रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 127, कुल 735 में से
संदर्भ में पढ़ें| ६८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—'तथा' इति गां उक्तवते हरये सद्यः प्रतिस्तम्भविवुक्तबाहुः सः दिलीपः न्यस्तशस्त्रः स्वदेहम् आमिषस्य पिण्डम् इव उपानयत् ।
तथेतीति । तथेति गामुक्तवते हरये सिंहाय । 'कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः' इति शाश्वतः । सद्यस्तत्क्षणे प्रतिस्तम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य । 'पललं क्रव्यमामिषम्' इत्यमरः । पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्गतमत्वमुक्तम् ।
भाषार्थ—'अच्छा' इस वाणी को कहने वाले सिंह के लिए तत्काल मुक्त हाथ वाला अस्त्र छोड़कर उस दिलीप ने अपने शरीर को मांस के लोथ के समान अर्पण कर दिया ॥ ५९ ॥
तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६० ॥
**अन्वयः—**तस्मिन् क्षणे उग्रं सिंहनिपातं उत्पश्यतः अवाङ्मुखस्य प्रजानां पालयितुः उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात ।
तस्मिन्निति । तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत : उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्य 'स्यादवाङप्यधोमुखः' इत्यमरः । प्रजानां पालयितु राज्ञ उपर्युपरिष्टात् । 'उपर्युपरिष्टात्' इति निपातः । विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ।
**भाषार्थ—**उसी समय क्रूर सिंह के झपटने की राह देखने वाले, नीचे मुँह किये प्रजाओं का पालन करने वाले राजा दिलीप के ऊपर विद्याधरों के हाथ से छूटी हुई पुष्प-वर्षा हुई ॥ ६० ॥
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्स्रविणीं न सिंहम् ॥ ६१ ॥
**अन्वयः—**राजा अमृतायमानम् उत्थितं 'हे वत्स ! उत्तिष्ठ' इति वचः निशम्य उत्थित, सन् अग्रतः प्रस्स्रविणीं गां स्वां जननीम् इव ददर्श सिंहं न ( ददर्श ) ।
उत्तिष्ठेति । राजा अमृतमिवाचरतीत्यमृतायमानं तत् 'उपमानादाचारे' इति क्यङ् । ततः शानच् । उत्थितमुत्पन्नं 'हे वत्स ! उत्तिष्ठ' इति वचो निशम्य श्रुत्वा । उत्थितः सन् । अस्तेः शतृप्रत्ययः । अग्रतोऽग्रे प्रस्स्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्स्रविणीं गां स्वां जननीमिव ददर्श सिंहं न ददर्श ।