भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 123, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 123

६४

रघुवंशमहाकाव्ये

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोञ्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तनेवार्थमभाषतेव ॥ ५१ ॥

अन्वयः—मृगेन्द्रे एतावत् उक्त्वा विरते ( सति ) गुहागतेन अस्य प्रतिस्वनेन शिलोच्चयः अपि प्रीत्या तम् एव अर्थं क्षितिपालम् उच्चैः अभाषत इव ।

एतावदिति । मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तदेवार्थं क्षितिपालमुच्चैरभाषतेव इत्युत्प्रेक्षा । भाषिरयं ब्रूविसमानार्थकत्वाद द्विकर्मकः। ब्रूविस्तु द्विकर्मकेषु पठितः। तदुक्तम्—
"दुहियाचिरुधिप्रच्छिभिक्षिचिञ्प्रुपयोगनिमित्तमपूर्वविधौ । ब्रूविशासिगुणेन च यत्सचते तदकीर्त्तितमाचरितं कविना" इति ।

भाषार्थः—इतना कह कर सिंह के चुप हो जानेपर कन्दरा में उठी हुई प्रतिध्वनि से पर्वत ने भी प्यार से मानो उसी बात का जोर से समर्थन किया ।


निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ ५२ ॥

अन्वयः—देवानुचरस्य वाचं निशम्य तदध्यासितकातराक्ष्या धेन्वा निरीक्ष्यमाणः सुतरां दयालुः मनुष्यदेवः पुनः अपि उवाच ।

निशम्येति । देवानुचरस्येश्वरकिङ्करस्य सिंहस्य वाचं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किम्भूतः सन् । तेन सिंहेन यदध्यासितं व्याकरणम् । नपुंसके भावे क्तः । तेन कातरे अक्षिणी तस्यास्तया । 'बहुव्रीहौ 'सक्थ्य०' इति षच् । 'षिद्गौरादिभ्यश्च' इति ङीष् । किंवा वक्ष्यतीति भीत्यैवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः । अत एव सुतरां दयालुः सन् । सुतरामित्यत्र 'द्विवचनविभज्योपपदे इत्यादिना सुशब्दात्तरप् । 'किमेत्तिङव्यय०' इत्यनेनाम्प्रत्यय । 'तद्धितश्चासर्व०' इत्यव्ययसंज्ञा ।

भाषार्थ—शिवजी के सेवक सिंह की बात सुनकर उसके द्वारा आक्रान्त होने से भयभीत आँखों वाली नन्दिनी गौ से देखे जाते हुए अतएव दयावान् राजा दिलीप ने फिर कहा ॥ ५२ ॥


किमुवाचेत्याह—

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३ ॥

अन्वयः—उदग्रः क्षत्रस्य शब्द 'क्षतात् त्रायते' इति भुवनेषु रूढः किल । तद्विपरीतवृत्तेः राज्येन किम् ? उपक्रोशमलीमसैः प्राणैः वा किम् ? ।