा निर्निमेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् । उपोषिताभ्यामिव । उपवासो भोजननिवृत्तिस्त-