रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 110, कुल 735 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः ५१
द्वदग्धामिव । वसतेः कर्तरि क्तः । पपौ । यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः ।
भाषार्थ—महर्षि वसिष्ठ की नन्दिनी के पीछे २ चलने वाले वन से लौटे हुए उस दिलीप को रानी सुदक्षिणा ने निर्निमेष तृषित नेत्रों से देखा ॥ १९ ॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ २० ॥
अन्वयः—वर्त्मनि पार्थिवेन पुरस्कृता पार्थिवधर्मपत्न्या प्रत्युद्गता सा धेनुः तदनन्तरे दिनक्षपामध्यगता सन्ध्या इव विरराज ।
पुरस्कृतेति । वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण । 'तस्येश्वरः' इत्यञ्प्रत्ययः । पुरस्कृताऽग्रतः कृता । धर्मस्य पत्नी धर्मपत्नी धर्मार्थपत्नीत्यर्थः । अश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनुस्तदन्तरे तयोर्दम्पत्योर्मध्ये । दिनक्षपयोर्दिनरात्रयोर्मध्यगता सन्ध्येव विरराज ।
भाषार्थ—मार्ग में राजा दिलीप से आगे की गई और सुदक्षिणा द्वारा अगवानी की गई वह नन्दिनी उन दोनों के बीच में दिन एवं रात के मध्य में वर्तमान सन्ध्या के समान सुशोभित हुई ॥ २० ॥
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥ २१ ॥
अन्वयः—साक्षतपात्रहस्ता सुदक्षिणा पयस्विनीं तां प्रदक्षिणीकृत्य प्रणम्य च विशालं शृङ्गान्तरं अर्थसिद्धेः द्वारम् इव आनर्च ।
प्रदक्षिणीकृत्येति । अक्षतानां पात्रेण सह वर्तत इति साक्षतपात्रो हस्तो यस्या सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च । अस्या धेन्वा विशालं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव, आनर्चायामास । अर्चतेर्भौवादिकाल्लिट् ।
भाषार्थ—अक्षत युक्त पात्र को हाथ में लिए हुए सुदक्षिणा ने दूध देने वाली उस नन्दिनी की प्रदक्षिणा और प्रणाम करके उसके विशाल दोनों सींगों के मध्य भाग को मनोरथसिद्धि के द्वार के समान जानकर पूजा की ॥ २१ ॥
वत्सोत्सुकाऽपि स्तिमितां सपर्यां प्रत्यग्रहीत्तेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥ २२ ॥
अन्वयः—सा वत्सोत्सुका अपि स्तिमिता (सती) सपर्यां प्रत्यग्रहीत् इति तौ ननन्दतुः । हि तद्विधानां भक्त्या उपपन्नेषु प्रसादचिह्नानि पुरःफलानि (भवन्ति)।