रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 124, कुल 735 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः ६५
क्षतादिति । 'क्षणु हिंसायाम्' इति धातोः सम्पदादित्वात्क्विप् । 'गमादीनाम्' इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् । क्षतात् नाशात् त्रायत इति क्षत्रः । सुपीति योगविभागात्कः । तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति—क्षतादित्यादिना । उदग्र उन्नतः क्षत्रस्यवर्णस्य शब्दो वाचकः क्षत्रशब्द इत्यर्थः । क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः खलु । नाश्वकर्णादिवत्केवलरूढः, किन्तु पङ्कजादिवद्योगरूढ इत्यर्थः । ततः किमित्यत आह—तस्य क्षत्रशब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतत्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैर्निन्दामलिनैः । 'उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे' इत्यमरः । 'ज्योत्स्नातमिस्रा—' इत्यादिना मलीमसशब्दो निपातितः । 'मलीमसन् तु मलिनं कच्छरं मलदूषितम्' इत्यमरः । तैः प्राणैर्वा किम् । निन्दितस्य सर्वं व्यर्थमित्यर्थः । एतेन 'एकातपत्रम्' । इत्यादिना श्लोकद्वयेनोक्तं प्रयुक्तमिति वेदितव्यम् ।
**भाषार्थ—**उन्नत क्षत्रियवर्ण का वाचक शब्द 'नाश से जो बचावे वह क्षत्रिय है' इस व्युत्पत्ति से संसार में प्रसिद्ध है । उससे विपरीत आचरण वाले क्षत्रिय का राज्य से क्या प्रयोजन है ? अथवा लोकनिन्दा से मलिन हुए प्राणों से क्या लाभ है ? ॥ ५३ ॥
'अथैकधेनोः' (२-४९) इत्यत्रोत्तरमाह—
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् ।
इमामलूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ ५४ ॥
**अन्वयः—**महर्षेः अनुनयः च अन्यपयस्विनीनां विश्राणनात् कथं न शक्यः ? इमां सुरभेः अनूनाम् अवेहि । त्वयां तु अस्या रुद्रौजसा प्रहृतम् ।
कथमिति । अनुनयः क्रोधापनयः । चकारो वाकारार्थः । महर्षेरनुनयो वाऽन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात् । 'त्यागो वितरणं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणम्' इत्यमरः । कथं नु शक्यः । न शक्य इत्यर्थः । अत्र हेतुमाह—इमां गां सुरभेः कामधेनोः । "पञ्चमी विभक्ते" इति पञ्चमी । अनूनामन्यूनामवेहि जानीहि । तर्हि कथमस्याः परिभवो भूयादित्याह—रुद्रौजसेति । त्वया कर्त्रा प्रहृतं तु प्रहारस्तु । नपुंसके भावे क्तः । रुद्रौजसेश्वरसामर्थ्येन न तु स्वयमित्यर्थः । 'सप्तम्यधिकरणे च' इति सप्तमी ।
**भाषार्थ—**और दूसरी दुधारू गायों के देने से महर्षि वसिष्ठ के क्रोध को किस प्रकार शान्त किया जा सकता है ? इस नन्दिनी को कामधेनु से कम न समझो ! तुमने तो इस पर शिवजी की सामर्थ्य से प्रहार किया है ॥ ५४ ॥