भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 122, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 122

द्वितीयः सर्गः ६३

पर यह एक ही नन्दिनी गौ कुशलपूर्वक रहेगी । हे राजन् ! यदि तुम जीते रहोगे तो पिता के समान प्रजा की विघ्नों से सदा रक्षा करोगे ॥ ४८ ॥

अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥४९॥

**अन्वयः—**अथ एकधेनोः अपराधचण्डात् कृशानुप्रतिमात् गुरोः बिभेषि (किम्) ? अस्य मन्युः घटोध्नीः कोटिशः गाः स्पर्शयता विनेतुं शक्यः ।

अथेति । अथेति पक्षान्तरे । अथवा । एकैव धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम् । अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनाव् । 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद् गुरोर्बिभेषि । इति काकुः । 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः 'मन्युर्दन्ये क्रतौ क्रुधि' इत्यमरः । घटा इवोधंसि यासां त घटोध्नीः । 'ऊधसोऽनङ्' इत्यनङादेशः । 'बहुव्रीहेरूहसो ङीष्' इति ङीष् । कोटिशो गाः स्पर्शयता प्रतिपादयता । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः । भवता विनेतुमपनतुं शक्यः ।

**भाषार्थ—**एक नन्दिनी गौ रखनेवाले, अपराध के कारण कुपित अग्नि के समान तेजस्वी गुरु से डरते हो तो करोड़ों कलशस्तनी गायों को देकर आप उनके क्रोध को शान्त कर सकते हैं ॥ ४९ ॥

तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ ५० ॥

**अन्वयः—**तत् कल्याणपरम्पराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहं रक्ष । हि ऋद्धं राज्यं महीतलस्पर्शनमात्रभिन्नम् ऐन्द्रं पदम् आहुः ।

तद्रक्षेति । तत्तस्मात्कारणात्कल्याणपरम्पराणां भोक्तारम् । कर्मणि षष्ठी । ऊर्जो बलमस्यास्तीत्यूर्जस्वलम् । 'ज्योत्स्नातमिस्रा' इत्यादिना वलच्प्रत्ययान्तो निपातः । आत्मदेहं रक्ष । ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह—महीतलेति । ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसम्बन्धमात्रेण भिन्नमैन्द्रमिन्द्रसम्बन्धिपदं स्थानमाहुः स्वर्गान्नि भिद्यत इत्यर्थः ।

**भाषार्थ—**इसलिए उत्तरोत्तर सुखों के उपभोग करने वाले, बलिष्ठ अपने शरीर की रक्षा कीजिए; क्योंकि समृद्धिशाली राज्य को भूतल से सम्बन्ध होने के कारण ही दूसरा स्वर्ग कहते हैं ॥ ५० ॥