रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 125, कुल 735 में से
संदर्भ में पढ़ें६६ रघुवंशमहाकाव्ये
तर्हि किं चिकीर्षितमित्याह—
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवतः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियाऽर्थः ॥ ५५ ॥
अन्वयः—सा इयं मया स्वदेहार्पणनिष्क्रयेण भवतः मोचयितुं न्याय्या । एवं ( सति ) तव पारणा विहता न स्यात्, मुनेः क्रियार्थः अलुप्तः च भवेत् ।
सेयमिति । सेयं गौर्मया निष्क्रीयते प्रत्याह्रीयतेऽनेन परिगृहीतमिति निष्क्रयः प्रतिशीर्षकम् । एरच् इत्यच्प्रत्ययः । स्वदेहार्पणमेव निष्क्रयः तेन । भवतस्त्वत्तः । पञ्चम्यास्तसिल् । मोचयितु न्याय्या न्यायादनपेता । युक्तेत्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' इत्यनेन यत्प्रत्ययः । एवं सति तव पारणा भोजनं विहता न स्यात् । मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् । स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः ।
भाषार्थ—इस नन्दिनी गौ को अपना शरीर देकर भी आप से छुड़ाना उचित है । ऐसा करने पर न तो आपका व्रतान्त भोजन नष्ट होगा, न महर्षि वसिष्ठ की यज्ञादि क्रिया का साधन लुप्त होगा ॥ ५५ ॥
अत्र भवानेव प्रमाणमित्याह—
भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥
अन्वयः—परवान् भवान् अपि इदम् अवैति । हि तव देवदारौ महान् यत्नः । रक्ष्यं विनाश्य स्वम् अक्षतेन नियोक्तुः अग्रे स्थातुं शक्यं न हि ।
भवानिति । परवान्स्वामिपरतन्त्रो भवानपि । 'परतन्त्रः पराधीनः परवाञ्छाथवानपि' इत्यमरः । इदं वक्ष्यमाणमवैति । भवताऽनुभूयत एवेत्यर्थः । 'शेषे प्रथमः' इति प्रथमपुरुषः । किमित्यत आह—हि यस्माद्धेतोः । 'हि हेतावधारणे' इत्यमरः । तव देवदारौ विषये महान् यत्नः महता यत्नेन रक्ष्यत इत्यर्थः । इदंशब्दोक्तमर्थं दर्शयति—स्थातुमिति । रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि ।
भाषार्थ—पराधीन होते हुए आप भी यह जानते हैं, क्योंकि आपका देवदारु के विषय में बहुत बड़ा प्रयत्न है । रक्षा करने के योग्य वस्तु को नष्ट करके स्वयं बिना घायल हुए शरीर से मालिक के आगे खड़ा होना नौकर को उचित नहीं ॥ ५६ ॥